ननु किं पितृत्वादि-निर्बन्धेन,
वचनत एव तत्सिद्धेः सामान्यनिषेधस्यापि सङ्कोचनीयत्वात्? श्रूयते च महोपनिषदि-
विप्णुनाऽत्तमश्नन्ति विष्णुना पीतं पिबन्ति विष्णुना शतं जिघ्रन्ति विष्णुरसितं रसयन्ति नयशीनुढ्रामो विष्णूपह्य
भक्षयेयुः
इति । रहस्याम्नायब्राह्मणे च परिव्राजकप्रकरट्प्रा-
अथ यदि कारिण नासादयेत्स्वयमन्नेन कुर्वीतेति ।
भोजनरूपं भगवत्समाराधनमिति शेषः । एतदेव वाक्यं ब्रह्मचारिवानप्रस्यप्रकरणयोरप्याम्नातम् । कौटुम्बप्रकरणेऽपि
अथ यदि कारिणोऽप्यसन्निहिता स्युः स्वयमन्नेन कुर्वीतेति । पूर्वमनिवेदितानां भोजनसमयसमागतानां द्रव्याणां
मनसा निवेद्यैव हि भोजनमाम्नायते अथ यदि पश्चाद्भुक्तस्य गुणाः प्रादुःष्युः येनेष्टं स्यादिति भगवन्निवेदितप्राशन-
रूपमनुयागं प्रस्तुत्य, अन्नत एव नमो भगवते वासुदेवायेति कृत्वा प्रकुर्वीत अथ यदि पश्चाद्भुक्तस्य गुणाः
प्राप्यः येनेष्टं स्यादभ्युदिता अप्राप्ता मनसा समीक्षितव्या भवन्ति अस्मान्न ह्यस्तीति मनस उपघातः अन्तरेण
मलवद्वाससं सूतिकां शवस्पृष्टकं च-इति । सन्ति भगवच्छास्त्रेषु वचनानि परश्शतानि । यथा श्रीसात्त्वतसंहितायां
सप्तमे परिच्छेदे
दत्तशिष्ठमातृसंशेषं च दैवीयान्नेन भावितम् । हविश्शेषेण संयुक्तं व्रतिनां भोजनं हितम् ॥
इति ।
दत्तशिष्ट-कार्यसंप्रदानावशिष्टम्, दैवीयान्नेन-पाकपात्रावशिष्टेन हविःशेषोग-चरुशेषेण व्रतिनां-भगवद्द्वतनिष्ठानां
सर्वेषां हितम्-अनिष्टनिवर्तकत्वादिष्टप्रापकत्वाच्चावश्यं भोक्तव्यमित्यर्थः । अत्र भोजनमिति कर्मणि स्युडन्तम् ।
श्रीनारसिंहकल्पपरिच्छेदे-
निष्कामः पावनार्थं तु स्तोकमुद्धृत्य
भरद्वाजे होमाधिकारे भगवन्निवेदितमित्यनुवृत्तौ-
प्राप्तानुज्ञस्तथा तस्मान्नैवेद्यं प्रतिपाद्य
क्तिकामस्स्वयमधीयाद्भार्याक्षसमन्वितः ।
श्रीपौष्करे शयनाध्याये-
पुरा । सन्धार्य मन्त्रपूतं प्राक् तमश्नीयाच्च मौनवान् ॥
। द्विजेन्द्राणां हि योग्यानां बन्धूनां शान्तचेतसाम् ॥
संप्रदानावशिष्टं यत्सकामः पुनरेव तत् ॥
इति ।
-कृतोपवासा येऽअन्ति प्रापणं पारमेश्वरम् । संप्रदानावशिष्टं च पूतदेहा नरास्तु ते ॥
वन्दनीयामराणां च मान्या वै सिद्धसन्ततेः ।
इति ।
पारमेश्वरं-परमेश्वराय भगवते निवेदितमित्यर्थः । पारमेश्वरे समाराधनाध्याये-
-ततस्तु भगवद्भुक्तं प्राश्रीयान्नियततवयम्
नारदीये समाराधनाध्याये-
-ततस्तु भगवद्भक्तान्दीक्षितान्पाञ्चरात्रिणः
तेभ्यो दद्याच्च नैवेद्यं मधुपर्कपुरस्सरम् ।
प्रदानं विधाय प्रायश्चित्तप्रकरणे ह्युक्तम्-दत्तं भागवतश्रेष्ठैर्विष्णवे प्रभविष्णवे ।
