भगवच्छास्त्रेषु निर्माल्यनिषेवपराणां वचसामागमप्रामाण्ये
निर्वाहः कृतः । एवं हि तत्रोक्तम्-
यानि पुनर्दीक्षितमेवाधिकृत्य समयानुशासनसमये निर्माल्योपयोगनिषेधपराणि
वचनानि तानि पार्षदेशोपयोगोत्तरकालाभिप्रायेण द्रष्टव्यानि ।
-यतो भगवदर्थेन त्यक्तं स्रक्चन्दनादिकम् । पश्चादभोग्यतां याति विष्वत्सेनपरिग्रहात् ॥
अत एव निवेद्यं तत्ततोऽर्वागेव सात्त्वतैः । सेव्यते तेन तत्तेषामुत्कर्षस्यैव कारणम् ॥
इति ।
विष्वक्सेननिवेदिते च विकल्पभेदास्तत्तत्संहितानुसारेण प्रयोगपद्धतिरत्नावल्यादिषु भोजराजादिभिः स्थापिता द्रष्टव्याः ।