०७ बोधायनीयस्य पाञ्चरात्रानुसारित्वम्

एवं बोधायनीये विष्णुकल्पे च शेषशब्दो रहस्याम्नायभगवच्छास्त्रमहाभारताद्यैकरस्यान्निवेदितविषय एव ।
यत्तु प्रतिग्रहीतुरेव तत्र तत्प्राशनं विहितमिति, तत्सत्यम्; तथाऽपि वैष्णवस्य भगवन्निवेदितप्रतिग्रहस्तत्प्राशनं तत्रापि
भगवदसाधारणमन्त्रचतुष्टयेन च प्राशनं प्राप्तं प्रतीयमानमबाधितं धर्मपक्षे निक्षेपमर्हति; अन्यथा प्रागुक्तप्रवलशास्त्रान्तर-
विरोधाच्च । तदैकरस्यं चात्रापि पायसपाकवेदिन्धोशीरमयवृत्तिस्याननिवेदितान्नविनियोगप्रकारस्वाध्यायशब्दवाच्यद्वाद-
शाक्षरजपादिलिङ्गैरावाहनोद्वासनादिहोमनमस्कारादिषु चातुरात्म्यसमाराधनप्रतीतेः तत्तन्मन्त्रगतार्ना शब्दानां चातुरात्म्य-
परत्वस्य तत्तच्छास्त्रपर्यालोचनावसितत्वात्सिद्धम् । अतस्तदनुसारेण निवेदितभोजनमेव समन्त्रकमत्रापि प्रतीयत

इति ।