। क्षयाय सर्वपापानां कोष्ठसंसिद्धयेऽपि
। समभ्यर्च्य विधानेन गन्धपुष्पादिभिः
च ॥
इति ।
क्रमात् ॥
-(सत्स’ थ वज्रनस्य पूः ॥
इति ।
तत्पवित्रं पवित्राणां पावनानां च पावनम् ॥
इति ।
तथा-
तथा-
तथा पाद्मे
याख्यानविभागे सच्चरित्ररक्षा-तृतोयोऽधिकारः
दातव्यं तु द्विजातीनां भक्तानां पावनाय
-ब्राह्मणैः क्षत्रियैर्वैश्यैर्वैष्णवैर्भक्तिसंयुतैः ।
कं स्वयं चापि तदश्नीयात्सर्वपापविशुद्धये ।
शुचिर्भवति विप्रेन्द्र सर्वकर्मसु संमतः ।
च ।
इति ।
भोज्यं निवेदितं यत्तत् इत्यादि ।
तस्य संस्पर्शनात्पानाद्भोजनाद्धारणात्सदा ॥
इति ।
चर्यापादे दशमेऽध्याये परित्याज्यपरिग्राह्यविभागप्रदर्शनपूर्वकमुक्तम्-
ब्रह्मेशानादिदेवानां नैव भोज्यं निवेदितम् । न स्पृश्यं लङ्घनीयं नो चण्डादीनां तथैव च ॥
देवीनां तु श्रियादीनां विनतानन्दनस्य च । चक्रादीनामायुधानां वस्तु यद्यन्निवेदितम् ॥
भोक्तव्यमेव सर्वेषां विप्रादीनामशङ्कितम् । विष्णोर्निवेदितं सर्वं पावनानां च पावनम् ॥
प्रापणं दुर्लभं भोज्यं न त्याज्यं स्यात्कदाचन । भुञ्जानानामेधते श्रीस्त्यजतां परिहीयते ॥
व्रतोपवासतुलितमशनं तस्य पावनम् ॥
इति ।
श्रीविष्णुतत्त्वे योगपादे पञ्चमे पटले- तद्भक्तशेषभोगा स्याज्जिह्वा गन्धस्तथाविधः ।
इति । अन्तिमे पटले-
शेषभुक्ति प्रशंसन्ति मुनयस्तत्त्वदर्शिनः । युवानः खलु वाञ्छन्ति ताम्बूलं तरुणीमुखात् ॥
इति ।
अत्र तत्त्वदर्शिनो मुनयः प्रशंसन्तीत्यनेन पावनतमत्वं सिद्धम् । तथा महाभारते ज्ञानकाण्डे तृतीयाध्याये-
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः । प्रापणं भगवद्भक्तं भुञ्जते चाग्र्यभोजनम् ॥
इति ।
अत्र भुञ्जत इत्येव भोजनस्याभिधानेऽपि पुनरइयभोजनमिति वचनं तस्यापि समन्त्रकसमाराधनरूपत्वं
प्रतिपादयितुमिति । तथा कर्मकाण्डे च-
हदि ध्यायन्हरिं तस्मै निवेद्यान्नं समाहितः । मध्यमानामिकाङ्गुष्ठैर्गृहीत्वाऽन्न समाहितः
प्राणाय वत्यपानाय व्यानाय च ततः परम् । उदानाय समानाय स्वाहेति जुहुयात्क्रमात्
वोधायनीये विष्णुकल्पे च-
प्रशस्ततमत्वं च
॥
॥
इति ।
- वण्यत्र (‘तया चरु प्राश्नायात्- । तथा तत्रव-
अह वz’ऽस्सत यः प्रतिब्रूयात्तस्मै
शेषं प्रदद्यात्-इत्येतैरेव मन्त्रैः प्राश्नीयादिति । श्रीमद्रामायणे च-
अगते पुरोहिते रामः स्नात्वा नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥
प्रगृह्य शिरसा पात्रं हविषो विधिवत्ततः । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम् । ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥
इति ।