०४ द्रव्यविचारः

भस्म क्वाचित्कम्

अस्य च निर्माणे मृद् एव प्रशस्ततमा;
द्रव्यान्तराणि तु अधिकारि-विशेष-प्रतिनियतान्य् एव ।

[[६५]]

ननु, भस्मनोऽपि शुद्धतम-द्रव्यत्वाद् ऊर्ध्व-पुण्ड्र-धारणे मुख्यत्वम् एष्टव्यम्

इति चेन् न;
भस्मनः स्वतः शुद्धत्वासिद्धेः ।
भस्माद्य्-अधिष्ठित-देशस्य हि चण्डालाद्य्-अधिष्ठित-देशवत्
तत्-तद्-अनुगुण-शोधनानि द्रव्य-शुद्धि-प्रकरणेषु विधीयन्ते
न हि शुद्ध-द्रव्य-संस्पृष्ट-प्रदेशस्य क्वचिच् छोधनम् उपदिश्यते ।

आह च शङ्खः-

दीपाग्निर् दीप-तैलं च
भस्म चास्थि रजस्वला ।
एतानि ब्राह्मणः स्पृष्ट्वा
स-वासा जलम् आविशेत् ॥+++(4)+++

इति ।

तथा निषिध्यमान-तुष-लोष्टाद्य्–अ-शुद्ध-द्रव्य-समभिव्याहार-बलात्
स्वतोऽशुद्धत्वमेव हि भस्मनः प्रतीतम् ।
यथोक्तं गौतमेन-

भस्म-केश-तुष-कपालामेध्यान्य् अधितिष्ठेद् इति ।

उक्तं चापस्तम्बेन

भस्म-तुषाधिष्ठानं
पदा पादस्य प्रक्षालनम् अधिष्ठानं च
वर्जयेद्

इति ।

एवमन्यत्रापि ।

ननु

भस्म-करीष-च्छायासु
मूत्रं न विसृजेद्

इति प्रशस्त-सह-पाठोऽपि दृश्यत

इति चेन् न -
करीषस्य प्रशस्तत्वेऽपि
छायायाः प्राशस्त्व-नियमाभावत्;
अप्रशस्ता एव हि स्नुहि-करञ्जादि-च्छायाः ।
तस्माद् अ-शुद्धम् एव स्वतो भस्म ।

कथं तर्हि

आग्नेयं भस्मना स्नानं
वायव्यं गोरजस् स्मृतम्

इति स्नान-करणतया
तस्य विधिर्

इति चेत्, इत्थम्-

न हि तत्र भस्मनः स्वतः शुद्धत्वम् अभिधीयते ।
अपि त्व् अवगाहनाद्य्–अ-शक्त–विषयामुख्य-स्नान-विधान-परतया
तस्य तदानीं शुद्ध्यापादकत्व-मात्रम् ।+++(4)+++

न च क्वचिच् छुद्धि-हेतोस् सर्वत्र शुद्धत्वम् इति नियमः;
सुरा-प-शोधकाग्नि-स्पृष्ट-सुराया, अवकीर्णि-पशु-भूत-गर्दभादेश् च स्वतश् शुद्धत्व-प्रसङ्गात् ।+++(4)+++

[[६६]]

एतेन

मद्यं पीत्वा गुरुदारांश् च गत्वा
स्तेयं कृत्वा ब्रह्म-हत्याश् च कृत्वा । भस्म-च्छन्नो भस्म-शय्या-शयानो
रुद्राध्यायी मुच्यते सर्वपापैः ॥

इति शातातप-वचनम् अपि निर्व्यूढम्;
अस्यापि प्रायश्चित्त-व्रत-विशेष-विधि-परत्वाद् इति ।
यत् पुनर् अथर्व-शिरसि
“अग्निरिति भस्मे"त्यादिना “विमृज्याङ्गानि संस्पृशेद्” इत्यन्तेन
समन्त्रकं भस्मग्रहणं विहितम्;
तद् अपि “व्रतम् एतत् पाशुपतम्” इति
तत्र विधीयमान-पाशुपत-व्रताङ्गम्
इति न सार्वत्रिकं भवितुम् अर्हति ।+++(4)+++
उक्तं चैतद् वरद-गुरुभिस् तत्त्व-सारे-

