श्रीमद्रामायणे च तैस्तैर्लिङ्गैरेव रहस्याम्नायभगवच्छास्त्रोक्तप्रक्रियाप्रत्यभिज्ञानात्, मूलापेक्षायाश्च स्मृतेस्सभव-
दधीयमानमूलपरित्यागेन मूलान्तरानुमानायोगात्, ब्राह्मणादीनां सर्वेषामपि भगवत्समाराधनस्य सात्त्वतविध्यास्थान-
पूर्वकत्वस्य
ब्राह्नणैः क्षत्रियैर्वैश्यैरित्यादिना महाभारते सष्टमुक्तत्वेन तदैकार्थ्यात्, उपरिचरादिभिश्चानुष्ठितत्वात्,
अत्र च विधिवदित्यनेन मूलभूतविध्यन्तरस्मरणात्, इक्ष्वाकुप्रभृतीनां सर्वेषामपि पुष्करोक्तप्रकारेण भगवत्समाराधनस्य
श्यवच्छास्त्रप्रसिद्धत्वात्
ततश्चैतत्क्रमाल्लेभे देवस्सर्वेश्वरस्स्वयम् । रामो राजीवनयनो भ्रातृभेदैस्त्रिभिस्सह ॥
इत्यारभ्य, सोऽप्येवमर्चयेदेव पौष्करोक्तविधानतः इति रामाभिधानस्य भगवत एव स्वयं श्रीरङ्गविमाने पक्ष्यैकरोक्त-
विधानेन भगवत्समाराधनस्य पारमेश्वरे स्वयव्यक्तस्थाननिर्णयाध्याये प्रदर्शितत्वाच्च भगवच्छास्त्रोक्तप्रकारेणैवेदं समा-
राधनमिति अवगते सति?म्यते । एवं सति भोक्तव्यविषय शेषशब्दोऽपि तच्छास्त्रप्रसिद्धनिवेदितविषय इति
निश्चीयते । तथा ह्यत्र- अथातो भोगानुपार्ज्य सुस्नातस्सुप्रक्षालितपाणिपादः स्वाचान्तः इत्यारभ्य अभिगमनेनाभि-
गच्छेद्भगवन्तम् इत्यानुपूर्वीकवचनेन-
अन्तःकरणयागादि यावदात्मनिवेदनम् । तदाद्यमङ्गं यागस्य नाम्राऽभिगमनं महत् ॥
इति जयाख्यसंहितावचनेन च प्राप्तमभिगमनाख्यमाद्यमङ्ग नारायणमुपागमदित्यनेन सूचितम् । हविषः पात्रं शिखा
विधिवत्प्रतिगृह्येत्यनेनान्नयज्ञाख्यं प्रधानमङ्गं सूचितम् । हविषश्शिरसा ग्रहणं निवेदनार्थमेव, ततोऽन्नमभ्युद्यम्योत्तान-
तलाभ्यां पाणिभ्यामवनतमुखमनभ्युच्छ्वसन्प्रापणेन संविभागेन चार्चयेद्भगवन्तम् इत्यानुपूर्वीवचनात्, -द्विधा निवेदनं
तेषां शिरसाऽवनतेन यदित्यादिपौष्करादिवचनात्,
प्रयतस्तु शुचिर्मूर्श सर्वमेव निवेदयेत् । तन्मनास्सुमना भूत्वा त्वराक्रोधविवर्जितः ॥
इति श्रीविष्णुस्मृतेश्च । एतेन हविश्शब्देन होतव्याज्यपरिग्रह इति अत्र कुदृष्टिदृष्टं निरस्तम् । होम्यस्याज्यस्य शिरसा
ग्रहणाख्यसंस्काराश्रवणादन्नस्य तच्छ्रवणाच्च । -जुहाव ज्वलितेऽनले इति च होमाख्यमङ्गं सूचितम् । अत्र काष्ठादिषु
प्राक्कुङ्कुमादिना लिप्तां काष्ठसंज्ञां तु होमयेत् । स्रग्धूपमधुपर्कं च बीजान्याज्यं यथाक्रमम् ॥
इति श्रीसाचतवचनादिसिद्धासु सप्तसु समित्सु सतीष्वपि केवलस्याज्यस्योपादानं तत्प्राधान्यादिभिः; संस्थापयस्य
विप्रुड्भिस्तस्पृशेदिन्धनादिकम् । निश्शेषदोषशान्त्यर्थम् इति हि तत्रोच्यते । पूर्णाहुतौ चाज्यमेव विनियुज्यते । यथा
श्रीपौष्करे शयनाध्याये- दद्यात्पूर्णाहुति ततः इत्यारभ्य स्रुवमभ्यर्च्य पुष्पाद्यैराज्यपूर्णां स्रुवं ततः इत्यादि । तत्रैव
कुण्डलक्षणाध्याये- आचतुस्सप्तनिष्ठेनेत्यारभ्य भिन्नमन्त्रगण सर्वमाज्यदोहैर्मुदं नयेदित्यन्तम् । पारमेश्वरे त्वितर-
समिदभोव घृतेनैव तत्पूर्तिः कीर्तिता- काष्ठादीनामभावे तत्सर्वमाज्येन होमयेदित्यादिभिः ।