यजुषि च भगवद्देवताक-
त्वेनाज्यस्यायातयामत्वमाघ्नातम्-
ब्रह्मवादिनो वदन्ति कस्मात्सत्याद्यातयामान्यन्यानि हवीथ्ययातयाममाज्यमिति प्राजा-
पत्यमिति ब्रूयादयातयामा हि देवानां प्रजापतिः
इति । अत्र प्रजापतिर्भगवानेव; तस्यैव नित्ययुवत्वेनायातयामत्वात् ।
प्रजापतिशब्दश्च भगवत्येव बहुषु प्रदेशेषु श्रूयते तेन प्रजापतिरश्राम्यत् इत्युपक्रम्य वराहो स्म कृत्वा इति
वचनात्;
श्यामा एकरूपा भवन्ति । एवमिव हि प्रजापतिस्समृद्ध्या इत्यत्र प्राजापत्यानां पशूनां श्यामत्वार्थं प्रजापतेरपि
श्यामत्वप्रतिपादनात् । आश्रावयेत्यादिना चोक्तस्य सप्तदशस्य प्रजापतेर्विष्णुत्वं महाभारते प्रोक्तम्-
-चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु ॥
इति ।
प्रजापतेस्तभा वेश्म प्रपद्ये इति मुक्तप्राप्यदेशवर्तित्वादिभिः आज्यस्य दैवतं विष्णुः इति नारदीयादिवचनै-
श्चाज्यदेवताभूतः प्रजापतिर्भगवानेव । तदेवमाज्यप्राधाम्यादिभिराज्योपादानं समिदन्तरोपलक्षणार्थम् ।