०९ हरिपाद-संस्थानत्वं सान्तरालत्वं च

हरिपाद-संस्थानत्वं सान्तरालत्वं च

क्रियमाणस्य चोर्ध्वपुण्ड्रस्य
हरि-पाद-संस्थानत्वं सान्तरालत्वं च
“हरेः पादाकृतिम्” इत्य्-आदिकया श्रुत्या प्राग् उपात्तया प्रदर्शितम् ।
सन्ति च पुराणादिष्व् अपि तथात्वे वचांसि ।
तथा हि श्रीवाराहे-

एकान्तिनो महाभागा
मत्-स्वरूप-विदोऽमलाः ।
सान्तरालान् प्रकुर्वीरन्
पुण्ड्रान् मम पदाकृतीन् ॥
रक्षार्थं मङ्गलार्थं च
पवित्रार्थं वरानने ।
मन्त्रम् उच्चार्य विधिवद्
धारयेद् ऊर्ध्व-पुण्ड्रकान् ॥

इति ।

स्कान्दे-

ऊर्ध्वपुण्ड्रं द्विजः कुर्याद्
दण्डाकारं सुशोभनम् ।
मध्य-च्छिद्रं वैष्णवस् तु
नमोऽन्तैः केशवादिभिः ॥

इति।
ब्रह्माण्डेऽपि-

अथ कर्म प्रवक्ष्ये ऽहम्
ऊर्ध्वपुण्ड्रस्य तत्त्वतः ।
ऋजुं सुपार्श्वम् ऊर्ध्वाग्रम्
ऊर्ध्वपुण्ड्रं मतं मम ॥
सान्तरालम् ऋजुं सौम्यं
सु-पार्श्वं सुमनोहरम् ।
मत्-सायुज्यं च सारूप्यं
सालोक्यं वा लभेत सः।
यश्चिन्तयन् मां सततं
धारयेद् ऊर्ध्वपुण्ड्रकम् ॥
विमलान्य् ऊर्ध्वपुण्ड्राणि
सान्तरालानि यो नरः ।
करोति विपुलं तत्र
मन्दिरं मे करोति सः ॥+++(5)+++
ऊर्ध्वपुण्ड्रस्य मध्ये तु
विशालेऽतिमनोहरे ।
लक्ष्म्या सार्धं समासीनो
रमेऽहं तत्र निर्वृतः ॥ निरन्तरालं यः कुर्याद्
ऊर्ध्वपुण्ड्रं द्विजाधमः ।
स हि तत्र स्थितं विष्णुं
श्रियं चैव व्यपोहति

इत्य्-आदि ।

आह च मरीचिः

चतुर्-अङ्गुलम् ऊर्ध्वा
द्व्य्-अङ्गुलं विस्तृतं मृदा ।
द्विजः पुण्ड्रम् ऋजुं सौम्यं
सान्तरालं तु कारयेत्

अच्छिद्रम् ऊर्ध्वपुण्ड्रं तु
यः करोति विमूढधीः ।
स पर्यायेण तान् याति
नरकान् एक-विंशतिम् ॥

विमलान्य् ऊर्ध्वपुण्ड्राणि
सान्तरालानि यो नरः ।
करोति विपुलं तत्र
मन्दिरं मे करोति सः ॥+++(5)+++

तथा पारमेष्ठ्यसंहितायाम्-

ऋजूनि सान्तरालानि
अङ्गेषु द्वादशस्वपि

इति ।

[[७२]]

तथा ब्रह्मरात्रे -

ऊर्ध्वपुण्ड्रं द्विजः कुर्याद्
दण्डाकारं सुशोभनम् ।
मध्ये च्छिद्रं विजानीयाद्
वैष्णवानां विशेषतः ॥ मद्भक्तोऽपि विशुद्धात्मा
मृद्धारी चेन् मम प्रियः ।
निरन्तरालं यः कुर्याद्
ऊर्ध्वपुण्ड्रं विमोहितः
स हि तत्र स्थितं विष्णुं
श्रियं च पिदधाति हि ।
बहुना किं प्रलापेन
हृद्यं सौम्यं सुदर्शनम् ॥
ऋजुं सुपार्श्वम् ऊर्ध्वाग्रं
कुर्याद् अत्यच्छ-मध्यमम् ।
पार्श्वयोर् घनविन्यासम्
ऊर्ध्वपुण्ड्रम् इहोच्यते

इति ।

अत्यच्छ-मध्यमम् इत्य् अन्तराल-विधिपरम् एव, तत्-प्रसङ्गात्,
न पुनर् अत्य्-अच्छ-मृद्-विन्यास-परम् ।

एवम्

मध्येऽच्छान् पार्श्वतस् स्थितान्

इति वचनान्तरम् अपीति ।
यद्वा अत्यच्छ-मृद्-विन्यासेऽपि
अन्तरालाविरोधात् तावन्-मात्रस्यातिमात्र-[वर्जन]निर्बन्धो न कार्य
इति तात्पर्यम् ।

तद् एवं हरिपाद-संस्थानत्वं सान्तरालत्वं च
सोपबृंहण-श्रुति-सिद्धम्,
भगवद्-असाधारण्यातिशय-लिङ्गत्वौचित्याच् चेति,
तद् एव भागवतैर् अङ्गीकार्यम् ;
निरन्तरालं तु निषिद्धम् एवेत्य् अनादरणीयम्;
संस्थानान्तराणि त्व् अ-मुख्यानीति विभागः ।+++(5)+++