०४ सिद्धान्तारम्भः

तत्रोच्यते-यद्भगवन्निवेदितादेरभोक्त्यत्वमुक्तं तत्सतां दूरपरिहरणीयैस्त्वादृशैरेवेति शास्त्राण्याचक्षते । तथाहि-
रहस्याम्नायब्राह्मणे-

अथ यदि वक्ता तृतीयज्यणो भवेदुदासीनश्च द्वितीयलक्षणस्स्यात्, उदासीन एव नियोज्यो
भवति अस्मात्सर्वा हि वृत्तिर्निवर्तते तृतीयज्यणात्तथा चतुर्थव्यणादिति । निवेदितस्य च स्वाचार्यप्रभृतियप्तेयतमेभ्यः
प्रदेयत्वमुक्त्वा तदलाभे यथालाभं ज्ञातेभ्यो योग्येभ्यः प्रदेयत्वमभिधायाम्प्रतरद्व्यपते- अथ यदि कश्चित्युप्रक्षास्ति-
पाणिपादोऽभिमुखो भवेत्, । न च ज्ञायेत, प्रष्टव्यो भवति किं भवान्प्राप्तेनान्नेन करिष्यतीति, स यदि ब्रयाद्भो यथा-
ज्ञानं भगवन्तं यक्ष्यामीति तस्मा अन्नं देयं भवति, अथ यदि ब्रूयात् भो न खल्वहं जानाम्येवं भगवन्तं यष्टुमिति
किं तर्ह्ययभिहोपायोऽन्नलाभायेत्यभिगतोऽस्मीति तदन्नं प्रतिष्ठाप्यान्तर्हित्वा वा इत्यादि । उक्तं च पाद्मे चर्यापादे
द्वादशाध्याये- शुनामिव पुरोडाशो न नीचेषु तदिष्यते

इति । तथा ईश्वरसंहितायाम्-
-दुर्लभो भगवद्भक्तो लोकेऽस्मिस्थषस्तुत । तत्रापि दुर्लभतरो भावो वै यस्य तत्त्वतः ॥
पादोदकं प्रति शुभः सिद्धान्ने च निवेदिते । सगादिके चोपभुक्ते ह्युपभोगार्थमेव च ॥
अतश्च भावहीनानामभक्तानां च षण्मुख । निषिद्धं भगवन्मग्नदृक्पूतमखिलं च यत् ॥ इति
श्रीपौष्करे शयनाध्याये तादृशेभ्यः प्रदातुरपि पातित्यमुक्तम्-

अपात्राणामभक्ताना नास्तिकानां दुरात्मनाम् । वर्जनीयं प्रयत्नेन स्वानुष्ठानपरेण तु ॥
स्त्रीशूद्राणां शिशूनां च भृतकानां विशेषतः । सकामो वाऽथ निष्कामो मन्त्रज्ञस्तद्वतस्थितः
मन्त्रपूतं च नैवेद्यं निषिद्धानां ददाति यः । सिद्धोऽपि याति पातित्यमारुरुक्षुस्तु किं पुनः ॥
ईश्वरसंहितायां प्रायश्चित्तित्वमप्युक्तम्-

रक्षणीयमभक्तेभ्यस्तदन्नं विष्णुयाजकैः । प्रायश्चित्ती भवेद्दाता अपात्रे प्रतिपादनात् ॥ इति
तत्रैव- प्राणवद्रक्षणीयं च मन्त्रपूतं महामुने । नैवेद्यं श्वसृगोलभ्यो मार्जारेम्यो विशेषतः ॥
पक्षिभ्यो मर्कतेयश्च मूषिकेभ्यस्सदैव हि ॥ इति च ।
नारदीये प्रायश्चित्तविशेषोऽक्तः-

ब्राह्मणैः क्षत्रियैर्वैश्यैर्वैष्णवैर्भक्तिसंयुतैः ।
जपेदष्टोत्तरशतं मूलमन्त्रं समाहितः ॥
भोज्यं निवेदितं यत्तदन्यैर्भुक्ते निवेदिते ॥
इति ।