प्रस्तुत्य रुद्र-वपुषः पुरुषोत्तमस्य
विद्याम् अथर्व-शिरसीरितम् अङ्गम् अस्याः ।
भस्म-प्रसक्तिर् इतरत्र न चास्ति यद्वत्
सौत्रामगी-प्रकरणोक्त-सुरा-ग्रहस्य ॥+++(5)+++

इति ।
अग्नि-होत्र-भस्म-ग्रहणं तु कल्प-सूत्र-काराद्य्-अननुशिष्टत्वात्
न क्रियाङ्गम्;
भस्मापेक्षायां तु
शुद्ध-स्थलात् तद्-उपादानम् उचितम् इति
तत्र तद्-ग्रहः ।

एतद्-अभिप्रायेण ह्य् उक्तं ब्रह्माण्डे-

अथ द्रव्यं प्रवक्ष्येऽहम्
ऊर्ध्वपुण्ड्रस्य पद्मज ।
मृच्-चन्दन-जलान्य् आहुस्
तथा भस्माग्निहोत्र-जम् ॥ +++(5)+++

इत्यादिकम् ।

मृद् वरम्

अस्तु वा शुद्धत्वं भस्मनोऽपि,
वचन-बलात् ब्राह्मण-मात्रस्यापि मृद् एव प्रशस्ततमा ।
मृद् एव प्रशस्ततमा ।
वैष्णवैस्तु भस्म परित्याज्यम् एव ।
न हि वचनविरोधे न्यायप्रसरो मीमांसकैर् अनुमतः ।
सन्ति च बहूनि वचांसि । तथा हि-

मार्कण्डेये-

ऊर्ध्वपुण्ड्रं मृदा धार्यं
विप्रेण ब्रह्मवादिना । उद्धृताऽसीति मन्त्रेण
वैष्णवेन विशेषतः ॥

इति ।

पारमेष्ठ्यसंहितायाम्-

श्वेतमृत्तिकया वाऽपि
श्यामया पीतयाऽपि वा ।
ऊर्ध्वपुण्ड्रं द्विजैः कार्यं
वैष्णावैश् च विशेषतः॥

इत्यादि । तथा कुण्ठिनप्रोक्ते श्रीकृष्णमन्त्रकल्पे-

स्नात्वा विधानतः पूर्वम्
ऊर्ध्वपुण्ड्रं तु धारयेत् ।
मृदैव वैष्णवः कुर्याद्
अलाभे चन्दनेन वा ॥
भस्मना कदाचिच् च
ऊर्ध्वपुण्ड्रं समाचरेत् ॥+++(4)+++

इति ।
ब्रह्मरात्रे-

चन्दनं पञ्चगव्यं च
बिल्वं पञ्चाङ्ग-मृत्तिका ।
न प्राण्य्-अङ्ग-सुगन्धानि
श्रीपत्रं भस्म तोयकम् ॥
वैष्णवेन विशेषेण
धार्या पञ्चाङ्गमृत्तिका ।
चन्दनं पञ्चगव्यं च ब्राह्मणेन विशेषतः ॥

इति ।

एतद् ब्राह्मणस्य भस्मादि-निषेधपरम्,
न तु चन्दनादेः मृद्वत् प्रशस्ततमत्व-परम्
इति स्व-प्रकरण-समान-प्रकरणाभ्यां व्यक्तम् ।

अतोऽत्र [प्रशस्त ] मृद्-अलाभ-दशायां
ब्राह्मणस्य चन्दन–पञ्च-गव्ययोर् अनुमति-मात्रम्-

श्रीकामो धारयेद् बिल्वं
श्रीपत्रं चन्दनं तु वा ।
राजा प्राणिसुगन्धानि
चन्दनं चागुरुं तथा ॥
भस्म विच्-छूद्रयोः कॢप्तं
पञ्चगव्यं विशोऽपि वा ।
शूद्रेणैव सदा धार्यं
भस्म तोयकम् एव च ॥

