०३ नित्य-कर्माङ्गता

[[६३]]

अस्य चोर्ध्व-पुण्ड्र-धारणस्य
नित्य-नैमित्तिकादि-सर्वकर्माङ्गत्व-
पवित्रत्व-मङ्गलत्व-फलातिशयत्व-हेतुत्वादिभिस्
स्वतः पुरुषार्थ-साधनत्वं च प्रपञ्चयन्ति ।

तथा हि श्रीविष्णुस्मृतौ-

उपवीतं शिखा-बन्धम्
ऊर्ध्वपुण्ड्रं विना कृतम्
अपवित्रकरं कर्म
विप्रस्य विफलं भवेत्

आह च बोधायनः-

होमपूजादिसमये
सायं प्रातः समाहितः ।
ऊर्ध्व-पुण्ड्रधरो विप्रो
भवेच्छुद्धो न चान्यथा ॥

स्मृत्य्-अन्तरेषु च

स्वाध्याये भोजने चैव
होमे मङ्गल-कर्मणि ।
ऊर्ध्व-पुण्ड्र-धरो नित्यं
रक्षसां चापनुत्तये

इति ।

दक्षः-

स्नात्वा ललाटे तिलकं
मृदा कुर्याद् अतन्द्रितः ।
पाषण्डपतितादीनां
दर्शनस्यापनुत्तये ॥

इति ।

अत्र तिलकशब्दोऽपि सामान्येनोर्ध्वपुण्ड्रम् अभिधत्ते;
श्रुति-स्सृत्यन्तरानुरोधात्;
अभियुक्त-प्रयोगतश् च -

उद्धरत्य् उपरि भक्त-जनान्
इत्य् ऊर्ध्वताश्रयण-सूचित-शक्तिम् ।
ऊर्ध्व-पुण्ड्र-तिलकं
बहुमानात् किं बिभर्षि वरद स्व-ललाटे ॥+++(5)+++

इति ।
वामने-

रक्षार्थम् अघनाशार्थं
मङ्गलार्थं च भामिनि ।
धारयेद् ऊर्ध्वपुण्ड्रं तु
शिरसाऽहर्निशं सदा ॥

इत्यादि।
तथा पाराशर्यसंहितायाम्-

निरूर्ध्वपुण्ड्रस् तु भवेन्
कदाचिद् अपि द्विजः ।
वैष्णवश् चेद्विशेषेण
सर्वकर्माणि नार्हति ॥

इति *।
आह च भार्गवः-

यज्ञो दानं तपो होमो
भोजनं पितृतर्पणम् ।
सर्वे भवन्ति विफला
ऊर्ध्वपुण्ड्रं विना कृताः ॥
द्रष्टव्यं नास्य कार्यं तच्
छ्मशान-सदृशं स्मृतम् ॥

इति ।

ब्रह्माण्डे च -

मद्-आराधनकाले च
सदा यज्ञादिकर्मणि ।
अवश्यं धारयेद् एतद्
ऊर्ध्वपुण्ड्रं द्विजोत्तमः ॥

यज्ञदानतपोहोम–
जपस्वाध्यायकर्मसु ।
तत्-फल-प्राप्तयेऽवश्यं
धारयेद् ऊर्ध्वपुण्ड्रकम् ॥

श्रौतस्मार्तक्रियाः सर्वा
ऊर्ध्वपुण्ड्रम् अकुर्वताम्
जायन्ते निष्फला ब्रह्मन्
बाधिताश् च भवन्ति ताः ॥
मत्-प्रियार्थं शुभार्थं वा
रक्षार्थं चतुरानन ।
मद्भक्तो धारयेन् नित्यम्
ऊर्ध्वपुण्ड्रम् अतन्द्रितः ॥
ऊर्ध्वपुण्ड्र ऋजुः सौम्यो
ललाटे यस्य दृश्यते
चण्डालोऽपि विशुद्धात्मा
पूज्य एव न संशयः ॥
अशुचिश् चाप्य् अनाचारो
मनसा पापम् आचरन् ।
सद्यश् शुद्धो भवेत् तात
ऊर्ध्वपुण्ड्रधरो नरः ॥
ऊर्ध्वपुण्ड्रधरो विप्रो
मृतो वा यत्रकुत्रचित् ।
श्वपचोऽपि विमान-स्थो
मम लोके महीयते

इति ।

[[६४]]