इति ।
किंच भवादृशेभ्यो दाने सत्यन्ननाश एव रहस्याम्नाये ब्रह्मचर्याश्रमप्रकरणे श्रुतः- यद्येवमतिरिक्तं स्यादतिरिक्तमिति
पुनः कस्य वार्ता? इत्यादिना तदतिरिक्तमित्यन्तेन अतिरिक्तं प्रतिपाद्य, तदुपादानवते दद्यादित्यादिना रहस्याम्नाय-
निष्ठेभ्यः, तदभावे त्रयीधर्मरूपभगवत्समाराधननिष्ठेभ्यः, तदभावेऽन्नस्यादनीयताप्रवृत्तिनिमित्तकान्नशब्दवह्वयत्वेन यस्मै-
कस्यैचिदवश्यदेशवे भगवत्कर्मयोग्येभ्यो गवादिभ्यः, तदभावे तादृग्भ्यो हस्त्यादिभ्यः, तदभावे भगवद्यज्ञार्हौषधादि-
स्थावरेभ्यश्च मूले दानमुक्त्वाऽतन्तरमुक्तम्- न त्वेवान्नं नाश्यं भवति, कोऽन्ननाशः? उज्झन निखननमस्तु प्रक्षेपणं
काकेभ्य श्वसूकरेभ्यो वा यत्किञ्चिन्न कर्मण्यं स्थावरजङ्गमं वा तत्र दानमित्येषोऽन्ननाशः

इति । तदेतदखिल्मनु-
ल्कानैक्त्यागमप्रामाण्ये हि युष्मद्विधा मूर्खास्तेषामेव निषेधगीः । सेव्यमानं हि तत्सर्वं वैष्णवैरधिकारिभिः ॥
अघौघध्वसनायालं सोमपानमिवाध्वरे । अन्येषां हि तददृश्यं पुरोडाशः शुनाभिव ॥

इति ।
यत्तु

विष्णुनाऽत्तमभ्यतीत्यादौ वर्तमानापदेशरूपत्वाद्विधिपरत्वं न प्रतीयत इत्युक्तम्, तन्रईड्ांआ-ााएक्षईवईइT-ा-ाानां
निष्ठ्यूतम् । अप्राप्तार्थत्वेनैव हि विधिव्यवसापनम्; अन्यथा तत्रतत्र यजतिजुहोत्यवद्वन्तिप्रोक्षतीत्यादिष्वपि वर्तमानाप-
देशरूपेषु विधिपरत्वपरित्यागप्रसङ्गात् । अत्र विधिरेव साक्षादनन्तरं प्रतीयते -तस्माद्विद्वांसो विष्णूपहृतं भक्षयेयुरिति ।
ननु यदि विष्णुनाऽत्तमष्कतीत्यादौ विधिपरत्वस्वीकारः, तर्हि तत एव प्राप्तार्थत्वाद्भक्षयेयुरित्यस्य विधिपरत्वे न स्यादिति
चेत्, कस्तर्ह्यस्यार्थः? प्रागुक्तानुवादमात्ररूपमिति चेत्तथाऽपि तेनैवाश्रन्तीत्यादेर्विधित्वं दृढीकृतम् । न ह्यसिद्धमनूद्यत
इत्यत्रोपपत्तिं पश्यामः । न चानुवादो निष्प्रयोजनो भवितुमर्हति । न चैतदनुवादेनान्यद्विधेयं दृश्यते । अतः प्रयोजना-
लोचनायां प्रागुक्तविधित्वस्थिरीकरणमेव प्रयोजनमिति सिद्धम् । यद्वा-विधिप्रत्ययश्रवणादेष एव विध्युद्देशः, अन्नन्ती-
त्यादिकं त्वेतदभिप्रेतविशेष[?व्यञ्जन रूपेणावयुत्तया। रूपत्वोक्त्याऽनुवादादेतस्यैवोपकारकमिति, तथाऽपि विधावेव
पर्यवसानमिति सिद्धम् । एवं श्रुत्यैव स्मृत्यादोनामनुविधेयतया सिद्धस्यार्थस्य न स्मृत्या बाधश्शङ्कनीयः, अपि तु
तद्विरुद्धाः स्मृत्यादय एव बाध्येरन्निति विरोधाधिकरणे स्थापितम् । एवं च सति, यद्यपि -निर्माल्यं च निवेद्यं
चेत्यादिवचनमाप्तकोटौ निविष्टं स्यात्; तथाऽपि सामान्यरूपत्वेन सावकाशत्वात् श्रुतिविहितविशेषव्यतिरिक्तविषयमिति
उत्सर्गापवादन्यायतस्सिद्धम्, विशेषोपसंहारन्यायाच्च । तथा हि; रुद्रादिदेप-ा-न्नइgv-।एत्र- ए ग्न्नुचोःननं तत्तच्छास्त्रैरेव
सिद्धमिति सर्वैरङ्गीकृतत्वान्न तत्र तावद्विवादः । अत एव हि रुद्रपरत्वप्रतिपादनाग्रहगृहीतैरपि तैस्तदुच्छिष्टपरित्यागेन
तन्निकर्षमाशङ्क्य -त्वं ब्रह्मण इत्यादिना तदुच्छिष्टपरित्यागस्यान्यथासिद्धत्वेन अपकर्षलिङ्गत्वं निराकृतम् । एवं च सति
सामान्यरूपनिर्माल्यनिवेद्यशब्दयोर्विशेषाकाङ्घायामाकाह्निन्यतविशेषसमर्पणक्षमनिखइध्यमानविशेषसमग्गिमे तस्मिन्नेव पर्यव-
सानं नान्यत्रेति स्वीकार्यम् । यथा पशुशब्दस्य छागज्ञब्दोक्तविशेषपर्यवसानं तथेहापीति न सङ्कटं किञ्चित् । अयमर्थो
न्यायनिरपेक्षमेव वचनैः प्रतीयते । यथा ब्राह्मे पुराणे-
-विष्णोर्निवेदितं शुद्धं मुनिभिर्भोज्यमुच्यते । अन्य[वेद्यं तु?न्निवेद्यं निर्माल्यं भुक्त्वा चान्द्रायणं चरेत् ॥