इत्यादि ।

तथा-

मृदैव वैष्णवः कुर्याद्
अलाभे चन्दनेन वा ।
न भस्मना कदाचिच् च
द्रव्येणान्यतमेन वा ॥ चन्दनं प्राणिगन्धं च
श्रीपत्रम् अगुरुं तथा ।
राजस-द्रव्यम् एवैतद्
वदन्ति ब्रह्मवादिनः ॥
पञ्चगव्यं च बिल्वं च
श्रीपत्रं भस्म तोयकम् ।
तामस-द्रव्यम् एवैतत्
सात्त्विकी पञ्च-मृत्तिका ॥

इति ।
तथा किञ्चिद् अनन्तरम् अतिक्रम्योक्तम्

सौभाग्यैश्वर्य-विज्ञानं
चन्दनं समुदाहृतम् ।
आयुष्यमगुरुश्चैव
श्रीपत्रं शान्तिदं स्मृतम् ॥

इत्युपक्रम्य,

[[६७]]

मुक्ति-दा पञ्चमृच् चैव
श्रीकरो बिल्व एव च ।
सर्व-गन्धानि वश्यानि
पुण्या केदार-मृत्तिका ॥

इति ।

श्रीनारदीये च मृच्-चन्दनादि-विकल्पो व्यवस्थित-विषयः;
मृद्-अलाभ-दशायां चेतर-द्रव्य-ग्रहणम् इति निर्णीतम् ।

तथा हि-

मृद्दव्यं प्रथमं श्रेष्ठं
तत्र कारणम् उच्यते

इत्युक्त्वा,

“उद्धृताऽसी"त्य्-आदिकां “प्रतिष्ठितम्” इत्य्-अन्तां श्रुतिम् उपादाय,

तस्मात्तु मृत्तिका ग्राह्या
सर्वद्रव्येषु नित्यशः ।
मृत्तिकायाः प्रधानत्वं
वक्ति तत्रापरा श्रुतिः ॥

इत्युक्त्वा,

अश्वकान्तेति मन्त्रम् उपादाय
प्रत्यक्षा श्रुतिर्

इत्य् आह
तस्माच् छ्रेष्ठतमा तु मृद् इत्युक्तम् । अनन्तरं च,

ब्राह्मणस्य तु मृत् प्रोक्ता
क्षत्रियाणां च चन्दनम् ।
वैश्यस्य बिल्व-मूलं तु
शूद्राणां भस्म चोच्यते ॥

इति वर्ण-व्यवस्थथा,
द्रव्याणि विभज्यालाभ-दशायां
प्रतिनियतानुकल्प-फल-विशेषादि-मूलाधिकारि-विशेषाभिप्रायेणोक्तम्-

सर्वेषां वा यथायोगं
मृत्तिका वाऽथ चन्दनम् ।
बिल्व-मूलं तथा भस्म
निर्दिष्टानि पुरातनैः ॥
तस्माद् अन्यतमं तेषां
मृदित्वा मन्त्र-संयुतम् ।
ऊर्ध्वपुण्ड्रं नरः कुर्याद्
रक्षसां चापनुत्तये ॥

इति ।
एवम् अन्यान्य् अपि तथा-विधानि वचनानि
मृद्–अ-लाभ–दशापेक्षया प्रवृत्तानीति मन्तव्यम् ।
तथा नारदीय-संहितायां चतुर्-विंशाध्याये

ऊर्ध्वपुण्ड्रं मृदा शुक्लं
यो धत्ते नित्यम् आत्मवान् ।
तस्य प्रसादं कुरुते
विष्णुर् लोक-नमस्-कृतः

इति ।
स्मृतिषु वृद्ध-वसिष्ठ-स्मृतौ

ऊर्ध्व-पुण्ड्रं मृदा कार्यं
यतीनां च विशेषतः ।
भस्म-चन्दन-गन्धादीन्
वर्जयेद् यावद् आयुषम् ॥

