१२ पुण्ड्रसंख्यादिविचारः

अथ पुण्ड्रसङ्ख्यां विचारयामः ।
बहुधा च विकल्पतः पुण्ड्रसङ्ख्या प्रोक्ता ।
तथा हि-

ब्रह्मरात्रे -

ललाटे कण्ठदेशे तु
स्कन्धयोश्च त्रिके तथा ।
चतुरङ्गुलमानानि
पञ्च पुण्ड्राणि धारयेत् ॥ हृदये चोदरे चैव
पार्श्वयोः पृष्ठ एव च ।
बाह्वोर्मध्ये च सप्त स्युः
पुण्ड्राण्य् अष्टाङ्गुलानि वै ॥

व्यूहं तु विद्यात् प्रथमं
चतुरङ्गुलसंमितम् ।
अष्टाङ्गुलं द्वितीयं तु
द्विविधं व्यूहसंज्ञितम् ॥
एवं यः कुरुते नित्यं
मत्-सायुज्यम् अवाप्नुयात्

इति ।

[[७४]]

तस्मिन्नेवाध्याये

द्व्यङ्गुलं विस्तृतं रम्यं
चतुरङ्गुलम् आयतम् ।
प्रथमव्यूह एव स्यात् पञ्चपुण्ड्रस्य लक्षणम् ॥ त्र्यङ्गुलं विस्तृतं हृद्यम्
अङ्गुलाष्टकम् आयतम् ।
द्वितीयं व्यूह एवं स्यात्
सप्तपुण्ड्रस्य लक्षणम् ॥
इत्य् ऊर्ध्वपुण्ड्रं यः कुर्यान्
न मृत्योर्वशमाप्नुयात् ।
केशवादिनमोऽन्तं वै
जप्त्वा द्वादश-नामभिः ॥
तं स्मृत्वा देव-देवेशम्
ऊर्ध्वपुण्ड्रं समाचरेत् ॥

इति ।