एतेन प्राणाहुतिकरणमपि भगवन्निवेदितेनैव कार्यमिति सिद्धम्; अनिवेदितभक्षणनिषेधाच्च । उक्तं च जयाख्य-
संहितायाम्-
प्राणाग्निहवनं नाम्रा त्वनुयागं तदष्टममिति । अनुयागस्य प्राणाग्निहवनत्वोक्तेस्तस्य च निवेदितैक-
साध्यत्वाच्च । नच वाच्यं तत्र प्राणाहुतेः प्रसङ्गाभावात्संशमात्रमिदमिति; पूर्वमेव बहुविधवैष्णवस्थणे-
नानात्वेनात्मसिद्ध्यर्थं विश्वात्मानं यजन्ति । मोक्षार्थमपि विप्रेन्द्र स्मृतास्तेऽञ्जलिकारिणः ॥
इति ल्ल्द्रादिदेवतान्तरशरीरकपरमात्मयाजिनामपि वैष्णवत्वेन कथनात्तेषामपि प्रतिष्ठादिषु विनियोगस्य पूर्वमुक्त्यात्तेषां च
प्राणाहुतिमत्त्वात्तान्सर्वानधिकृत्य भगवत्समाराधनाष्टमाङ्गप्रकारचिन्तने प्राणाहुतेरपि प्रसङ्गोऽस्त्येव । एवं श्रीपौष्करे
शयनाध्याये- प्राणयात्रां ततः कुर्यान्नैवेद्यप्राशनादिकमिति । आदिशब्देनाबादिसंग्रहः । अनुयागं ततः कुर्या-
दित्येव यथागमप्रसिद्धि निर्देष्टव्यत्वे प्राणयात्राशब्देनाभिधानं प्राणाद्याहुतिरूपेण प्राप्तायाः प्राणयात्राया अपि तदन्तरात्म-
भगवदाहुतिरूप्रेणानुयागत्वरव्यापनार्थम् । तथा पारमेश्वरेऽनुयागविधौ- ततस्तु शेषमादायेत्युपक्तय,
त्रयीधर्मेण संयुक्ता आमूलाद्भगकमयाः । येन येन तु मन्त्रेण बहिराराधनक्रमे ॥
वेद्यादिस्यस्य देवस्य प्रापणं विनिवेदितम् । तेन तेन तु मन्त्रेण जुहुर्ञ्जक्रकुण्डके ॥
चतुः पञ्च त्रिधा वाऽपि प्राणपूजैत्रोत्तम । केवला भक्तिशास्तु त्रयीधर्मरता द्विजाः ॥
प्राणापानादिभिर्मन्त्रैर्जुहुयुः पञ्चधा क्रमात् । हृदयस्थाय देवाय विष्णवे सर्वजिष्णवे ॥
एवं तु भगवद्भुख्याशनं कुर्वते तु । तेषां पुण्यफलावाप्तिं कश्शक्रोत्यभिवर्णितुम् ॥
इति ।
येषां तु भगवदसाधारणमन्त्रेण वक्रकुण्डे विहितो होमः, न तेषु वैदिकमर्यादाविरोधश्शङ्कनीयः; कल्पसूत्र-
प्रतिनियतधर्मान्तरवत्तदुपपत्तेः । उक्तं च भगवता बोधायनेन -तस्मै शेषं दद्यादेतैखे मन्त्रैः प्रानीयादिति भगवद-
साधाह्यान्त्रत्रैरेव प्राशनं वैष्णवस्य । यथा च वैष्णव्यां स्मृतौ वैश्वदेवप्रकरणे-
वासुदेवाय सङ्कर्षणाय प्रद्यम्नायानि-
स्ताय पुरुषाय सत्यायाच्युताय वासुदेवायेति भगवदसाधारणमन्त्रविधिस्तद्वदत्रापि । तादृशधर्माणां शाखाविशेषमूज्जं
च भगवच्छास्त्रेषु बहुषु प्रदेशेषु श्रुतम्; अतो न कश्चिद्विरोधः । तथाऽप्यन्नान्तरेण प्राणाग्निहोत्रं क्त्वा निवेस्ति-
भोजनेऽपि न विरोधः; भोजनान्तरं वा नैवेद्याय प्रयुज्यतामिति चेन्मैवम्, न तावत्तथा विधिर्दृश्यते, न च तत्कल्पकं
