पूर्वपक्षः
ननु दीप-शिखा-दण्डाकारादि-संस्थानस्य
कथं वैष्णवैर् हेयत्वम्?
तद् अपि प्रमाण-भूत-शास्त्र-विहितम् एव ।
यथा ईश्वर-संहितायाम् -लक्ष्म दीप-शिखाकारं
ललाटे तु मृदा चरेद्इति ।
भगवच्-छास्त्र-रत्न-भूते श्रीसात्त्वते च-जल-निर्मथितेनैव
ऊर्ध्व-पुण्ड्र-चतुष्टयम् ।
हृद्य् अंसयोर् ललाटे च
कुर्याद् दीप-शिखाकृति ।इति ।
ब्रह्माण्डे -ऊर्ध्वपुण्ड्र-प्रमाणानि
द्रव्य-वर्णानि कर्म च ।
स्थान-मन्त्राङ्गुलीश् चैवं
प्रवक्ष्यामि फलानि च ॥वर्ति-दीपाकृतिं चैव
वेणु-पत्राकृतिं तथा ।
कुर्यात् स्वाङ्गेषु मनसा
चिन्तयन् मां सदा नरः ॥इति ।
तत्रैवाध्यायान्तरे -वर्ति-दीपाकृतिं चैव
वेणु[शङ्ख]पत्राकृतिं तथा ।
पद्मस्य मुकुलाकारं
कुमुदस्योत्पलस्य वा ॥
मत्स्य-कूर्माकृतिं चैव
शङ्खाकारम् अथापि वा ।
ऋजुं संभाव्यम् ऊर्ध्वाग्रम्
ऊर्ध्वपुण्ड्रम् इहोच्यते ॥इति ।
पारमेष्ठ्य-संहितायाम्-शृणु वत्स यथा-न्यायम्
अङ्गानि गदतो मम ।
लक्षणानि च सर्वेषां
मृत्-पुण्ड्राणां यथाविधि ॥
वेणु-पत्राकृतिं चैव
दीपाकारं तथैव च ।
अब्ज-कुड्मल-सङ्काशं
शङ्खाकारं तथैव च ॥
मत्स्याकृतिं तथा प्रोक्तं
कूर्माकारं तथैव च ।एवं स-लक्षणं प्रोक्तं
द्विजानां मुनिसत्तम ॥
बालेन्दु-वत् क्षत्रियाणां
वैश्यानां वर्तुलाकृति ।
त्रिपुण्ड्रं शूद्रजातीनां
विधिर् एष सनातनः ॥ऊर्ध्व-पुण्ड्र-धरा ये वै
ते तु भागवताः स्मृताः ।
क्षत्रिया वाऽथ वैश्या वा
शूद्रा वा मुनिसत्तम ॥ब्राह्मणानां च सर्वेषाम्
उत्तमौ मत्स्य-कूर्मकौ ।
सर्वे ह्य् ऊर्ध्व-मुखाः प्रोक्ता
मुने मत्स्याकृतिं विना ॥अधोमुखं त्व् एककोणं
न्यूनम् अन्यत् ततोऽधिकम् ।
मध्यं किंचित् तु वक्रं स्याद्
ऊर्ध्व-भाग-विशालकम् ॥
सान्तरालम् ऋजुं मध्ये
मात्स्यम् एतत् कृतो विधिः ।
समकोणम् अधोभागम्
ऊर्ध्वभागं [वि]सकोणकम् ॥
नीरन्ध्रम् एव तत् प्रोक्तं
लक्षणं कमठाकृतेः ॥इति ।
तथा ब्रह्मरात्रे -दीपाकारं ततश्चापि
वेणुपत्रसमाकृति ।
पद्मस्य मुकुलाकारं
कुमुदस्योत्पलस्य वा ॥
मत्स्याकारं तथा वाऽपि
कूर्माकारं तथाऽपि वा ।
शङ्खाकारम् अथाऽपि स्यान्
मम पादाकृतिं तथा ॥
शूर्पाकारम् इति प्राहुर्
एक-चक्राकृतिं तथा ।
मोहिनी-पुष्प-संकाशं
चक्राकारम् इदं बुधाः ॥
ऊर्ध्वप-ुण्ड्रं द्विजः कुर्याद्
दण्डाकारं सुशोभनम् ।इत्य्-आदि ।
श्रीनारदीये एकोनसप्ततितमेऽध्याये-[[७३]]
यद्दृष्ट्वा वैष्णवश् चेति
निस्संशयम् अभून् मुने ।
तादृशं लक्षण वक्ष्ये
वैष्णवानां प्रधानतः ॥ वैष्णवौ द्वौ सदा सम्यक्
सङ्गतौ तु परस्परम् ।
प्रणामं कुरुतस् तत्र
तयोर् मध्ये स्थितो हरिः ॥+++(5)+++
तस्माद् अवश्यं कर्तव्यं
वैष्णवस्य तु लक्षणम् ।
ललाट-मध्ये तिलकम्
ऊर्ध्व-रूपं समाहितः ॥
यः कुर्यान् मन्त्रकुर्या-न्संयुक्तम्
ऊर्ध्वप-ुण्ड्रम् इति स्मृतम् ।
कर्तव्यं प्रथमं पद्म-
पुष्पाकारं सु-पूजितम् ॥
कूर्माकारं ततः कुर्याच्
छङ्खाकारं ततः परम् ।
अश्वत्थपत्र-सदृशं
कुर्यात् सर्वत्र पूजितम् ॥अहम् अश्वत्थ-रूपेण
पालयामि जगत्-त्रयम् ।
इत्याह भगवान्विष्णुः
स्वयम् एव ततः परम् ॥
अश्वत्थश् चास्मि वृक्षाणाम्
इत्य् आह परमेश्वरः ।
वेणु-पत्र-समाकारं
पूजितं ब्रह्मणा पुरा ॥दीपाकारं ततः श्रेष्ठम्
ऊर्ध्व-पुण्ड्रस्य नित्यशः ।
मालती-पुष्प-सङ्काशं
श्रेष्ठं सर्वत्र पूजितम् ॥तिन्त्रिणी-पत्र-सदृशं
कुर्याद् अग्नि-शिखोपमम् ।
उक्तानि लक्षणान्य् एवं
ब्राह्मणस्येति तत् स्मृतम् ॥इत्यादि ।
एवं च विकल्पितेषु मत्स्य-कूर्म-संस्थानयोर् एवोत्तमत्वं प्रतीतम् ;
न तु हरि-पाद-संस्थानस्य ।
अतोऽस्य सर्वातिशायित्वे किं प्रमाणम् ?