इति ।
यत्तु पितृत्वादिविकल्पदूषणैर्वल्गितं, तत्तदा शोभेत यदि वयं तेषु हेतुलमभिःनुसंदधीमहि; यदि चोच्छिष्टानु-
मतिवाक्यविषय[त्वेनोपक्षिपेम ।त्वं नापेक्षेमहि । सिद्धे तु विशेषविधाने तत्प्ररोचनप्रवृत्तवचनोपस्थापितपरमार्थभूत-
तत्तदाकारवर्णनं तु क्रियमाणं नोपालन्मपदम् । न चातिप्रसङ्गः, स्वयमसाधकत्वात् । साधकानुग्राहकं तु साधकसन्निधौ
वर्तमानमपि हि न स्वयं कार्यं साधयेत्, अन्यथा सामग्रीमनपेक्ष्य हेतूनां सर्वेषां प्रत्येकं कार्यकरणप्रसङ्गे यस्य कस्यापि
ल्गोकालेश्वरादेः हेतोस्सर्वत्र सन्निहितत्वेन सर्वं कार्यं सर्वदा सं[प्रति?पद्येत । ततः प्रेक्षावतां तदथोद्योगभङ्गो विधि-
निषेधादिवैयर्थ्यं च स्यात्, अयत्नत एव सर्वफलावाप्तेः, दुःखानां च दुष्परिहरत्वात् ।
यद्वा, -निर्माल्यं च निवेद्यं चेत्यस्यायमर्थः-निर्माल्यं-रुद्रादिनिवेदितम्; प्रसिद्ध्यादिवशात्तत्तावत्सिद्धम् ।
भगवन्निवेदिते हि निर्माल्यशब्दप्रयोगोऽपि निषिध्यते, यथेश्वरसंहितायाम्-

निर्माल्यबुद्ध्या दैवीयमित्यादि ।
निवेद्य-निवेदनयोग्यं, निवेदनार्थं परिकल्पितमित्यर्थः । निवेदनार्थं परिकल्पितस्य भोजनेऽपि दोषमाहुः । यथा
न्नीपौष्करे विष्वक्येनाध्याये-

प्राक्साधितं च यागार्थं देवतानां प्रयत्नतः । तत्समर्पणपर्यन्तं यावद्देवान्नमुच्यते ॥
अन्यथा भक्षणं तस्य यदि मोहात्कृतं द्विज । प्रायश्चित्तशतैश्चीर्णैश्शुचिर्भवति मानवः ॥
तत्रमन्त्रतर्पणादन्ते याजिनां याजिनां वर । गर्वबुद्धिविमुक्तानां भक्षणं सर्वशुद्धिकृत् ॥
पावनं पुण्यदं शश्वद्भूरिकूयभिवृद्धिदम् ।

