१३ समन्त्रकप्रयोगः

तत्रैवाध्याये पश्चादपि-

आदौ तु लक्षणोपेतां
सुगन्धां सात्त्विकीं शुभाम् ।
वामेऽस्त्र-शोधिते हस्ते
वाग्यतः प्रणवेन तु ॥ निधाय जलमादाय
गन्धद्वारेति सेचयेत् ।
अस्त्र-मन्त्रेण रक्षां च
कृत्वा दशसु दिक्ष्व् अपि ॥
तार-मन्त्रेण संमिश्रं
मूल-मन्त्रेण मन्त्रयेत् ।
नृसिंह-बीजं च लिखेद्
रक्षार्थं दोष-शान्तये ॥
शतधारेण मन्त्रेण
तीर्थतोयं च निक्षिपेत्
ताम् एकीकृत्य तर्जन्या
स्मृत्वा मम पदद्वयम् ॥
विष्णोर्-नुकेन मन्त्रेण
मन्त्रयित्वा यथाक्रमम् ।
पञ्चोपनिषदैर् मन्त्रैर्
मूलमन्त्रेण मन्त्रयेत् ॥ द्वादशाक्षरम् उच्चार्य
प्रार्थयेद् इष्ट-सिद्धये ।
सप्तभिर् वैष्णवैर् मन्त्रैर्
मन्त्रयेन् मोक्षसिद्धये ॥
मृदं प्राक् तारमन्त्रेण
तर्जन्या मूर्ध्नि विन्यस्येत्
चतुश्चक्रधरं मां तु
स्मृत्वा जाम्बूनदप्रभम् ॥
ललाटे केशवायेति
धारयेदूर्ध्व-पुण्ड्रकम् ।
चतुश्शङ्खधरं देवं
नीलजीमूत-सन्निभम् ॥
कुक्षौ नारायणायेति
मन्त्रम् उच्चार्य धारयेत्
इन्द्रनीलनिभश्यामं
चतुर्हस्तैर् गदाधरम् ॥
हृदये माधवायेति
धारयेद् अङ्गलाष्टकम् ।
चतुर्-भुजं धनुष्मन्तं
चन्द्रमा-सदृश-द्युतिम् ॥
गोविन्दायेति मन्त्रेण
कण्ठे च चतुरङ्गुलम् ।
चतुर्हलधरं देवं
पद्मकिञ्जल्कसन्निभम् ॥
विष्णवेऽष्टाङ्गुलमिदं
धारयेद् दक्षिणोदरे ।
मुसलास्त्र-महा-विष्णुम्
अरविन्दाभम् एव च ॥
मधुसूदन-मन्त्रेण
धारयेद् दक्षिणे भुजे ।
खड्गपाणिं चतुर्हस्तम्
अग्निसन्निभ-तेजसम् ॥
“त्रिविक्रमाय”-मन्त्रेण
धारयेद् दक्षिणे गले ।
चतुर्-वज्र-धरं देवं
तरुणादित्य-सन्निभम् ॥
वामनाय नमोऽन्तेन
वामे कुक्षौ तु धारयेत्
पट्टिशायुध-हस्तं च
पुण्डरीकाभमेव च ॥
श्रीधरायेति मन्त्रेण
भुजे वामे तु धारयेत्
चतुभिर् मुद्गरधरं
भुजैर् विद्युत्-समप्रभम् ॥
हृषीकेशेति मन्त्रेण
धारयेद् वामके गले ।
पञ्चायुध-धरं मां च
सहस्रांशु-समप्रभम् ॥
पद्मनाभाय-मन्त्रेण
पृष्ठे वै धारयेत् क्रमात् ।
पाश-हस्त-वरं देवं
बालार्क-शत-संनिभम् ॥
दामोदराय मन्त्रेण
धारयेत् पश्चिमे गले ।
द्वादशाक्षरम् उच्चार्य
शेषं मूर्धनि विन्यसेत्

इति ।

तथा किञ्चिदतिलङ्घय-

भोगार्थी भोगसिद्ध्यर्थं
कनिष्ठोपगया+++(→अनामिकया??)+++ क्रमात् ।
अष्टाक्षरेण मन्त्रेण
प्रत्यक्षरम् अनुस्मरन् ॥
ललाटे हृदि बाह्वोश् च
कुक्षिमध्ये च पार्श्वयोः ।
पृष्ठेऽपि चारैर् मन्त्रैर्
विष्णु-गायत्रिया ऽन्वितैः ॥
ऊर्ध्वपुण्ड्राणि वै कुर्यान्
मृदा वा चन्दनेन वा ।

मोक्षार्थी च विशेषेण
द्वादशाक्षरविद्यया ॥
द्वादशैतानि पुण्ड्राणि
कुर्याद् द्वादश-नामभिः ।
षड्-अक्षरेण मन्त्रेण
भोगार्थी चन्दनेन च ॥
ललाटे हृदि कण्ठे च
कुक्षौ बाह्वोर् यथाक्रमम् ॥