किञ्चित्, निवेदितनिवेदनाद्यनुपपत्तेर्वचनबलेनैव निरस्तत्वात् । प्राणाहुतेश्च भोक्तव्यतया रागतः प्राप्तान्नमेवोपजीव्य-
मित्यतोऽपि ना[न्तर?न्नविभागः । भोजनान्तरं तु नान्तरा भोजनं कुर्यादिति निषेधान्न कल्पयितुं युक्तम् । किच
महाभारते- हृदि ध्यायन्हरिमित्यादिना निवेदितेनैव प्राणाहुतिकरणं स्फुटमुक्तम् । यथा च हृदयावखितभगव-
द्भोक्तृत्वानुसन्धानेन निवेदितस्यैव भोजनमपि समाराधनम्, तद्वद्वहिर्निवेदितेन प्राणादिशरीरकपरमात्मभोक्तृत्वानुसन्धानेन
प्राणाहुतिरपि भगवत्समाराधनमेव; आमनन्ति चैनमस्मिन्निति शारीरकसूत्रे त्रैलोक्यशरीरकस्य वैश्वानराभिधानस्य
परमात्मन एव प्राणाहुत्याधारत्वाय उपासकशरीरेऽप्यनुसन्धानं निर्णीतमिति न सङ्कटं किञ्चिदिति । एवं चोद्यपूर्वकमुक्त-
मागमप्रामाण्ये-
ननु प्राणाग्निहोत्रस्य निवेद्यं साधनं कथम् । निरिष्टकं न शिष्टानामिष्टं होमादिसाधनम् ॥
न च द्रव्यादराक्षेपो होमायेत्यवकल्पते । रागतः प्राप्तमेवान्नं यतस्तेनोपजोव्यते ॥
नापि क्षत्यन्तराक्षेपो नैवेद्यायोपपद्यते । सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम् ॥
नान्तरा भोजनं कुर्यादिति तत्प्रतिषेधनात् । नैष दोषो यतः प्राणप्रभृतिर्क्वेतागणः ॥
गुणभूतः श्रुतो विष्णोर्विष्णुपारिषदेशवत् ।
यथैव हि भगवन्निवेदितमपि पुष्पौदनादि विष्वक्सेनाय दीयमानं नानौचित्यमावहति ।
यथा वा होतुरुच्छिष्ट एव सोमरसोऽध्वरे । अध्वर्यादेर्विशुद्ध्यै स्यादेवमत्र भविष्यति ॥
अपि च- भोज्याभोज्यव्यवस्थायाः शास्त्रमेव निबन्धनम् । तच्चेद्भोज्यमिदं ब्रूते किं वयं विदधीमहि ॥
यथाऽनुष्ठानतन्प्रत्वं नित्यकाम्याग्निहोत्रयोः । एवं प्राणाग्निहोत्रेऽपि नैवेद्याशनतन्त्रता ॥
इति ।
ततः सिद्धम् भगवन्निवेदितेनैव पावनतमेनानादिकालसञ्चितानन्तस्वान्तध्वान्तविध्वंसिना विश्वेषां वैदिकानां
वैश्वदेवप्राणाग्निहवनर्थकं वैश्वानरमूर्तेर्भगवतस्तमाराधनमनुयागापराभिधानमनुदिनमनुविधेयमिति ॥
श्रीमद्वेङ्कटनाथेन सतामित्थं समर्पितम् । पावनं भगवद्भुक्तप्रापणादिनिषेवणम् ॥
विश्वास-प्रस्तुतिः
शमित-भव-भयानां शङ्ख-चक्रादि-चिह्नैर्,
दिविषद्-अधिक-भूम्नां दीव्यताम् ऊर्ध्वपुण्ड्रैः ।
प्रथित-गुण-गणानां प्रापण-प्राशनाद्यैर्
अयम् अहम् अनघानाम् अस्मि पात्रं दयायाः ॥
मूलम्
शमितभवभयानां शङ्खचक्रादिचिह्नैर्दिविषदधिकभूम्नां दीप्यतामूर्ध्वपुण्ड्रैः ।
प्रथितगुणगणानां प्रापणप्राशनाद्यैरयमहमनशनामस्मि पात्रं दयाया ॥
इति सच्चरित्ररक्षायां ध्मावन्निवेदितोपयोगविधिर्नाम तृतीयोऽधिकारः ॥