०६ केरलाद्याचारस्य अश्रद्धेयत्वम्

एवं च प्रमाणशतनिर्धारितस्यार्थस्य विरुद्धं भगवन्निवेदितत्यजनं यत्केरलादिदेशेषु कैश्चिदनुष्ठीयते, तदहिच्छत्र-
ब्राह्मणीसुरापानादिवदपन्यायमूलत्वादनादरणीयम् । नचार्यावर्तादिवासिन इवकेरलादयोऽप्यनुविधेयाचाराः क्वचित्सिद्धाः ।
न च सर्वं प्रामाणिकमेव केरलादयोऽनुतिष्ठन्तो दृश्यन्ते, मातुलकन्यापरिणयनरजस्वलापरिणयनादेरद्यायविगान
क्वचित्क्वचिदनुष्ठीयमानत्वादिति ।