इति ।
एतेन,

बृथाकृसरसंयावपायसापूपमेव च । अनुपाकृतमांसं च देवान्नानि हवींषि च ॥
इति मनुवचनमपि निर्व्यूढम् । निवेदनार्थ परिकल्पिते देवान्नमिति संज्ञात्वेन प्रयोगात्तदैकार्थ्ये च संभवति तद्विरुद्धार्थ-
कल्पनायोगात् । मन्वादिधर्मशास्त्रस्यापि चित्रशिखण्डिप्रणीतभगवच्छास्त्रमूलकत्वस्य महाभारते प्रतिपादितत्वेन मूल-
विरोधप्रसङ्गाच्च । तथा ह्युक्तमुपरिचराख्याने-
ऽ तस्मात्प्रवक्ष्यते धर्मान्मनुस्स्वायंभुवः स्वयम् । उशना बृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः ॥
प्रवक्ष्यतस्तदा शास्त्रं युष्मन्मतसमुद्धृतम् । इति; -एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसंज्ञितम् । इति च ।

मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते इति स्मृत्यन्तरवचनेनैव मानवस्मृत्यपेक्षया स्मृत्यन्तराणां दुर्बलत्वात्
मानवस्मृत्युपजीव्यभगवच्छास्त्रविरोधे तेषां बाध्यत्वमेव ।
यद्वा, -निर्माल्यं च निवेद्यं चेत्युभयमपि रौद्रविषयमेव । तथा हि; तैरेव षड्विधनिर्माल्यनिरूपणे- निर्माल्यं
च निवेद्यं चेत्यवान्तरविधाद्वयमुक्तम् । तथो हियथा तेषां सिद्धान्तसारपद्धतौ प्रायश्चित्ते- निर्माल्यभक्षणे त्वकामा-
ह्मपञ्चक सार्धसहस्रमावर्तयेत् । कामतोऽनन्तयागे पादाध्वरदीक्षया शुध्यति । निर्माल्यभेदाः कथ्यन्ते-देवस्व देवद्रव्यं
नैवेद्यं निवेदितं चण्डद्रव्यं निर्माल्यं चेति । देवसंबन्धि ग्रामादि देवस्वम् । वस्त्राद्यलङ्कारादि देवद्रव्यम्
परिकल्पितं नैवेद्यम् । तदेवोत्सृष्टं निवेदितम् । चण्डाय दत्तं चण्डद्रव्यम् । बहिर्निक्षिप्तं निर्माल्यम् ।
देवे पिण्डिकास्थं यन्त्रिकाद्यन्निर्माअन्नभवति, षड्विधमपि निर्माल्यं न जिघ्रेन्न च लङ्घयेन्न दद्यान्न
क्रव्यादो भवति भुक्त्वा मातङ्गः लङ्घने सिद्धिहानिः आघ्राणे वृकः स्पर्शने स्त्रीत्वम् अथादाने चण्डालः
इति । उक्तं च भगवच्छास्त्रेऽपीश्वरसंहितायां समाराधनाध्याये-

स्कन्दः-
ईश्वरः-
तत्रैवाध्याये
त्वया निषेध आख्यातो मन्त्रदत्तस्य वस्तुनः । सर्वत्र पत्रपुष्पान्नपूर्वस्य परमेश्वर ॥
तस्द्बदाना प्रदानं तु प्राशनं च प्रशंससि
प्रदानं प्राशनं पुत्र उपभोग्यत्वमेव च ।
तत्पुनर्वैष्णवे मर्शे वर्तते व्यत्ययेन तु ।
। किमेतदत्र मे जातः संशयः परमेश्वर ॥
पापकृत् ॥
य । दानैर्धर्मैः कृतैः पुण्यैस्तपोभिश्च न तत्फलम् ॥
यत्फलं भगवद्भक्तिप्रदानप्रापणादनात् ॥

इति ।
सोमपानादपि पावनतरत्वमस्य प्रपञ्चितम् । तथा हि-
क्लेशेन महता चैव प्राप्तं पशुवधादिना । यज्ञान्ते सोमपानं तु संस्कृतं पशुकर्मणि ॥
। निवेदनाथ
विसर्जितेऽपि
क्रीणीयाद्दत्वा
विक्रये शबरः
स्य z’स्मृता ‘ण्यता यथा । तथा पुन तस्त यज्ञ’ ॥
किं पुनस्तत्प्रभावाद्वै दिव्यैर्मन्त्रैस्तु वाग्यतैः । संस्कृत्य साधितं यद्वै सर्वं संशोधितं पुनः ॥
मुद्रामन्त्रसमेतेन सध्यानेन षडानन । जगद्गरौ मन्त्रमूर्तौ तन्मन्त्रेण निवेदितम् ॥
दत्तं मन्त्रवरेणव मन्त्रज्ञस्य महात्मनः ।
प्रदानाद्भक्षणात्तस चोत्तारयति तत्सुत ।
पूजितं सिद्धगन्धर्वैर्वन्दितं भगवन्मयैः ।
अनादिभगवच्छास्त्रवचनैर्विहितक्रियम् ॥
आदिसर्गपवित्रं तदमरैरभिवन्दितम् ॥
त्तं ब्रह्ममयैर्नित्यमरैभूतं
रक्षितं कर्मनिष्ठैस्तु शंसितं यज्ञयाजकैः ॥