इति ।

इदं च यति-तुल्य-भगवद्+++(-बिम्ब)+++-असाधारण्याद् वचनान्तरानुरोधाच् चान्येषाम् अपि वैष्णवानां ग्राह्यम् ।

एवं श्रीपाद्मसंहितायाम्-

प्रशस्ते पर्वताग्रादौ
जातया श्वेतमुत्स्त्नया ।
उच्चार्य केशवादीनि
नामान्य् अङ्गे यथाक्रमम् ॥

इत्यादि ।

तत्रैव समाराधनम् अधिकृत्य-

पूजकोऽलङ्कृतः स्रग्वी
शुक्लाम्बरधरः शुचिः ।
शुक्लोत्तरीयवान् रम्य-
चन्दनाद्य्-अनुलेपनः ॥
चन्दन-श्वेतमृत्स्नाम्बु-
कल्पिताग्र्योर्ध्व-पुण्ड्रकः ॥

इति ।
पारमेश्वरे कुमुदादीनां ध्यानोपदेशे
तेषाम् ऊर्ध्व-पुण्ड्र-धारणोक्त्य्-अनन्तरम् उक्तम्-

एवं तदीया विप्राश्च
क्षत्रिया वैश्यजातयः ।
मृदैव वा चन्दनेन
कल्पितैर् ऊर्ध्वपुण्ड्रकैः ॥ द्वादशैकचतुर्भिर् वा
भूषितास् स्युस् सदा द्विज ।

इति।

मृदैव वा चन्दनेनेति- मृदैव, तद्-अलाभे चन्दनेन वेत्यर्थः ।

भस्म-वारणम्

आदित्य-पुराणे गौतम-शापः-

त्रिपुण्ड्रधारिणो नित्यं
भस्मोद्धूलन-तत्-पराः ।
भविष्यथ त्रयीबाह्या
मिथ्याज्ञान-प्रलापिनः

इति ।

अन्ये भस्मजटोपेता
यथोक्तं गौतमात् पुरा

इति च । एवं वाराहेऽपि-

गोवध्याकरण मह्यं
यावत् पश्यति योगवित्।
ऋषीणां मायया सर्वम्
इति संचिन्त्य तत्र वै ॥ शशाप तान् जटाभस्म-
मिथ्या-व्रत-धरांस् तथा ॥

इति । तत्रैव क्षेत्र-माहात्म्याभिधान-भागे-

कुलीनो ब्राह्मणो विद्वान्
भस्मधारी भवेद् यदि ।
वर्जयेत् तादृशं देवि
मद्योच्छिष्टघटं यथा ॥

इति ।

मार्कण्डेये -

ऊर्ध्वपुण्ड्रं मृदा धार्यं
विप्रेण ब्रह्मवादिना । उद्धृताऽसीति मन्त्रेण
वैष्णवेन विशेषतः ॥

इति ।

भस्म क्वाचित्कम्

[[६८]]

ननु भागवतासाधारणे श्रीसात्त्वते-

जल-निर्मथितेनैव
ऊर्ध्वपुण्ड्र-चतुष्टयम् ।
हृद्य् अंसयोर् ललाटे च
कुर्याद् दीपशिखाकृति ॥

इति विधानात्
भस्मापि वैष्णवैर्ग्राह्यम्

इति चेत्,
किं विहितत्व-मात्रेण तैस् तद् ग्राह्यम्?
उत तान् प्रति विहितत्वेन?
नाद्यः, अतिप्रसङ्गात्;
तान् प्रति तन्-निषेध-शतस्योक्तत्वात् ।
अत एव न द्वितीयोऽपि,
तान् प्रति विहितत्वासिद्धेश् च।

ननु भगवत्-समाराधनाधिकृतः

नाविष्णुर् विष्णुम् अर्चयेद्

इत्यादिभिः विष्णुभूतः किम् अवैष्णवः

इति चेत्, शान्तं पापम्, केनैवम् उक्तम् ?