सिद्धान्तः
इति चेत्; दत्तोत्तरम् इदम् ।
तथा हि-
सोपबृंहण-श्रुति-सिद्धस्य भगवद्-अ-साधारण्यातिशय-लिङ्गत्वौचित्यात्
तद् एव हि भगवच्-छेषत्व-ज्ञान-पौष्कल्यवद्भिर् विचक्षणैर् उपादेयम् । +++(5)+++
साधर्म्यतः प्राशस्त्यम्
मत्स्य-कूर्म-पद्माश्वत्थ-पत्रादि-संस्थानेष्व् अपि हि प्राशस्त्य-वादो
भगवद्-विग्रह-विशेष-साधर्म्य–भगवच्-चिह्नत्व–
भगवद्-अनुप्रवेश-विशेषादि–निबन्धन इति तत्र-तत्रैव व्यक्तम् ।
प्राधान्यम्
अस्ति च -
“एकान्तिनो महाभागा” इत्य्-आदि-विशेष-विधिः ।
ततश् च बहुधा विकल्पितेष्व् अपि संस्थानेषु
तात्पर्य-पर्यालोचनया ऽस्यैव प्रधानत्वम् अवसितम् ।
सान्तरालता
यच् च कमठ-संस्थानस्योर्ध्व-पुण्ड्रस्य नीरन्धत्वं विहितम्,
तद् अपि तावन्-मात्र-निष्ठम् एव वचन-बलात् स्वी-क्रियते ।
अन्यत्र तु सान्तरालत्व-विधेर् निरन्तरालत्व-निषेधस्य च सङ्कोचकाभावात् सान्तरालत्वम् एव ग्राह्यम् ।
यच् च दीपाकार-विधि-परं श्रीसात्त्वत-वचनं
तद् अपि विशेष-विषयम् इति प्राग् एव निर्णीतम् ।
एवम् अन्यद् अपि भाव्यम् ।
न च संस्थानान्तरस्य वैष्णवैर् अत्यन्ताननुष्ठाने वचन-विरोधः ;
एकान्तित्व-रहित-वैष्णव-मात्र-विषयतया ऽपि वचनस्य चरितार्थत्वात् ।+++(4)+++
नानुकरणम्
ननु भगवद्-अर्चावतारेषु दीप-शिखाकारोर्ध्व-पुण्ड्रस्य दर्शनात्
“यच्-छीलस् स्वामी"ति न्यायेन
भागवतैर् अपि तथैवानुष्ठेयम्
इति चेन् न, वचन-विरोधे न्यायस्यानवतारात् ।+++(5)+++
अन्यथा भगवद्-अनुष्ठित-गोप-कन्योन्मादन–
स्व-कुल-विनाशन–बुद्ध-समय-प्रवर्तनादेर् अपि प्रसङ्गात् ।
अतो न स्वामि-कृतं सर्वं भृत्येनाप्य् आचरणीयम् ।
लोके चैतद् एवं द्रष्टव्यम् ।
न च “दीप-शिखाकारम् एवार्चावतारेषु ऊर्ध्वपुण्ड्रं कुर्वीते"ति विधिर् अस्ति,
येन संस्थानान्तराणि परित्यज्येरन् ।
यदि च वचनं दृष्टं
तद् अपि तन्-मात्र-विषयम्
इति नास्माभिर् अनुष्ठेयम् ।
किं च अलङ्करण-रूपतया हि भगवतस् तद्-धारणम् ;
तत्र शोभैव प्रधान-भूतेति
यथा शोभाभिमानस्
तथैव कुर्वन्तीति किं विरुध्यते ?
निगमनम्
अतः श्रुत्य्-आदि-विहित-हरिपादादि-संस्थानम् एव
भागवतैर् उपादेयम् इति स्थितम् ।