इति ।
तत्रैव दशमेऽध्याये समयोपदेशे महादेवेन भगवन्निवेदितस्य सर्वस्य प्रतिपत्तिं विना
न्नादिशब्दैरभिधाने निर्माल्यबुद्ध्या दूषणे च महादोष उपपादितः-

उपभुक्तस्य सर्वस्य गन्धपुष्पादिकस्यच । स्नानादाबुपयुक्तस्य दधिक्षीरादिकस्य
संभूतैस्ताधारणैः केवला-
दूषणं न प्रयोक्तव्यं शब्दैरप्रतिपत्तिजैः । निर्माल्यबुद्ध्या दैवीयं पावनं दूषयन्ति ये ॥
ते यान्ति नरकं मूढास्तत्यभावापलापिनः । प्रत्यक्षेण प्रमाणेन लोकदृष्टेन हेतुना ॥
शिष्टैरनुष्ठिता चैव वैष्णवस्य पवित्रता । सिद्धा पादोदकानस्य महत्ता देवपूजिता ॥

इति ।
अत्र गन्धपुष्पादीत्यादिशब्देन तुलसीपत्रादिग्रहणम्; दधिक्षीरादीत्यादिशब्देन कियचूर्णादिग्रहणम् । सर्वस्य
गन्धपुष्पादिकस्य पादोदकान्तस्येति भगवदुपभुक्तस्य सर्वस्यापि संग्रहः प्रतीयते । यथा ईश्वरसंहितायामेव-
-कुङ्कुमं चन्दनं चैव कर्पूर चानुलेपनम् । विष्णुकेपरामृष्टं तद्वै पावनपावनम् ॥

इति ।
तथा पाद्मोद्भवे-

विष्णुदेहपरामृष्टं यश्चूर्णं शिरसा वहेत् । सोऽश्वमेधफलं प्राप्य विष्णुलोके महीयते ॥

इति ।
तथाऽन्यत्र-

विष्णुगात्रचूतं चूर्णं ललाटे धारयेद्द्विजः । अपोह्य पातकान्याशु मोदते दिवि देववत् ॥ इति
एतेन भगवसादोदकदिव्यचूर्णमालादीनामपि न निर्माल्यशब्दाभिलप्यत्वमिति सिद्धम् । अन्यत्रापि तेषां
प्रतीयते । यथा ब्राह्मे पुराणे-

विष्णोर्नैवेद्यकं शुद्धं मुनिभिभोज्यमुच्यते । अन्यवेद्यं तु निर्माल्यं भुक्त्वा चान्द्रायणं चरेत् ॥
विष्णुदेहपरामृष्टं माल्यं पापहरं शुभम् । यो नरश्शिरसा धत्ते स याति परमां गतिम् ॥ इति
मीवैखानसेऽप्यत्रिसंहितायाम्-
मन्त्रेण पादे यद्दत्तं माधवं पाद्यमुच्यते । तत्पाद्यतीर्थमादाय भक्त्या देवमनुस्मरन् ॥
आत्मानं प्रोक्षयेद्यस्तु सर्वपापैः प्रमुच्यते ॥

इति ।
ब्रह्माण्डे- पृथिव्यां यानि तीर्थानि तेषु स्नानेन यत्फलम् । विष्णोः पादोदकं मूर्ध्ना धारयेत्सर्वमामुयात् ॥
मानवो यस्तु गङ्गायां स्नानं पानं समाचरेत् । तस्य यादृग्भवेत्पुण्यं तादृक्पादाम्बुधारणात् ।ऽ।
त्रिषु लोकेषु यत्तीर्थ प्रयागं पुष्करादिकम् । तत्पादयुग्मे कृष्णस्य तत्र तिष्ठति नित्यशः ॥
श्रीभाग्घ्नते-

