एवम् अङ्गुलयोऽपि तत्-तत्-पुरुषार्थ-भेदेन व्यवस्थाप्यन्ते ।
तथा हि पारमेष्ठ्यसंहितायाम्-
अनामिका कामदा स्यान्
मुक्तिदा च प्रदेशिनी ।
कनिष्ठाऽऽयुष्यदा प्रोक्ता
अङ्गुष्ठः पुष्टिदो भवेत् ॥
निषिद्धा मध्यमा प्रोक्ता
चोर्ध्वपुण्ड्रविधौ मुने ॥
इति ।
श्रीनारदीये-
दक्षिणस्य तु हस्तस्य
अङ्गुल्यस् संप्रकीर्तिताः ।
आयुष्कामेन मर्त्येन
ग्राह्या तत्र कनिष्ठिका ॥अपत्यकामो यो मर्त्यो
अङ्गुल्याऽनामिकाख्यया ।
ऊर्ध्वपुण्ड्रस्य करणे
निषिद्धा मध्यमाऽङ्गुलिः ॥निष्फलं चोर्ध्वपुण्ड्रं स्यात्
तया केवलया कृतम् ।
मुक्तिः सिद्धा प्रदेशिन्या
कृतेन मुनिसत्तम ॥तस्मात् तया कृतं पुण्यं
पापं हरति तन् नृणाम् ।
अङ्गुष्ठेनार्थकामस्तु
नित्यं कुर्याद् अतन्द्रितः ॥सर्वाभिरङ्गुलीभिर् वा नित्यं
कुर्यात्समाहितः ।
चतुर्भिर्वा ततः कुर्यात्
कृतं तत्र प्रशस्यते ॥
येनोर्ध्वपुण्ड्रं सौम्यं स्याद्
आर्जवं च कृतं भवेत् ।
तेन कुर्यात् प्रकारेण
तादृशं फलदं भवेत् ॥
इति ।
तथा ब्रह्माण्डे-
अङ्गुष्ठं मोक्षदं प्रोक्तं
मध्यमा ऽऽयुष्करी भवेत् ।
अनामिका नित्यवश्या
तर्जनी पापनाशिनी ॥
इति ।
तत्रैवाध्यायान्तरे-
अङ्गुष्ठं [भ]मुक्तिदं प्रोक्तं
मध्यमाऽऽयुष्करी तथा ।
अनामिका कामदोक्ता
मुक्तिदा च प्रदेशिनी ॥
इति ।
[[७१]]
ब्रह्मरात्रे -
अङ्गुष्ठं [पुष्टि] मुक्तिदं प्रोक्तं
मध्यमाऽऽयुष्करी तथा ।
अनामी कामदा प्रोक्ता
मुक्तिदा तर्जनी स्मृता ॥कनिष्ठिका कदाचिच्च
न योग्या भवति ध्रुवम् ।
ब्राह्मणस्य विशेषेण
कल्पिताऽनामिका स्मृता ॥अङ्गुष्ठमेव राज्ञश्च
तर्जनी विश एव च ।
शूद्रस्य मध्यमा प्रोक्ता
सर्वेषां वाऽप्यनामिका ॥तर्जनी भिक्षुकस्यैव
वनस्थस्य तु मध्यमा ।
अनामिका गृहस्थस्य
अङ्गुष्ठाग्रम् अथापि वा ॥
अङ्गुष्ठेन ब्रह्मचारी
सर्वेषां स्याद् अनामिका ।
इति ।
तस्मिन्नेवाध्याये-
नाचरेद् वामहस्तेन
न नखैरपि कारयेत् ।
आत्मनैवात्मनोऽङ्गेषु
नेतरेण तु कारयेत् ॥
इति ।
अयं वामहस्तनिषेधो दक्षिणाशक्त+++(→दक्षिण-शक्त??)+++-विषयः,
शक्त्य्-अनुसारेण शास्त्र-प्रवृत्तेः ।+++(5)+++
तथा भरद्वाजसंहितायाम्-
ऊर्ध्वपुण्ड्रविधौ मोक्षम्
अङ्गुष्ठं तर्जनी श्रियम् ।
मध्यमा पशुपुत्रादि
मोक्षैश्वर्यम् अनामिका ॥
वश्यं कनिष्ठिका कुर्यान्
न चान्येन विधीयते ।
यथाकामं तु सर्वाभिर्
न नखैर् इति केचन ॥
इति ।
अत्र मध्यमाकनिष्ठिकयोर् निषेधः;
क्वचिच्च तयोर् एव फलान्तर-साधनतया विधिश् च दृश्यते;
तत् कथम् उपपद्यते?
उच्यते-
विशेषविधाने सति
सामन्यनिषेधो विहित-व्यतिरिक्त-विषयतया व्यवस्थाप्यः ।
अतो विधायक-वाक्यावगत-फल-विशेष-निरपेक्षान् प्रति तन्-निषेधः ।
यद्वा तत्-तद्-वाक्य-प्रकृत-फल-विशेषापेक्षया निषेध
इत्य् आसक्तेर् व्यवस्थापनीयम् -
या चात्र वर्णाश्रम-विषयतया ऽङ्गुलि-व्यवस्था
सा तत्-तत्-फल-विशेष-निरपेक्षणात्
तत्-तत्-कर्माङ्गत्वादि-मात्रेणोर्ध्व-पुण्ड्र-करण-दशायाम्
इति मन्तव्यमिति ।