नैवम्; स्नपने निवेदितानामेवामल-
कोदकादीनां जलमयादीनां सर्वेषां भोगानामकदेशैरेकपात्रस्थैः संवन्दस्ववदनाख्यभोगनिवेदनलोकत्वात् । तथा हि
ईश्वरसंहितायां सप्तमे
न पटले-
विभोः [सवन्दने प्राप्तेऽलकन्दनघटास्ततलैःश्चापयेत्प्रभुम् । निरन्तरैस्सावशेषैस्तमुत्तीर्याथ पश्चिमम् ॥
क्रमशो दत्तशेषेण सर्वकुम्भस्थितेन च । इत्यादि ।
यदि पुनरस्थिरस्यापि विधिबलात्क्वचिदभ्युपगमस्तदन्यत्रापि तुल्यम् । अस्ति च विधिः; यथा रहस्याम्राये कर्मावर्त-
प्रकरणे ओदनपचने-
शुच्यन्न श्रपयित्वा वेद्यां भगवते नयति वेद्यां भगवन्तमिष्ट्वा तत्कारिभ्यः प्रयच्छति कारिणः
प्राप्तेनान्नेन वेद्यां भगवन्तमिष्ट्वा तद्धाव उपनयन्ति उपनीतेन धाता स्वयं च कुरुते शिष्टेन च भृत्यान्यान्विभर्ति कि हि
भो भवान्धाता भृत्यवान्मवति तत्त्वे न्वस्य भृत्याः समूहकर्मकालव्यक्तिशब्दस्पर्शरूपरसगन्धाः
इति । अत्र धातृशब्दो-
ऽन्तरात्मतयाऽवस्थितभगवत्परः । तथा तत्र चतुःश्लोकप्रकरणे भूपते- अयमिहाध्यक्षो भगवान्धाता हृदये सत्य-
सन्धस्त एवास्य संविदं ददाति यदा कालं मन्यते तस्य हि विज्ञानद्वयमैन्द्रियिकं स्वाभाविकमस्य तद्यदि तदानी-
मितरत्परतस्तद्भवत्यक्षतः अयमेतावदस्यान्तरात्मा सर्वतः प्रकाशते
इति । अध्यक्षत्वं च तत्राध्यात्मप्रकरणे विशदीज्जम्-
पुरमेकादशद्वारमजस्यावक्ररोचिषः । अत्रस्थः प्रेक्ष्यतेऽध्यक्षः सर्वमत्र कृताकृतम् ॥
इति ।
उपनयन्ति-निवेदयेयुरित्यर्थः । कुरुते-अशनं कुरुत इत्यर्थः । उक्तं च श्रीसात्त्वते समाराधनपरिच्छेदे-
पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् । लब्धानुज्ञस्तथा कुर्यादाक्त्याग यथाविधि ॥
भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् । विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ॥
सत्यरूपस्य त्साश्चाप्यन्नदोषक्षयङ्करी ॥ इत्यादि ।
अत्रायोग्यजननिरीक्षितत्वयातयामत्वादिदोषसंभावनया तन्निवृत्त्यर्थं पवित्रीकरणोक्तिः; भगवन्निवेदितभोजनस्य
हिततमत्वेन तत्रैव प्रतिपादितत्वात्, अन्यथाऽनुयागस्य द्रव्यान्तरेण विधानप्रसङ्गाच्च, -प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं
वरमिति न्यायात् । किंच-
-कपित्थस्य फलं चैव यथा कुञ्जरभक्षितम् । तस्य सारं च गृह्रीयात्तथा हविरसं प्रभुः ॥
इत्यादिभिर्निवेदनदशायां तस्य सूक्ष्मांशं गृहीत्वा गुर्वादिमुखेन तस्यैव प्रत्यक्षयोग्यं स्थूलांशमपि भगवानेव गृह्णातीति
प्रतीयते । तथा हि श्रीपौष्करे भोगनिर्णयाध्याये प्रापणनिवेदनप्रकारमुक्त्वा-
यस्मात्प्रागात्मसात्कुर्याद्भोगशक्तिमनश्वरीम् । व्यक्तां गुर्वादिवक्रैस्तु भुनक्ति तदनन्तरम् ॥
भप्तेत्वमुपचारस्य भोजनाद्विहितं ततः ।
इति ।
क्यानादिति पाठे घन्नन्तत्वादयमेवार्थः । अत्रायमाशयः-भुल्यते इति भोग इति वप्यन्तव्युत्पत्त्या हि भोगशब्दोऽत्र
प्रसिद्धः, न केवलं रूढः । रहास्याम्राये च भगवद्यागत एव भोगो भवतीत्याम्रायते ।
तत्राष्टाष्टकसख्यैस्तु क्रमशो
नरनाथवदित्यादिषु वहुषु प्रदेशेषु राजवद्भगवतस्तर्वोपचारग्रहणमुच्यते । तथा- या परा प्रकृतिर्मान्त्री, इत्युपक्रम्य-
केस्यमात्मतरव तु भगे विषयजं यथा । भुनक्ति तद्वदादत्ते पूर्णव्यक्तिगतः प्रभुः ॥
इति चोच्यते । तच्चौपचारिकसास्पर्शिकभोगेषु संभवति; आभ्यवहारिकेषु तु प्रत्यक्षविरुद्धमिति शङ्कापाकरणाय सूक्ष्म-
सूलाशविभागेन क्रमशस्तद्भोगान्न प्रत्यक्षविरोधः, सूलग्रहणपर्यन्तश्च भगवतो भोगस्वीकार इति तेनैव समाराधनपरि-
पूर्तिरद्ध्यत
इति । किं च तत्र शयनायाये निवेदितान्नेन सह पाकपात्रावशिष्टेन साश्रुफलादिना यो यागः क्रियते
सोऽनुयागः । अणुप्रेनुभूतजीवात्मसिद्धयर्थत्वाच्चायमाणुःनुयाग इत्यपि ग्राह्यः । तस्मिंश्च यागे हार्दानलशरीरको भगवानेव
भोक्ता तच्छक्त्यनुग्रहाच्चायमणुभूतोऽहंस्वभावः पुमान् भोगापवर्गरूपपुरुषार्थप्रान्त्यनुरूपपुंस्त्ववान्मवतीति सष्टमुच्यते-
अण्वात्मतत्त्वं विज्ञेयं विहितं तस्य सर्वदा । आत्मनैवात्मसिद्ध्यर्थं यागमन्नेन तेन च ॥
सह यज्ञावशिष्टेन साम्बुना च फलाक्ति । अनुयागं च तं विद्धि आत्मनाऽऽत्मनि यत्कृतम् ॥
कुर्वन्ति भोजनार्त्कृं प्रत्यहं प्राशनं तु ये । तच्छक्तिग्रहणाघ्राणैः प्रयोजनवशाद् वा ॥
भावशभक्तिसमायुक्तात्सन्मार्गस्था दृढव्रताः । अप्रयत्नेन ते यान्ति देहान्ते पदमच्युतम् ॥ इत्यादि ।
तथा- हार्दानलात्यना भुङ्क्ते ह्यध्यक्षः परमेश्वरः । तच्छस्त्वनुगृहीतत्वात्सोऽहप्रकृतिकः पुमान् ॥
इति ।
तथा नारदीयसंग्रहे
तच्च कारिमुखो भुङ्के भगवान्मक्तवत्सलः । यथा चाग्निकुवा देवास्तथा कारिमुखो हरिः ॥
इति ।