पादोदकस्य माहात्म्यं जानात्येव हि शङ्करः । विष्णुपादोद्भवां गङ्गां शिरसाऽधारयद्धि सः ॥
प्रायश्चित्तमनुप्राप्त कृच्छ्रं वाऽप्यघमर्षणम् । विष्णुपादोदकं पीत्वा शुद्धिमाप्नोति तत्क्षणात् ॥
एद रूप ’ नाम ध २ । पाददक च न’ यस्य श्वघ्न स -लप’वः ॥

इति ।
ईदृशेषु निर्माल्यशब्दो भुक्तोज्ज्ञितत्वमात्रविवक्षया, न तु निन्दाभिप्रायेण ।
श्रीनारसिंहे-

गङ्गाप्रयागगयनैमिशपुष्कराणि पुण्यानि यानि कुरुजाङ्गलयामुनानि ।
कालेन तीर्थसलिलानि पुनन्ति पापं पादोदकं भगवतस्तु पुनाति सद्यः ॥

इति ।
आह च भगवान् शौनकः-

नैवेद्यं स्वयमन्नीयादित्यादि । तथाऽन्यत्र-

भक्तपादच्युतेनापि मत्सापितजलेन वा । नरः पापात्प्रमुच्येत स्नानपानादिकर्मभिः ॥
तथा- -विष्णोः पाद्यं समादाय तीर्थं भक्त्या च संस्मरन् । आत्मानं प्रोक्षयेद्यस्तु मालां वा मूर्ध्नि धारयेत् ॥
भक्तियुक्तस्य विप्रस्य महापातकनाशनम् ।

इति ।
तथा-

मालां यो धारयेन्नित्यं वैष्णवीं भक्तिमाश्रितः । सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥

इति ।
श्रीभागवते-

त्वयोपभुक्त्यग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां तरेमहि ॥

इति ।
तथाऽन्यत्र-

मुकुन्दाशनशेष तु यो भुनक्ति दिनेदिने । सिक्थेसिक्ये महासेन चान्द्रायणशताधिकम् ॥

इति ।
पुराणादिषु
श्रीसालग्रामादिप्रसङ्गे च-
वैष्णवं तु रजोजुष्टं नैवेद्यस्य च भक्षणम् । निर्माल्यधारणं मूर्ध्नि महापातकनाशनम् ॥
स्नानपानोदकं देवि पिबन् शिरसि धारयेत् । पुण्यपापविनिर्मुक्तो वैष्णवीं सिद्धिमाप्नुयात् ॥
क्विणुगात्रेण संस्पृष्टं पत्रं वा पुष्पमेव वा । शिरसा धारयेद्यो वै स याति हरिमञ्जसा ॥
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥
पादोदकं पिबेन्नित्यं चक्राङ्कितशिलाहरेः । प्रक्षालयति यत्तोयं ब्रह्महत्यादिपातकम् ॥
बहुचक्रसमाक्व द्वारकापुरवासिनम् । स्नापयित्वा तु तत्तोयं पिबन् ज्ञानमवाप्नुयात् ॥

इति ।

भक्त्या भुञ्जस्तु नैवेद्यं सालग्रामशिलार्पितम् । फलं यज्ञसहस्राणां पराकाणां शतं लभेत् ॥ इत्यादि ।

अग्निष्टोमसहस्रस्य वाजपेयशतस्य च । यत्पुण्यं तल्लभेद्देवि विष्णोर्नैवेद्यभक्षणात् ॥
ब्रह्मचारित्क्लस्थैश्च वनस्थैर्यतिभिस्सदा । विष्णोर्निवेद्यं भोक्तव्यं नात्र कार्या विचारणा ॥ इत्यादि च ।
एवमेतादृशवचनशतवशात् -निर्माल्यं च निवेद्यं चेत्यत्र निर्माल्यादिशब्दो रुद्रादिनिर्माल्यविषय
सामान्यतो निषिद्धानामीदृशानां भागवते पुनर्निषेधो दोषाघिक्यादिविवक्षया ।
किंच भगवदनिवेदितमेव शास्त्रैर्निषिद्धम् । तथा हि श्रीसात्त्वते एकविंशतितमे परिच्छेदे-

