नत्वत्र -महते
दैवतायेति महादेवः प्रतीयते । मैवम् । समस्तस्यैव तथा रूढत्वात् । व्यस्तस्य नामधेयेतयाऽहिर्बुच्यविश्वेदेवादिवलै-
ज्ञायामलुक्त्वेन वा प्रसिद्ध्यभावात् । तदभावेऽपि तप्यत्यभिज्ञया तत्प्रतीतिर्जायत इति चेन्न; व्यस्तत्वेनैव संज्ञात्वे
अप्राकृतनिरुपाघिकमहत्त्वदेवतात्वयोः -वेदाहमेतं पुरुषं महान्तम्, -तेजः परस्यां देवतायामित्यादिप्रतिपन्नपरमात्म-
परमपुरुषविषयत्वौचित्यादेवात्र रूठ्यास्पदमहादेवप्रत्यभिज्ञाप्रतिरोधात् ।
नारायणमुपागमत्, ध्यायन्नारायण देवम्,
-श्रीमत्यायतने विष्णोः इत्यादिपूर्वापरविरोधाच्च । बोधायनीयादिषु महाखेशब्दस्य व्यस्तोऽपि रुद्रे प्रयोगस्तप्रतिपन्नो
दृश्यत इति चेत्सत्यम्, प्रकरणादिवशात्तु तथा तत्र निर्णयः, अत्र तद्विपरीतमेव । किं चं -महते दैवतायेति दैवत-
शब्दोऽत्र प्रयुज्यते न तु देवशब्दः । न हि महादैवतमिति रुद्रस्य नाम, अपि तु महादेव
इति । अतोऽत्र भगव-
च्छास्त्रादिप्रसिद्धमग्निमध्यगतस्य भगवतस्तमाराधनमेवोच्यते;
ज्वलितेऽनले इति अग्नेरासनवदाधारत्वप्रतीतेः । अग्नि-
मध्ये चासनकल्पनापूर्वकं भगकत्समाराधनं बहुसहितासिद्धम् । यथा जयाख्यसंहितायाम्- वहि तु व्योमवद्ध्यात्वा
तन्मध्ये पूजयेत्प्रभुमिति । ईश्वरसंहितायाम् अथ ज्वालाजटाधारी वह्नौ वै कुण्डमध्यतः इत्यारभ्य ततोऽवतार्य
तलमध्ये खयात्परमेश्वरमिति । भारद्वाजीये-
एव संस्कारसंशुद्धं कृत्वा प्राग्जातवेदसम् । तन्मध्ये स्वेच्छया कार्या प्रागुक्तासनकल्पना ॥
तत्रावतार्य हृदयात् इत्यादि ।
अतोऽत्र -शेषं च हविषस्तस्येत्यनुयाग उच्यते । अत्र चशब्दात्पाकपात्रावशिष्टहुताज्यशेषचरुशेषाणां समुच्चयः
प्रमाणानुरोघेन ग्राह्यः । अत्राभिषेकार्थाधिवासभूतव्रतसमाराधनत्वादप्ययमेवाथो युक्तः । उक्तं हि श्रीसात्त्वते-
दत्तशिष्टमतृप्त च दैवीयान्नेन भावितम् । हविश्शेषेण संयुक्तं व्रतिनां भोजनं हितम् ॥
इति ।
श्रीपौष्करेऽपि-
अण्वात्मतत्त्वं विज्ञेयं विहितं तस्य सर्वदा । आत्मनैवात्पसिद्ध्यर्थं यागमन्नेन तेन च ॥
सह यज्ञावशिष्टेन हुतशेषेण वै सह ॥
इति ।