०१ पूर्वपक्षः

तत्रैवं पूर्वपक्षी प्रत्यवतिष्ठते-

“भगवन्-निवेदितं भोज्यम्” इत्य्-अत्र
किं भोज्य-द्रव्यत्व-मात्रं विवक्षितम्?
उत भोक्तुः प्रत्यवायानाधायकत्वम्?
यद् वा भोक्तुर् हितत्वम् इति?

नाद्यः, +++(अन्यद् अपि भोज्यम् एवेति)+++ अविवादात् ।

न द्वितीयतृतीयौ -
दृष्ट-प्रत्यवाय-निवृत्तौ दृष्ट-रूप-हितत्वे च अविवादाद् एव;

अलौकिकस्य तु प्रत्यवायस्य प्रायश्चित्तादि-शास्त्रावगतत्वेन
+++(हितत्वे सति प्रदर्शयिष्यमाणस्य)+++ तन्+++(←भगवन्-निवेदित)+++-निषेधस्याशक्यत्वात्;
विध्य्-अभावेनालौकिक-हितत्वासिद्धेश् च ।

निर्माल्य-निषेधः

स्मर्यते हि-

निर्माल्यं च निवेद्यं च
भुक्त्वा चान्द्रायणं चरेद्

इति ।

उच्छिष्ट-निषेधः

तथा च मनुना चाभक्ष्य-प्रकरणे पठितम्-

वृथा-कृसर-संयावं
पायसापूपम् एव च ।
अनुपाकृत-मांसानि
देवान्नानि हवींषि च ॥ ५.७ ॥

इति ।

न सोमोच्छिष्टवत्

उच्छिष्ट-मात्र-निषेधाच् च
निवेदित-भक्षणम् अपि निषिद्धम् एव ।
न च सामान्यतः प्रवृत्तस्य निषेधस्य
+अग्नीषोमीय-हिंसा–सोमोच्छिष्टादि-विधानवद्
अत्रापवादो दृश्यते ।

न पित्रद्य्-उच्छिष्टवत्

न च वाच्यं

पितृ-गुरु-भर्तृ-स्वामिनाम् उच्छिष्टं
पुत्र-शिष्य-भार्या-भृत्यैर् भोज्यम्

इति धर्म-ज्ञ-संमतत्वाज्
जगद्-अपेक्षया च भगवतः पितृ-त्वादेः

“भगवतः अहं पुत्रः, प्रेष्यः, शिष्यश् चे"ति शास्त्र-शत-सिद्धत्वात्
तद्-उच्छिष्टं सर्वेषां भोज्यत्वेन संमतम्

इति;
उच्छिष्ट-भक्षणानुमति-हेतु-भूत–पितृत्वादेर् अत्रासिद्धेः,
सिद्धस्य जगन्-निमित्तत्वादि-मात्र-रूपस्य तद्-अप्रयोजकत्वात्;
प्रयोजकत्वे चातिप्रसङ्गात् +++(वक्ष्यमाण-रीत्या)+++।

जगन्-निमित्ततया ऽतिप्रसङ्गः

शास्त्रादि-प्रवर्तकता

अस्ति हि कथंचित् तथा-विधं पितृत्वादिकं हिरण्य-गर्भ-रुद्रादेर् अपि,
कतिपय-विषयेऽपि कारणत्व-शास्त्र-प्रवर्तकत्व-पतित्वादिभिस् तत्-सिद्धेः।
“अस्मद्-अपेक्षया तेषां साक्षात्-पितृत्वादिकं नास्ती"ति चेत्, न,
प्रकृतेऽपि समानत्वात्।

पित्र्-आदि-शरीरता ऽपेक्षिता

पित्र्-आदि-भूत–तत्-तत्-पुरुष-शरीरकत्वेन वा
स्व-शरीरात् प्रजा-सर्ग-करण-मात्रेण वा भगवतोऽपि हि पितृत्वम्;
न पुनस् समर्चन-कर्म-भूत-वासुदेवादि-दिव्य-मङ्गल-विग्रह-विशिष्टत्वेन ।

पित्र्-आदि-शरीरकत्वम् अपि
हिरण्य-गर्भादेर् नास्तीति विशेष

इति चेत् सत्यम्,
तथाऽपि पित्रादि-शरीरकेण भगवता भुक्तोज्झितम् एव भोक्तव्यत्वेनानुमतम्
इति मन्तव्यम्;
न तु शरीरान्तरविशिष्ट-भुक्तोज्झितमपि ।

विग्रहे व्यवधानं समानम्

अन्यथा ब्रह्म-रुद्रेन्द्रादि-शरीरक-भगवद्-भुक्तोज्ज्ञितस्यापि भोक्तव्यत्व-प्रसङ्गात् ।

पित्रादिभिर् अव्यवधानेन भुक्तोच्छिष्टं भोक्तव्यम्
इति नातिप्रसङ्ग

इति चेन् न,
वासुदेवादि-विग्रहार्चने
विग्रह-द्वारेणैव भगवतोऽपि भोक्तृत्वाद्
विग्रह-मात्र-व्यवधानस्यादोषत्वे
सर्वेषाम् अपि तद्-विग्रहत्वस्य शास्त्र-सिद्धत्वेनातिप्रसङ्गस्य दुष्परिहरत्वात् ।

निगमनम्

अतो लोकसिद्धम् एव पितृत्वादिकं तत्र विवक्षितम्,
तच् च भगवतोऽप्य् अवतारेषु
यद्-अपेक्षया विद्यते,
त एव तदुच्छिष्टं भुञ्जीरन्
न त्व् अन्य
इति नियमः ।

हिरण्य-गर्भोऽपि भ्राता

यदि च पित्रादि-भूता भगवान्
इति तद्-उच्छिष्टं भोक्तव्यं स्यात्
ततस् तज्-ज्येष्ठ-षुत्रत्वेन श्रुत्य्-आदि-सिद्धस्य हिरण्य-गर्भस्योच्छिष्टम् अपि भोक्तव्यम् इत्य् आयातम्,
ज्येष्ठभ्रातुर् अपि पितृ-समत्वं,
तद्-उच्छिष्ट-भोजनं च शास्त्रीयम् एव ।

अत्र निषेधात् तत् परित्याग

इति चेन् न, अत्रापि सामान्य-निषेध-पर्यवसानस्य दर्शितत्वात् ।

मातृत्वादि

किं च भगवतः पितृत्वादिवन् मातृत्वादेर् अपि

माता पिता भ्राता निवासः
शरणं सुहृद् गतिर् नारायणः

इत्य्-आदि-वाक्य-सहस्र-सिद्धत्वान्
मात्राद्य्-उच्छिष्ट-भक्षणस्याननुमतत्वाद्
भगवद्-भुक्तोज्ज्ञितम् अप्य् अननुमतमेव किं न स्यात्?