तान् प्रति विहिते
वैष्णवान् प्रति विहितत्वं नास्तीति वदता त्वयैव

इति चेत्,
हन्त ???विशे;
तत्र हि पूर्वम् एव धृतोर्ध्वपुण्ड्रस्य समाराधित-वासुदेवस्याग्निकार्य-समनन्तरम् इदं +++(→“जल-निर्मथितेनैव”)+++ विधीयमानं
तत्रत्याग्निकार्यानुप्रविष्टं मन्तव्यम् आयुष्मता;
न पुनर् वैष्णव-मात्र-प्रयुक्तोऽयं विधिः ;
नापि समाराधनस्यापि सार्वत्रिकः ।

न हि क्वचित् कर्मणि विहितं सार्वत्रिकं भवितुम् अर्हति,
अतिप्रसङ्गाद् इति ।
एतेन विखनस्-सूत्राद्य्-उक्तम् अपि तत्-कर्म-मात्राङ्गत्वेन निर्व्यूढम् ।
एवं च यान्य् अपि कल्पेषु-

अन्नाद्य-कामो जुहुयाद्
एवम् एव समाहितः ।
तद् भस्म धारयेन् नित्यं
भवेद् अन्नाद्यवान् भुवि ॥

इत्यादीनि वचनानि,
तान्य् अपि तत्-तत्-कामान् अधिकृत्य प्रवृत्तानीति
न पूर्वोक्तेन निषेधेन विरुद्धानि ॥

श्रीवकुलभूषणदिव्यसूरिचरिवचनस्य भस्मासाधकता

ननु समस्त-भागवत-सार्थ-संगृहीत–वकुल-धर–महर्षि-दृष्टे द्रमिड-निगमे
कथं भगवत्-किङ्कर-लाञ्छनतया भस्मोर्ध्वपुण्ड्र-प्रतिपादनम्?
+++(नीरु शेव्वे इडक्काणिल ( ४. ४. ७) इति गाथाऽत्रानुसन्धेया ।)+++

इत्थम् - सादृश्य-मूल-भ्रान्ति-प्रतिपादन-परत्वात् तस्य वाक्यस्य ।
यद्वा, न तत्र भस्मासाधारणः शब्दः प्रयुक्तः
तत्र हि प्रयुक्तः शब्दो
भगवद्-भक्त-पाद-रजसि तेनैव प्रयुक्तः;
अतो दिव्य-चूर्ण-विषयतयाऽपि तच्-छक्यं निर्वोढुम् ।

नन्वस्तु तत्र तथा;
धवल-चूर्ण-परामर्शेन भगवत्-कामुक-नायिकोन्माद-प्रशमनाभिधानं कथम्

इति चेन् न,
पूर्व-वाक्य-परामर्शाद् धवल-चूर्ण-परामर्शेन तच्-छान्तिर् इति वाक्यार्थ-परत्वात् ।
अनन्तर-गाथायां भगवद्-भक्त-पाद-रजसा तच्-छान्तिस् सिद्धान्तिता ।
धवल-शब्दस्यापि “सित-मनसम्” इतिवत् विशुद्ध-मात्र-परतयोत्तरैकार्थ्यं वा । एतेन भगवत एव वलक्ष+++(=विधूसर)+++-चूर्ण-धारण-वचनम् अपि निर्व्यूढम् ।
चक्षुषि च तद्-धारणं तत्र विहितम् इति
अञ्जन-परत्वम् आहुर् आचार्याः ।
वलक्ष-शब्दोऽपि पूर्ववत् ।
न हि तत्र वलक्ष-शब्दोऽपभ्रंश-प्रयुक्तः,
अपि त्व् अञ्जनार्थतयैव द्रमिडादि-भाषा-रूढं शब्दान्तरम् एवेति तद्भाषाविदः ।
वकुल-धर-मह-र्षेश् च श्रुति-स्मृत्य्-आद्य्-उपबृंहण-प्रवृत्तत्वान् न तद्-विरोधेन निर्वाहः शक्यः ।

अतो मृदेवोर्ध्वपुण्ड्रे प्रशस्ततमा ।
सैव च वैष्णवैरुपादयेति सिद्धम् ।