तथा पारमेष्ठ्य-संहितायां शारीर-भगवत्-क्षेत्र-वर्णने-
विस्तारं त्र्यङ्गुलं प्रोक्तं
द्व्यङ्गलं वा ललाटके ।
तत् केशवाभिधानस्य
विष्णोः स्थानमनुत्तमम् ॥
कुक्षौ तु नाभेर् ऊर्ध्वं च
द्वादशाङ्गुलमायतम् ।
तत्रापि त्र्यङ्गुलं प्रोक्तं
विस्तरं मुनिसत्तम ॥
नारायणाभिधानस्य
विष्णोः स्थानमनुत्तमम् ।
स्थानान्तरेऽपि च तथा
कुर्यात् प्रादेशम् आयतम् ॥
प्रोक्तं तत्र च देवर्षे
विस्तारं चतुरङ्गलम् ।
स्थानं लक्ष्मीसहायस्य
माधवस्य शुभं मतम् ॥
कण्ठकूपेऽपि च तथा
त्र्यङ्गुलायत-विस्तृतम् ।
तद् गोविन्दाभिधानस्य
विष्णोस् स्थानमनुत्तमम् ॥
दक्षिणे कुक्षिपार्श्वे तु
आयतं द्वादशाङ्गुलम् ।
विस्तारं त्र्यङ्गुलं तत्र
तद्विष्णोः परमं पदम् ॥
दक्षिणे तु भुजे कुर्याद्
आयतं च दशाङ्गुलम् ।
यथापूर्वं तु विस्तारं
मधुसूदन-केतनम् ॥
जत्रौ त्र्यङ्गुलम् आयामं
विस्तारं तु तथैव च ।
त्रिविक्रमाभिधानस्य
केतनं तद् इहोच्यते ॥
वामे च कुक्षिपार्श्वे तु
द्वादशाङ्गुलम् आयतम् ॥
विस्तृतं त्र्यङ्गुलं तच्च
वामनायतनं महत् ॥
वामे भुजे च जत्रौ च
कुर्याद् दक्षिणपार्श्ववत् ।
स्थानं च श्रीधरस्यापि
हृपीकेशस्य वै क्रमात् ॥
भागेऽपरे तथा कुर्याद्
अधस्ताज् जघनोपरि ।
वंशे त्र्यङ्गुलम् आयामं
विस्तारं तु तथैव च ॥
स्थानं तत्पद्मनाभस्य
ऋषे स्थानम् अनुत्तमम् ।
ककुदे च तथा कुर्यात्
त्र्यङ्गुलायाम-विस्तरम् ।
एतानि द्वादशाङ्गानि
तवोक्तानि महामुने ।
दैवतं च तथा प्रोक्तं
यथाऽऽह भगवान् ऋषिः॥
तत्स्थानं पद्मनाभस्य
स्थानम् इत्यन्वयः क्रमात् ॥
स्थानं दामोदराख्यस्य
विष्णोर् उक्तं महामुने ॥
ऊर्ध्व-पुण्ड्र-विधानं च
लक्षणं च तथैव च ॥
धृतोर्ध्वपुण्ड्रो विधिवन्
न्यस्य नामानि द्वादश
नमोऽन्तान्य् अञ्जलिं कुर्यान्
नामान्य् उक्त्वा यथाक्रमम्
इति ।
पारमेश्वरे च-
एवं तदीया विप्राश्च
क्षत्रिया वैश्य-जातयः ।
मृदैव वा चन्दनेन
कल्पितैर् ऊर्ध्व-पुण्ड्रकैः ॥
द्वादशैक-चतुर्भिर् वा
भूषिताः स्युस् सदा द्विज ।
इति ।
ब्रह्माण्डे तु एषाम् आयाम-प्रमाणम् उत्तम-मध्यमादि-रूपेण वहुधा प्रतिपादितम् । यथा-
दशाङ्गुलप्रमाणं तु
उत्तमोत्तमम् उच्यते ।
नवाङ्गुलं मध्यमं स्याद्
अष्टाङ्गुलम् अथाधमम् ॥
सप्त-षट्-पञ्चभिः पुण्ड्रं
मध्यमं त्रिविधं भवेत् ।
चतुस्-त्रयं द्वयं कुर्याद्
अधमं त्रिविधं भवेत् ॥
इति ।
शेषं च स्मृतिचन्द्रिकादिषु द्रष्टव्यम् ।
एवं बहु-प्रकार-संख्या-प्रधाने
का सङ्ख्या प्रधानभूतेति चेद् उच्यते-
गुरु-लघु-विकल्पस्यैकस्मिन्न् असंभवाद्
गुरोर् एव तावत् मुख्यत्वं सिद्धम्;
यत्र तु कर्म-विशेषाङ्गतया वा फल-विशेषम् उद्दिश्य वा न्यूनसङ्ख्याविधानं,
तत्र विशेषवचनबलान् न्यूनतयैव तत्परिग्रहः ।
अन्यत्र त्वधिकपरिग्रह एव मुख्यः ।
द्रव्यालाभासामर्थ्यादि-दशासु तु
गत्यन्तराभावान् न्यून-परिग्रहः,
अत्यन्ताकरणाद् यथा-शक्ति-करणस्यापि नित्येषु शास्त्रीयत्वात्;+++(5)+++
काम्येष्व् अपि केषुचिद् यथा-शक्त्य्-अनुष्ठानेऽपि
तत्-तद्-यत्नानुरूप-फल-प्राप्तेः प्रतिपादितत्वात्, यथा दानादिषु ।+++(5)+++
उक्तं चाहिर्बुध्न्य-संहितायाम्-
अस्मिन् समाधि-विरही ललित-क्रियोऽपि
यत्नोचितं लभत एव फलं मनुष्यः ।
इति ।
तद् अयं संग्रहः-
त्याज्यं विप्रैस् त्रिपुण्ड्रादिकम् इति विहितं विष्णु-भक्तैस् तथाऽन्यैः,
कर्माङ्गत्वादिनोर्ध्व-ग्रहणम् इह, सदा मृत् प्रशस्तेतरेभ्यः ।
विष्णु-क्षेत्रोद्भवा सा, सित-रुचि-रुचिरा, ऽनामिकादेर् विकल्पः
स-च्छिद्रं, कच्छपान्यद्+++(अन्वयः??)+++-+हरि-पद-सदृशं मुख्यम् अन्यूनता च ॥
श्रीमद्वेङ्कटनाथेन
श्रुतिस्मृतिशतैरिति ।
विधानम् ऊर्ध्वपुण्ड्रस्य
विस्तरेण निरूपितम् ॥
इति सच्चरित्ररक्षायां ऊर्ध्वपुण्ड्रधारणविधिर्नाम द्वितीयोऽधिकारः ॥