वर्णः
श्वेतैव चेयं मृत्तिका मुमुक्षुभिर् धार्या ।
तथा हि श्रीनारदीये सप्ततितमे ऽध्याये-
श्वेता प्रधानतो ग्राह्या
ऊर्ध्वपुण्ड्रस्य धारणे ।
तथा पारमेष्ठ्य-संहितायाम्-
श्यामं शान्तिकरं पीतं
पुष्टिदं रक्त-मृत् तथा । +++(5)+++
यत् तत्रानन्तरम् उक्तम्-
श्वेतमृत्तिकया वाऽपि
श्यामया पीतयाऽपि वा ।
ऊर्ध्वपुण्ड्रं द्विजैः कार्यं
वैष्णवैश्च विशेषतः ॥
इति,
तद् अपि प्रथमोदित-व्यवस्थानुसारेण
तत्-तत्-फल-काम-विषयतया भाव्यम् ।
किंचास्य वचनस्य
वैष्णवानां भस्मादिवर्जने त्रिपुण्डादिवर्जने च तात्पर्यं स्फुटम्
इत्य् अन्य-परैतद्-वचनानुसारेण
न पूर्वम् अन्यथा कार्यम् ।
नापि तुल्य-विकल्पश् शक्यः ।
अत्रापि प्राधान्येन श्वेत-मृत्तिकैव प्रथमम् उपात्ता,
अनन्तरं श्यामादि-वर्णनम् अपि
भस्मादिभ्यः श्यामादि-वर्ण-विशिष्टाया अपि मृत्तिकायाः प्राशस्त्य-परम् ।
किंचात्र मृत्प्राधान्यादौ तात्पर्यम् अनन्तर श्लोकैर् व्यक्तम्-
ध्यानहोमजपाश् चैव
सर्वाः पुण्याः क्रियास् तथा ।
विफलिष्यन्ति विप्राणाम्
ऊर्ध्वपुण्ड्रं विना कृताः ॥ चन्दनागुरुभिश् चैव
कर्तव्यं क्षत्रियैर् बुधैः ।
वैश्यैश् च बिल्व-मूलेन शूद्रैर् भूत्या सतोयया ॥
सर्वैः श्वेत-मृदा कार्यम्
ऊर्ध्वपुण्ड्रं यथाविधि ।
ऋजूनि सान्तरालानि
अङ्गेषु द्वादशस्वपि ॥
इति ।
सर्वैर् इत्य्-आदिकं वैष्णव-विषयम्;
पूर्वं तु सर्व-सामान्यम् इति स्थलान्तरे ऽप्य् उक्तम् ।
तथा ब्रह्माण्डे-
द्रव्याणां तु गृहीतानां
वर्णतः फलम् उच्यते ।
श्यामं शान्तिकरं प्रोक्तं
रक्तं वश्यकरं तया ॥
श्रीकरं पीतम् इत्य् आहुः
वैष्णवं श्वेतम् उच्यते ॥
इति ।
तत्रैवाध्यायान्तरे-
द्रव्याणामेव सर्वेषां
फलमेवं विधीयते ।
श्यामं शान्तिकरं प्रोक्तं
रक्तं वश्यकरं भवेत् ॥
श्रीकरं पीतमित्याहुः
मुक्तिदं श्वेतमुच्यते ॥
ब्रह्मरात्रे-
श्यामं शान्तिकरं प्रोक्तं
रक्तं वश्यकरं भवेत् ।
श्रीकरं पीतमित्येव
मुक्तिदं श्वेतमुच्यते ॥
भरद्वाजसंहितायाम्-
असङ्कलितया स्निग्ध-
श्वेतया श्लक्ष्णया मृदा ।
ऊर्ध्वपुण्ड्राणि सौम्यानि
कुर्यात् सुरभि-गन्धया ॥
न पीतया नासितया
नातिगौर्या न रक्तया ।
न धूम्रवर्णया नापि
रूक्षया नासुगन्धया ॥
इति ।
अयं वर्णान्तरनिषेधो मुमुक्षुविषयः ।
सुरभित्व-विधिर् अविशेषात् सर्व-वर्ण-साधारणः ।
एकस्मिन्न् अपि वर्णविशेषे
वचनभेदेन फलान्तरं विहितम्
अविरोधात् समुच्चेयम्,
तत्-तत्-कामिनां तत्-तत्-सिद्धिर् इति ।
अतश्वेतैव मृत्तिका प्रशस्ततमा ;
वर्णान्तर-विशिष्टास् तु तत्-तत्-फल-विशेषाभिलाषिणां विहिता
इति न वर्णविशेषस्य सर्वपुरुषेषु विकल्प इति।