ननु वैश्वष्ट्वोवशिष्टमेव भोक्तव्यम्, तच्च देवतान्तरविषयम्; ततः कथं भगवन्निवेदितेन देवतान्तरयजनम्,
तथा सत्यतिप्रसङ्गात् । यद्यपि श्रुतिस्मृतीतिहासादिशतैस्तेषां भगवत्पुत्रत्वदासत्वभृत्यत्वशिष्यत्वोपासकत्वप्रभृतिप्रतिपादना-
त्तैस्तद्भुञ्जाञ्जत प्राशनीयम्; तथाऽपि नास्माभिस्तन्निवेदितं तेभ्यो देयम् । न हि लोके पुत्रशिष्यादीन्भोजयदः पित्रा-
चार्यादीन्मोजयित्वा तदुच्छिष्टेन भोजयन्ति । अतो भगवन्निवेदितस्य वैश्वदेवविनियल्लोयोगेन तदवशिष्टत्वासंभवान्न
भोक्तव्यत्वमिति । मैवम्; भगवन्निवेदितेनैव देवतान्तरयागस्य तत्तृप्तेश्च विहितत्वात् । तथा हि पाद्मे चर्यापादे
द्वादशाध्याये-
विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तच्चानन्त्याय कल्पते ॥
इति ।
पारमेश्वरे समाराधनाध्याये-
श्रीसात्त्वते
ऽये यजन्ति पिष्ट्वदेवान्गुरूनपि तथैव च ।
तस्मात्किंचित्समादाय संविभागं समाचरेत्
संविभागावशिष्टेन स्वानुयागं समाचरेत् ।
प्राग्वन्निवेद्य देवाय तेन पिव्यं समाचरेत्
यल्लब्धं भगवद्भुक्तं तस्मादादाय चांशकम्
कुर्परे तु विधानेन द्विजोत्तम
स्यापितस्यानुयागार्थं प्रापणांशः पुरा तु यः ॥
। पितृणां चैव बन्धूनामाश्रिताना तथैव च ॥
यद्वा स्याल्यवशिष्टात्त किंचिदादाय पात्रगम् ॥
ये वेश्वदेवनिरता विप्राद्या वैष्णवास्तु ते ॥
तेन कृत्वा वैश्वदेवमवशिष्टांशकेन तु ॥
इति ।
म्ष्ठनण्ष्ठZ-
छ यथाकार्यस्तथोच्यते । इत्यारभ्य,
-क्रमेण भावयेत्तत्र पितृनथ पितामहान् । तृप्तये ह्यथ सर्वेषां देवाय विनिवेद्य च ॥
प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि च । तत्वेसंवितमध्ये तु निधायाथ संपूज्यार्घ्यादिना ततः ॥
इत्यादि । ईश्वरसंहितायाम्-
आस्तां सु संस्कृतं तावदन्नं सुव्यञ्जनात्वितम् । प्रदाने भगवन्मन्त्रपूताव्यारण्यकानि च ॥
२ शाकमूलफलादीनि यथाकालोद्भवानि च । कर्मण्यानि विचित्राणि स्वल्पानि सुबहूनि वा ॥
विभोनिंवेद्य दत्तानि यान्ति तान्यमृतात्मताम् । पितृणां पितृलोकेषु देवानां सदनेष्वपि ॥
इति ।
तथा महाभारते ज्ञानकाण्डे तृतीयाध्याये-
राजोपरिचरो नामेति प्रक्रम्य,
सात्त्वत विधिमास्थाय नारायणमुखोद्भवम् । पूजयमास देवेशं तच्छेषेण पितामहान् ॥
पितॄनृषींश्च विप्रांश्च संविभज्याश्रितांस्ततः ॥
इति ।
अत्रापि शेषशब्दः प्रापणविषयः;
सात्त्वतं विधिमास्थायेत्युपक्रमात्,
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः । प्रापणं भगवद्भुक्तं भुञ्जते चाग्र्यभोजनम् ॥
इत्युपसंहाराच्च । पञ्चरात्रतम्लवेदयोश्शेषशब्दो निवेदितविषयतया प्रसिद्ध इति ह्यन्यत्र स्थापितम् । किंच,
यश्श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् । तेनैव पिण्डं च तिलैर्विमिश्रमाकल्पकोटीः पितरस्सुतृप्ताः ॥
इत्यादीनि वचनानि तत्र तत्र द्रष्टव्यानि । अतो निर्वोदतेनैव वैश्वदेवकरणसंभवात् वैश्वखेदेवतानामपि भगवन्निवेदितस्य
भोज्यत्वमनपोदितमिति ।