इयं च भगवत्-क्षेत्रत्व-विशेषितेष्व् एव पर्वताग्रादिषु मृत्तिका ग्राह्या ।
तथा हि पारमेष्ठ्यसंहितायां मध्यम-खण्डे शारीर-भगवत्-क्षेत्र-वर्णने-
गिरौ नदी-तटे वाऽथ
वल्मीके जलधेस् तटे ।
श्रीमत्-तुलसिका-मूले
विष्णुक्षेत्रे यदि द्विज ॥
सर्वतः सन्ति सरितो
वल्मीकाः सन्ति भूतले ।
पर्वताः सन्ति बहवः
समुद्राः सर्वतो वृताः ॥
+++(एतद्-भिन्नेषु)+++ तत्र तत्र च न ग्राह्या
मृत्तिका मुनिसत्तम ।
ग्राह्या भगवतः क्षेत्रे
तद्-वर्णानां फलं शृणु ॥
इति ।
ब्रह्माण्डे च-
सिन्धु-तीरेऽथ वल्मीके
बिल्वमूले जलाशये ।
पर्वताग्रे नदीतीरे
मम क्षेत्रे विशेषतः ॥
अन्येष्व् अपि च तीर्थेषु
नलिनी-मूलकेषु च ।
स्थानेष्व् एतेषु गृह्णीयात्
कुर्यान् नान्यत्र मानवः ॥
इति ।
तत्रैवाध्यायान्तरे-
तत्रैवाध्यायान्तरे -
पर्वताग्रे नदीतीरे
मम क्षेत्रे विशेषतः ।
सिन्धुतीरेऽथ वल्मीके
तुलसीमूलम् आश्रिते ॥ मृद एताश् च संग्राह्या
वर्ज्याश् चान्यत्र मृत्तिकाः ॥
इति ।
[[६९]]
अत्र “मम क्षेत्रे विशेषत” इत्येतत् सर्वत्रान्वेतव्यम्,
विशेषत इत्य्-एतद्-आञ्जस्याद्, वचनान्तरानुरोधाच् च ।
यत्तु तत्र त्रि-चतुर-वचन-व्यवधानेन पृथग् एवोक्तम्-
मूले कृष्ण-तुलस्या यत् तन्
मेऽतीव प्रियं भवेत् ।
मत्-सायुज्यं च सारूप्यं
सालोक्यं वा लभेत सः ॥
इति,
तद् भगवत्-क्षेत्रत्व-प्रसिद्ध्य्–अ-भावेऽपि
कृष्ण-तुलसी-संबन्ध-मात्रेण भागवतत्वं सिद्धम् इति ज्ञापनार्थम् +++(5)+++;
तुलसी मात्रात् कृष्ण-तुलस्या वैशिष्ट्य-ज्ञापनार्थं वा ।
तथा ब्रह्मरात्रे -
तस्मात् सर्वप्रयत्नेन
संग्राह्याः पञ्च मृत्तिकाः ।
पर्वताग्रे नदीतीरे
मम क्षेत्रे विशेषतः ॥
सिन्धुतीरेऽथ वल्मीके
तुलसीमूलमाश्रिते ।
मृद एतास्तु संग्राह्या
वर्जयेद् अन्यमृत्तिकाः ॥
इति ।
अत्र पर्वताग्र–नदी-तीर–सिन्धु-तीर–वल्मीक–तुलसी-मूलानि पञ्चापि विशेष्यन्ते, “मम क्षेत्रे विशेषत” इति ।
तथा भरद्वाजसंहितायाम्-
प्रशस्ते पर्वताग्रादौ
यत्रास्ते मधुसूदनः ।
तत्रोद्धृत-मृदा कार्यम्
ऊर्ध्वपुण्ड्रं विधानतः ॥
इति ।
तथा नारदीये सप्ततितमेऽध्याये
श्वेता प्रधानतो ग्राह्या
ऊर्ध्वपुण्ड्रस्य धारणे ।
सा च स्थान-विशेषेण
विशेष-फल-दा भवेत् ॥ +++(4)+++
इत्य् उपक्रम्य
श्रीमद्-वेङ्कटाद्रि–श्री-मुष्ण–वृषभाद्रि–श्री-रङ्गादि–
भगवद्–अ-साधारण-स्थान-गत-पुष्करणीषु मृत्तिकाया ग्राह्यत्वम् उक्तम् ।
गङ्गा-तीर-मृत्तिकाया अपि
विष्णु-पाद-संबन्ध-पुरस्कारेण ग्राह्यत्वं प्रदर्शितम् ।
तथा हि-
विष्णुपादाब्ज-संभूता
गङ्गा नाम महानदी ।
तस्यास् तीरे समुद्भूता
मृदं मूर्ध्ना तु धारयेत् ॥
इति ।
यच् च तत्र सामान्येनोक्तम्-
महानदीनां पुण्यानां
तीरे मृच् चापि साधिनी ।
गिरीणाम् अग्रसंभूता
पुण्यानां मृत्तिका शुभा ॥
साधनं चोर्ध्व-पुण्ड्रस्य
आश्रमेषूत्तमेषु च ॥
इति,
तद् अप्य् अत्र पूर्वानुपात्त-भगवत्-संबन्धि-स्थल-विशेषान्तर-परम् ।
पूर्वापर-परामर्शाद् अत्रापि
पुण्यत्वम् उत्तमत्वं च भगवत्-सम्बन्धाधीनम् एव विवक्षितम्
इति गम्यते ।
उपसंहारे चैतद्व्यक्तम्-
अन्यानि क्षेत्रजातानि
पुण्यानि हरिमेधसः ।
तेषाम् अपि मृदा कार्यम्
ऊर्ध्वपुण्ड्रं हितेच्छुभिः ॥
इति ।
अतस् सिद्धं भगवत्-क्षेत्रत्व-विशेषितेष्व् एव पर्वताग्रादिषु भगवद्-असाधारण-तुलसी-मूलादिषु वा संग्राह्येयम् ऊर्ध्व-पुण्ड्र-मृत्तिकेति ।