इति ।

श्रीनारदीये चतुस्मप्ततितमाध्याये-

स्थानानि संप्रवक्ष्यामि
ऊर्ध्वपुण्ड्रस्य धारणे ।

केचित् त्रयोदशेत्य् आहुर्
वैष्णवानां द्विजर्षभ ॥

तत्पक्षे संप्रवक्ष्यामि
स्थानानि मुनिसत्तम ॥
ललाटे प्रथमं विद्यात्,

इत्युपक्रम्य

त्रयो-दशम् अथो मूर्ध्नि
धारयेद् ऊर्ध्वपुण्ड्रकम् ।

स्थानानि *द्वादशाष्टौ वेत्य् आहुः केचिदमनीषिणः ॥

*द्वादशेति च यः पक्षः
तस्मिञ् शिरसि वर्जयेत्

*अष्टौ वेति च यः पक्षः
शिर-आदीनि वर्जयेत् +++(वक्ष्यमाणया रीत्या)+++॥

तत्र मन्त्रं प्रवक्ष्यामि
+ऊर्ध्वपुण्ड्रस्य धारणे ।

इत्यादिना द्वादश नामान्युक्त्वा -

द्वादशाक्षरमन्त्रेण
मूर्ध्नि दद्यान् मृदं ततः
पक्षे तु द्वादशे कुर्याच्
छिरोमात्रं विना पुनः ॥
अस्मिन् पक्षेऽपि वा कुर्यान्
मन्त्र-भेदेन मानवः । द्वादशाक्षर-मन्त्रस्य
प्रथमाद्यक्षरैस् सह ॥ पुनः क्रमेण तत् कुर्याद्
ऊर्ध्वपुण्ड्रं स वैष्णवः ॥

अष्टौ चेति च यः पक्षस्
तस्य मन्त्रं वदाम्य् अहम् ॥
अष्टाक्षरस्य मन्त्रस्य
प्रथमाद्य्-अक्षरैस् सह ।
वर्जयित्वा गलस्थानि
चत्वारि मुनिसत्तम ॥

इति प्रतिपादितम् ।
तत्-तद्-ध्यानस्य चावश्य-भावित्वम् उक्तम्-

ध्यानं तत् संप्रवक्ष्यामि
ऊर्ध्वपुण्ड्रस्य धारणे ।
येन नाम्ना च यत् कुर्यात्
तन्-नामार्थं विचिन्तयेत्
विनाकृतं तु ध्यानेन ऊर्ध्वपुण्ड्रं तु निष्फलम् ॥

इति ।

[[७५]]

अत्र च पुण्ड्र-सङ्ख्या-निरूपक-मन्त्र-विशेष-निर्देश-दर्शनात्
ब्रह्म-रात्रोक्तं प्रणवेन ललाटे धारणं ब्रह्माण्डोक्तम् “ऊद्धताऽसी"ति मन्त्रेण धारणं चैक-सङ्ख्या-विषयम् इति मन्तव्यम् ।

तथाऽन्यत्र-

वाम-हस्ते शुचिष्व् अप्सु
निर्घृष्य मृदम् उत्तमाम् ।
प्रदक्षिणं समुह्याथ
मूलमन्त्रेण योजयेत्
ऊर्ध्वपुण्ड्राणि कुर्वीत
केशवाद्यैर् यथाक्रमम् ।
ऋजूनि स्फुट-पार्श्वानि
स्थान-व्यापीन्य् अतन्द्रितः ॥
नासिका-मूलम् आरभ्य
ललाटे प्रथमं न्यसेत्
द्वितीयम् उदरे नाभेर्
ऊर्ध्वं हृदि ततः परम् ॥
वक्षोऽन्ते तत्-परं पश्चात्
कुक्षौ दक्षिणपार्श्वतः ।
भुजे षष्ठं ततः स्कन्धे
तथा सव्ये त्रयं भवेत्
एकादशं द्वादशं च
पृष्ठेऽधस्तात् तथोपरि ।
इति कुर्याद् यथाचारम्
ऊर्ध्वपुण्ड्राणि यत्नतः ॥

इति ।

ब्रह्माण्डे-

ललाटे केशवं ध्यायेन्
नारायणम् अथोदरे ।
माधवं हृदये चैव
गोविन्दं कण्ठकूबरे ॥
उदरे दक्षिणे पार्श्वे
विष्णुं व्याप्तं विचिन्तयेत्
तत्पार्श्वे बाहुमध्ये तु
चिन्तयेन् मधुसूदनम् ॥
त्रिविक्रमं च तत्-स्कन्धे
वामपार्श्वे तु वामनम् ।
श्रीधरं बाहुके वामे
हृषीकेशं तु स्कन्धके ॥
अपरे पद्मनाभं च
त्रिके दामोदरं स्मरन् ।
तत्-प्रक्षालन-तोयेन
वासुदेवेति मूर्धनि ॥
एवं हि धारयेन् नित्यं
मद्भक्तस् तूर्ध्वपुण्ड्रकम् ।
धारयित्वा ततो मन्त्रैः
केशवाद्यैश्च नामभिः ॥
अङ्गुलीभिः स्पृशेत् पुण्यम्
ऊर्ध्वपुण्ड्रं मनोहरम् ॥

इति ।

तत्रैवाध्यायान्तरे कतिपय-पदावापोद्वाप-भेदेनेमान् एव श्लोकान् उक्त्वा
अन्यद् अप्य् उक्तम्-

श्रोवत्स दक्षिणे भागे
विन्यसेत् पद्मम् एव वा ।
मत्-पूजा-जप-कालेषु
सायं प्रातस् समाहितः
एवं मन्त्रविधानेन
धारयेद् ऊर्ध्वपुण्ड्रकम् ॥

इत्यादि ।

[[७६]]