तत्रैवाध्यायान्तरेऽपि मत्प्रियार्थम् इत्यादयः श्लोका एव किञ्चिद्भिन्नाः कृताः।

तथोत्तरत्र-

पाषण्ड-दर्शन-स्पर्श-
सम्भाषण-परोऽपि यः ।
सोऽपि पूतो भवेद् ब्रह्मन्न्
ऊर्ध्वपुण्ड्रस्य धारणात् ॥

ब्रह्मचारी गृहस्थो वा
वानप्रस्थोऽथवा यतिः ।
अवश्यं धारयेत् पुण्यम्
ऊर्ध्वपुण्ड्रं सुशोभनम् ॥

यो मासमात्रं सततं
धारयेद् ऊर्ध्व-पुण्ड्रकम् ।
यावज्-जीवम् इदं पुण्यम्
ऊर्ध्वपुण्ड्रं दधाति यः।
चित्तप्रसादं शान्तिं च
मद्भक्तिं लभते च सः ॥ यावज्जीवमिदं पुण्यम्
ऊर्ध्वपुण्ड्रं दधाति यः ।
जन्मन्य् अनन्तरे मुक्तिं
सद्यः प्राप्नोति दुर्लभाम् ॥ विद्या-विनय-संपन्ना
ब्राह्मणा वेदपारगाः ।
मयि भक्तिं न कुर्वन्ति
चण्डालसदृशा हि ते ॥
ऊर्ध्वपुण्ड्रं मृदा धार्यं
विप्रेण ब्रह्मवादिना । उद्धृताऽसीति मन्त्रेण
वैष्णवेन विशेषतः ॥

इति ।

पारमेष्ठ्यसंहितायाम्-

धृतोर्ध्वपुण्ड्रो विधिवन्
नामानि द्वादश न्यसेत्
नमोन्तान्य् अञ्जलिं कुर्यान्
नामान्य् उक्त्वा यथाक्रमम् ॥

जपं होमं तर्पणं वा
दानम् आराधनं हरेः ।
अन्यानि शुभ-कर्माणि
पश्चात् कुर्याद् विजोत्तमः ॥

द्विज-राजन्य-वणिजां
शूद्राणाम् अन्त्य-जन्मनाम् ।
एतत् सामान्यतः प्रोक्तं
पितृदेवार्चनादिषु ॥

शिखोपवीतवद् धार्यम्
ऊर्ध्वपुण्ड्रं द्विजन्मनाम् ।
विना कृताद् विफलाः
क्रियाः सर्वा महामते ॥

तस्मात्सर्वेषु कार्येषु
धार्यं विप्रस्य धीमतः ।
भूत-प्रेत-पिशाचादि-
कूश्माण्ड-ब्रह्म-रक्षसाम् ॥
रेवती-पूतना-मातृ-
डाकिनी-गुह्यकादिनाम् ।
रक्षाकारं दुर्ग्रहाणां
संसार-ग्रह-नाशनम् ॥

ऊर्ध्वपुण्ड्रात् परं नान्यद्
दृष्टं ज्ञातं श्रुतं मया ।

इति ।

तथा ब्रह्मरात्रे

पूजाकाले च होमे च
सायं प्रातः समाहितः ।
सावित्रीजपकाले च
वेदाध्ययन एव च ॥
याने च भोजने चैव
शयने च विशेषतः ।
मन्त्रान् उच्चार्य विधिना
धारयेद् ऊर्ध्वपुण्ड्रकान् ॥
रक्षार्थं वंश-वृद्ध्य्-अर्थं
मङ्गलार्थं तु पद्मज ।
आभिर् अङ्गुलिभिः पुण्ड्रान्
धारयन्न् अनघो भवेत्
दृष्ट्वा प्रयाणकाले तु
ऊर्ध्वपुण्ड्राङ्कितं नरम्
सर्व-पाप-विनिर्मुक्तः
सायुज्यम् अधिगच्छति ।

मृत्युर् अभ्यर्चनं कुर्याद्
गुप्तं वैष्णव-तेजसा ॥
सर्वपाप-विनिर्मुक्तः
सायुज्यम् अधिगच्छति ।

तत्रैवाध्याये-

शयने होमकाले च
सायं प्रातः समाहितः
मन्त्रमुच्चार्य विधिना
धारयेद् ऊर्ध्वपुण्ड्रकम् ॥

एवं यः कुरुते नित्यं
मत्-सायुज्यम् अवाप्नुयात्

इत्य्-आदि ।

तत्रैव-

मद्भक्तो धारयेन् नित्यम्
ऊर्ध्व-पुण्ड्रम् अतन्द्रितः ।
जितेन्द्रियो जितक्रोधः
फलम् एष्यति कर्मणाम् ॥

