विश्वास-प्रस्तुतिः
अथ चक्षुष्मतां शास्त्रैश्
चतु-र्वर्गाभिलषिणाम् ।
विष्णोर् निवेदितस्यैव
भोज्यत्वं प्रतिपाद्यते ॥
मूलम्
अथ चक्षुष्मतां शास्त्रैश्चतुर्वंर्गाभिलषिणाम् । विष्णोर्निवेदितस्यैव भोज्यत्वं प्रतिपाद्यते ॥
समर्थितं ह्य् एतत् संग्रहेणागम-प्रामाण्ये भगवद्-यामुनाचार्य-पादैः ।
प्रपञ्चितं च वरदराज-पण्डितैः सन्-मार्ग-दीपिकायाम् ।
ग्रन्थकाङ्क्षा
वरदराज-पण्डितैः सन्-मार्ग-दीपिका।
तद्-अनुसारेणास्माभिर् अपि नाति-संक्षेप-विस्तरम् उपपाद्यते ।