नन्वन्तरात्मनिवेदनमन्तरा न भोक्तव्यम् । तत्र बहिर्वृत्त्यादिवृत्तिस्थानावस्थितस्य भगवतु। निवेदितमन्तरात्मतया
हृदयावस्थितस्य तस्यैव निवेदनीयं चेन्निवेदितनिवेदनाख्यो दोषस्त्वात् । एकस्मित्समाराघने निवेदितानां सर्वेषामपि
भशोनामविशेषेण समाराधनस्तरेऽपि निवेदनप्रसङ्गः । यदपि श्रीसात्त्वते चतुर्दशे परिच्छेदे पवित्रमधिकृत्योक्तम्-
अपरेऽहनि सन्यासमाचरेद्विधिपूर्वकम् । अपनीय च माल्यादीन्प्रदद्याद्वै दिने दिने ॥
नो यान्ति म्लानतां यावच्चतुर्थेऽहनि वा त्यजेत् । विशेषपूर्वयागं तु कारिभ्योऽवसरे स्वके ॥
इति ।
तेनापि हि पवित्रारोपणनिवेदितानां पवित्राख्यभूषणानामेव पुनर्निवेदनमुक्तम् । तच्च नियतावधिकम्; न पुनस्तर्व-
विषयम्; समाराधनानुवृत्तं च । श्रीपौष्करे च स्थिराणामेव समाराधनान्तरे अनुवृत्तिरस्थिराणां तु परित्याग एवेति
स्पष्टमुक्तम् । तथा हि श्राद्धाध्याये तिलदर्भोदकादीनां द्रव्याणां प्रतिकर्मणि-
-जायते उपविष्टानामुपशान्तिश्च तैजसी । अत एवोपयुक्तानां भोगानां कमलोद्भव ॥
विरुद्धस्सग्रहो भूयस्त्वन्यस्मिन् हि क्रियान्तरे । गौणी व्यक्तिर्यतस्तेषामामूलाच्चिदधिष्ठिता ॥
वर्तते परमाश्रित्य तत्कर्तुः फलसिद्धये । चित्सामान्यविनिर्मुक्ता ह्ययोग्यास्ते शरीरवत् ॥
मन्त्राणां स्थायिनो भग्नो यान्ति वै योग्यतां पुनः । कदाचिन्मनसामर्थ्याज्ज्ञानभावनयाऽज्वज ॥
इति ।
२- २
तस्मादस्थिराणां प्रापणमधुपर्कादीनां हृदयावस्थितस्य पुनर्निवेदनमयुक्तमिति;