दैवे च मानुषे पित्र्ये
कर्मण्येव विशेषतः ।
रक्षार्थं पापनाशार्थं
वर्धनार्थं ममात्मज ॥
ताभिर् अङ्गुलीभिश् च
कारयेन्, न स्पृशेन् नखैः । ऊर्ध्वपुण्ड्रं ऋजुः सौम्यो
ललाटे यत्र दृश्यते
चण्डालोऽपि विशुद्धात्मा
पूज्य एव न संशयः ॥
अशुचिश् चाप्य् अनाचारो
मनसा पापम् आचरन्
शुचिर् एव भवेन् नित्यम्
ऊर्ध्वपुण्ड्रधरो नरः ॥
ऊर्ध्वपुण्ड्रधरो नित्यं
मम लोके महीयते
श्वपाको वाऽथ गोघ्नो वा
मामेवैष्यत्य् असंशयम् ॥
ऊर्ध्वपुण्ड्रम् ऋजुं कुर्यान्
मम पादम् अनुस्मरन्
सर्वापद्भ्यो विनिर्मुक्तस्
सायुज्यं मोक्षम् ऋच्छति

इति ।

श्रीनारदप्रोक्तायां श्रीमद्-अष्टाक्षर-ब्रह्म-विद्यायाम्-

असङ्ख्याताच् च सङ्ख्यातः
सहस्र-गुण उच्यते
सङ्ख्याताद् अपि साहस्र
ऊर्ध्व-पुण्ड्र-तनोर् जपः+++(5)+++

इति ।
श्रीनारदीये त्रिसप्ततितमेऽध्याये-

ऊर्ध्वपुण्ड्राङ्कितो मर्त्यो
यत् कुर्यात् कर्म वैदिकम् ।
तत्सर्वं सफलं तस्य
भवत्येव न संशयः॥

नित्यं नैमित्तिकं चैव
लौकिकं कर्म वैदिकम् ।
ऊर्ध्वपुण्ड्राङ्कितः कुर्यात्
तत्-तत्-फलम् अवाप्नुयात्

ऊर्ध्वपुण्ड्राङ्कितं गात्रं
चण्डालस्यापि दृष्टवान् ।
पुरुषो हर्षयुक्तश्
भवत्य् एव महामुने ॥
सर्पं दृष्ट्वा यथा लोके
दर्दुरा भय-संयुताः ।
ऊर्ध्वपुण्ड्राङ्कितं तद्वत्
कम्पन्ते यम-किङ्कराः ॥
ऊर्ध्वपुण्ड्रेण संयुक्तो
म्रियते यस्तु मानवः ।
चण्डालोऽपि विशुद्धात्मा
विष्णुलोके महीयते
यो विना चोर्ध्वपुण्ड्रेण
यत् कुर्यात् कर्म वैदिकम् ।
निष्फलं तस्य तत्कर्म
भस्मनीव हुतं हविः ॥
तस्मात् कर्मादिषु श्रेष्ठम्
ऊर्ध्वपुण्ड्रं विचक्षणः ।
धारयेत् प्रयतः सम्यक्
तत्कर्मफलसिद्धये ॥
ऊर्ध्वपुण्ड्रं विना यस्य
शरीरं भवति द्विज ।
तं दृष्ट्वा गगने सूर्यो
निरीक्ष्यः साधुभिस् सदा ॥
ऊर्ध्वपुण्ड्रेण संयुक्तो
विष्णुभक्तश्च यो नरः ।
तस्य लोकस्य सिद्धिः स्याद्
विष्णोरमिततेजसः ॥
केवलस्योर्ध्वपुण्ड्रस्य
धारणाद् अपि मानवः ।
देहजैः पापसङ्घातैर्
मुच्यते नात्र संशयः ॥
श्वपचोऽपि द्विजश्रेष्ठ
ऊर्ध्वपुण्ड्रेण संयुतः ।
विष्णुभक्तस्तु भवति
विष्णुलोकं स गच्छति
ऊर्ध्वगत्यां हि यस्येच्छा
तस्योर्ध्वं पुण्ड्रमुच्यते ।
ऊर्ध्वगत्या तु देवत्वं
प्राप्नोतीह न संशयः ॥
ऊर्ध्वं नयति यत्पुण्ड्रं
प्राणिनः पापकारिणः ।
तस्याख्या ह्यूर्ध्वपुण्ड्रेति
तस्मात् तद् धारयेद्बुधः ॥

इति ।

अतस् सिद्धं कर्माङ्गत्वादिभिर् ऊर्ध्व-पुण्ड्रस्य अवश्य-धार्यत्वम् ।