सुगन्धफलपुष्पाद्यमपूर्वमुचितं च यत् । अभोज्यं गुरुदेवादिनिवेदनविवर्जितम् ॥ इति
जयाख्यसंहितायां षोडशे पटले समयोपदेशे- नानिवेद्य हरेः किंचिद्भोक्तव्यं वा गुरोस्तथेति ।
ऽधिकारे- नानिवेद्य हरेः किंचित्समधीयाच्च पावनमिति । तत्रैव भोजनमध्ये दधिक्षीरोदकादेः
इति सिद्धम् ।

भारद्वाजेऽष्टभे-
पूर्वमनिवेदितस्य
अकस्मात्समागतस्यापि मनसा निवेद्यैव भोरुव्यत्वमुक्तम्- तदकस्मात्प्रवृतं च भोजने मनसाऽपि चेति । अश्नीयादिति
शेषः । तथेश्वरसंहितायाम्-

भोजनावसरे प्राप्ते मध्ये प्रागवसानतः । यत्किंण्ढिपभोगार्थमकरमात्समुपागतम् ॥
तद्गरौ भगवत्यादौ कल्पयित्वाऽऽहरेत्ततः । भक्तस्य समयज्ञस्य अन्यथा व्यत्ययो भवेत् ॥
तस्मान्निवेद्य वै पूर्वमपूर्वमुचितं च यत् । भक्त्या भगवतो विष्णोर्देशिकस्य महात्मनः ॥

इति ।
न चात्र गुरुसमभिव्याहारात् भगवत्यपि कल्पनं विज्ञापनमात्रमिति शङ्क्यम्; गुरुभुक्तस्य भोक्तुमशक्यत्वाद्धि तत्र तथा
स्वीकारः । अत्र तु योग्यत्वात्कल्पनशब्दाभिहितं निवेदनं यजनमेव । एवं च सति प्रागुक्तयुत्यैकार्थ्यमपि सिद्धं
भवति । अतो भगवदनिवेदितमेव निषिद्धमिति सिद्धं भवति ।
यत्पुनरधिकारिविशेषविषयं न सर्वैर्ग्राह्यमिति, तन्न; न चैकं प्रति शिष्यत इति न्यायस्यात्रानपवादादन्येषा-
मप्यधिकारिणां भगवत्समाराधनस्य भगवच्छास्त्रेषु pp-पदनर । महोपनिषदि च सामान्यतः-

विष्णुनाऽत्तमश्रन्ती-
त्यादिविधानेन त्रयीधर्मनिष्ठैरपि तदनुवर्तनस्यापरिहार्यत्वात् । न च शाखाविशेषेऽनादरः, तानामन्त महाभारते
भगवच्छास्त्रे च बहुषु प्रदेशेषु सिद्धस्य दुरपह्नवत्वात् । तदर्थविशेषाननुष्ठानस्य ग्रगगदप्रस्नियतधर्मान्तरवदेवोपपत्तेः ।
नच भगवत्समाराधनं तथा प्रतिनियतमिति वक्तु शक्यम्; तत्साधारण्यस्योक्तत्वात् । यत्त शेषशब्दो निवेदिताव-
शिष्टविषय इति, तन्न; निवेदितेनैव संप्रदानानुयागादेरुपात्तसुव्यक्तवचनशतसिद्धत्वात्; निषेधस्य च परिहृतत्वात्;
भगवता सूक्ष्मांशग्रहणस्य वक्ष्यमाणानेकवचनसिद्धत्वेन निवेदिते शेषशब्दस्याप्युपपत्तेः, तरुणीमुखगतताम्बूलदृष्टस्त-
वचनाच्च । तथा भगवन्निवेदितशेषभोजिनि विष्वक्सेने * यर्जेच्छेष।शन देवम्, कं- शेपाशनाभिधानस्य गणेशस्यार्च-
नाय इत्यादिभिश्शेषाशनशब्दप्रयोगात् । उक्तं च स्तोत्रेऽपि-* त्वर्कःभृगुणेरनोणोरिनेरु । न चेष्टशिष्ट-
भक्षणन्यायविरोधः; विधिबलेन यथाविधिशिष्टत्वस्वीकारात् । केरलादिदेशे भगवन्निवेदितपरित्यागस्तु सुदर्शनादि-
धारणाधिकारोक्तन्यायेन दूष्यः । एवं च भगवच्छास्त्रानुसारिणि महाभारतवचने प्रतीयमानं भगवद्वक्तप्राशनमितीदमपि
न बाधितं भवति । विष्वकसेनसंविभागप्रकारैश्च शेषशब्दस्य निवेदितविषयत्वं सुव्यक्तम् । तथाहि पारमेश्वरेऽपि-
अर्ध्यलेपनपुष्पैश्च धूपेनाभ्यर्च्य वै ततः । मुख्याधिकारिणो विप्रान्द्वादशाध्यात्मचिन्तकान् ॥
बलादिमन्मनिरतानष्टौ वा चतुरो द्विज । दीक्षितान्गुरुपूर्वांश्च ह्यनुकल्पाधिकारिगः ॥
-वजिघ्र’,दृपदद्मेप मन्त्रेषु निरतान्सदा । त्रयावर्नग्नाऽयत्र। आमूलाद्भगवन्मयान् ॥
त्रय्यन्तज्ञानसंपन्नान्यथोक्ताचारनिष्ठितान् ।
भगवच्छेषमादाय न्यस्तमाहृत्य मन्त्रतः ।
समाद्वयार्ध्यगन्धाद्यैस्समभ्यर्च्य यथाक्रमम् ॥
प्राङ्निवेदनकाले तु चतुर्धा संविभज्य तम् ॥
प्रापणं मधुपर्काद्यमन्यच्चाभ्यवहारिकम् । तेभ्यो दद्यादेकभागमर्व्योदकपुरस्सरम् ॥
मात्रां चतुर्विधां चापि आचार्याय प्रदाय च । स्वप्राशनार्थमेकांशं स्थापयित्वा निरीक्षितम् ॥
शेषाशनाभिधानस्य गणेशस्यार्च्याय वै । भागमेकं तु संस्थाप्य भागेनान्येन तोषयेत् ॥
ब्राह्मणादीम्बुभाचारान्मक्तान्ग्रामादिवासिनः ।

