०३ अनूदित सिद्धान्ति पूर्वपक्ष खण्डनम्

सन्ति तावदेतानि वचांसि; न पुनरत्र निवेदितभक्षणं सिध्यति । तथा हि-

विष्णुनाऽत्तमन्नन्तीत्यादेर्वर्तमाना-
पदेशरूपत्वेनविधिपरत्वेप्रमाणाभावात्। रहस्याम्नायभगवच्छास्त्रोक्तत्वधिकारिविशेषप्रतिनियतधर्मान्तरवन्नविश्वसनीयम् ।
यद्यपि च सर्वेषामपि च धर्माणां परमार्थतो भगवत्समाराधनरूपत्वेन सर्वेषां तत्समाराधकत्वम्; तथाऽप्यभिगमनादि-
पूर्वकाष्टाङ्गयजनाभवावदनुप्रविष्टं निवेदितान्नभक्षण तेषां न प्राप्नोति । किंच यस्मिन्नाम्नाये अनादरो भवतामद्यापि वर्तते
तदेव च प्रमाणमिदानीसुपसाप्यत इत्ययमपि महान् क्लेशः
रहस्याम्नायस्य ममाणत्वाश्चपगमेऽपि भवद्भिस्तदनुष्ट्वान-
मनादृतमेव । ततश्चास्तु भगवन्निवेदितं रहस्याम्नायभगवच्छास्त्रनिष्ठैभोंक्तव्यम्; तथाऽपि न कैवलं त्रयीधर्मरूपभगवत्समा-
राधननिष्ठैर्भोक्तव्यत्वे प्रमाणम् । तेभ्यन्त।दानविधानात्तत्सि’ःईरिति चेन्नैवम् । न हि प्रदान विहितमिति प्रतिग्रहोतुरपि
धर्मता स्यात् श्राद्धादिवत् । किच यदिदमिह शेषभोजनं विधीयते, तदपीष्टशिष्टभक्षणन्यायेन निरिकावटऽक्पपयनेनि
निर्वोढव्यम् । न हि निवेदितस्य शेषशब्दार्थता संभवति । न च तस्य भगवद्रुक्तशिष्टत्वम्; तत्र कस्यचिदप्यशस्य
भगवता ग्रहणादर्शनात् । अतश्च शिष्टशब्दो निवेदितावशिष्टपरः । निवेदितस्य तु कृत्स्नस्य विष्वक्सेनादिनिवेदन-
परम्परया त्याग एव विहित इति ग्राह्यम् । किंच निवेदितस्याभोज्यत्वं भगवच्छास्त्रसंहितास्वेव प्रतीयते; यथा
सनत्कुमारसंहितायाम्-
-निवेदितं तु यदृरव्यं पुष्पं फलमथापि वा
प्रदेशान्तरे च- निर्माल्यं भक्षयित्वैवमुच्छिष्टमगुरोरपि ।
ब्रह्मकूर्चं ततः पीत्वा थो भवति मानवः
। तन्निर्माल्यमिति प्रोक्तं तत्प्रयत्नेन वर्जयेत् ॥

इति ।
मासं पयोव्रती भूत्वा जपन्नष्टाक्षरं सदा ॥

इति ।
तत्रैवेन्द्ररात्रे-

न चोपजीवेद्देवेशं निर्माल्यादि न भक्षयेदिति । तथा, अत चोपयोगयोग्यानि निर्माल्यानि कदाचनेति च ।
तथा सहितान्तरे- निर्नश्वनि च नाश्रीयान्न जिघ्रेन्न च लङ्घयेदिति ।
नच वाच्यम्, दशनाड्यधिकं पूतं स्थापयेत्तु विचक्षणः । कालयोगस्स उद्दिष्टो रात्रावहनि चैव च ॥
कालयोगातिरिक्तं तु निर्माल्यं परिचक्षते । ततस्तदप्सु चैवाग्नौ क्षिपेद्भूमौ खनेत्तु वा ॥
इतोन्द्ररात्रवचनानुसारेण निषेधवचनानां दशनाड्यधिकविषयत्वमिति; तत्र हि सामान्येन निवेदितस्य पुष्पौदनादेः
कृतकार्यतया निर्माल्यत्वेनापनये प्राप्ते दशनाड्यधिकपूर्णपूजाङ्गतया स्थापनं विधीयते; ततो नाडिकादशकादर्वागपि
तस्योपयोगान्नाडिकादशकातिरिक्तविषयो निषेध इति मन्दं वचः । न चात्रास्य रुद्रादिनिर्माल्यविषयत्वम्; दीक्षिता-
दीक्षितसाधारणतया सुरादिवदत्यन्तनिषिद्धस्य दीक्षितं प्रति समयोपदेशसमये भगवद्यागदीक्षितं प्रति प्रसङ्गाभावेन निषेध-
प्रयोजनाभावात्, भगवन्निवेद्यादेश्च प्रसङ्गस्य संभवात् । एवं च सति केरलादिदेशगतशिष्टानुसारश्च । यत्तु प्रापण
भगवद्भुक्तमित्यादि महाभारतवचन तदप्युक्तरीत्या पञ्चरात्रार्थनिर्णये सति तदनुसारित्वाद्भगवद्भक्तावशिष्टविपयमेव भवितु-
मर्हति । यत्तु बोधायनीये विष्णुकल्पे च भगवत्समाराधनमुक्त्वा तदन्ते भगवद्वक्तोज्झितस्य प्राशनीयत्वमुक्तमिति,
तदपि न, भुक्तोज्झितप्राशनस्य तत्राविहितत्वात्, -इदं विष्णुर्विचक्रमे इत्येतया चरुं प्राश्नीयादित्यत्रावशिष्टचरुप्राशन-
मात्रेण चरितार्थत्वात्, अहं वैष्णवोऽस्मीति यः प्रतिब्रूयात्तस्मै शेषं दद्यादिति एतैरेव मन्त्रैः प्राश्रीयादित्यत्रापि
निवेदितमेव प्राशनोयमिति प्रतीयते । तत्प्रतीतावपि न समाराधकस्य तत्प्राशनसिद्धिः, तस्मात्प्रतिग्रहीतुस्तदभिधानात् ।
यत्तु श्रीमति रामायणे लिङ्गदर्शनं तत्रापि शेषशब्दस्य निवेदितावशिष्टविषयत्वेऽपि न विरोधः । अतो नैतदपि
निवेदितभोजनस्यैकान्तिकं लिङ्गम् । एवं च सतीष्टशिष्टभक्षणनयोऽप्यनुसृतो भवति । यत्तु हृदि ध्यायन्हरिं तत्र
निवेद्यान्नं समाहित इत्यादि कर्मकाण्डवचन, तदपि पूर्वमनिवेदितत्वस्य लिङ्गम् । अन्यथा निवेदितनिवेदनादिदोषप्रसक्तेः ।
वैश्वखेप्राणाहुज्ञाश्च देवतान्तरनिवेदनरूपयोर्भगवन्निवेदितेनानुपपत्तेः । अन्यथाऽतिप्रसङ्गात् । न च द्रव्यान्तरेण
तत्करणोपपत्तिः । भोक्तव्यत्वेनोपस्थितान्नविषमत्वात्तयोः ।
अतो भगवतद्दसर्वोत्तरत्वेऽपि तभिवेदितनिर्माल्यादेरु-
भोगो न शास्त्रीय दति ॥