इति ।
श्रीपौष्करे विष्वक्येनाध्याये-* विष्यक्येनोऽथ यष्टव्यः इत्यनुवृत्तौ,

  • नैवेद्यैर्मधुपर्काद्यैर्मुख्यमूर्तेर्निवेदितैः । द्विजप्राशनशिष्टैश्च स्वयं प्राशनवर्जितैः ॥

इति ।
तथा तत्रैव भगवानुवाच

  • काल्वैश्वानरारव्या या मूर्तिस्तस्यात्मनो विभोः । स एष द्विजदेवास्यो विध्वक्येनः प्रकीर्तितः ॥
    व्यारव्यानविभागे सच्चरित्ररश-तृतीयोऽधिकारः स्थित आहवनीयादिभेदेन मखयाजिनाम् । ऋक्पूत हुतमादाय तर्पयत्यखिलं जगत् ॥
    एवं मन्त्रमयाद्यागात्सात्त्विकाद्ब्रह्मभावितात् । संप्राप्यं गुरुमूर्तेर्वै प्रापणं मन्त्रसत्कृतम् ॥
    अनाहूतामराणां च सर्वलोकनिवासिनाम् । स्वयं तु संविभज्याथ तदनुग्रहकाम्यया ॥

इति ।
तथेश्वरसंहितायां समाराधनाध्याये-
दत्तशिष्टमथादाय संविभज्य द्विधा च तत् । पूजितस्यार्ध्यपुष्पाद्यैर्विष्वक्सेनस्य वै विभोः ॥
प्रतिपाद्यामराणां च तृप्तये विघ्नशान्तये । द्वितीयमनुयागादौ प्राशनं बान्धवैस्सह ॥
तन्निश्शेषं च भोक्तव्यं हृन्मन्त्रं संस्मरहृदि । ज्वलत्पावकसङ्काशं ज्वालागणशतावृतम् ॥

इति ।
अनुयागादौ प्राशनमिति समन्त्रकाहुतिरुच्यते । हृन्मन्त्रं संस्मरन् हृदीति-हन्मन्त्रं हृदयमन्त्रप्रतिपाद्यं, हृद्रूपेणावस्थितं
भगवन्तं भोक्तृत्वेनानुसन्दधान इत्यर्थः । सङ्कर्षणादिव्यूह इव जपज्ञानाद्येकैकगुणविशिष्टहृदादिरूपेण भगवान्त्वयमेवाव-
स्थित इति * नेत्राख्यं भगवत्तत्त्वमित्यादिना श्रीपौष्करे स्पष्टम् । एवं संविभागप्रपञ्चनात् भगवन्निवेदितस्य कृत्स्नस्य
विष्वक्सेनादिनिवेदनपस्स्परया त्याग इति मन्दं वचः ।