इदं चोर्ध्व-पुण्ड्रधारणं सर्व-जाति-साधारणम् ।
क्षत्रियादिष्व् अर्धचन्द्रादि-भेदः;+++(4)+++
तत्रापि वैष्णवानाम् ऊर्ध्वपुण्ड्र-धारणम् एव कार्यम्;
अवैष्णवानाम् अपि विप्र-मात्राणाम् एतद् एवेति
व्यक्तं स्मरन्ति;
यथा अग्निवैश्यगृह्ये-
किं त्रिपुण्ड्रं ब्राह्मणो विद्वल्ँ
लीलयाऽपि न धारयेत् ।
धारयेत् प्रयतस् सम्यग्
ऊर्ध्वपुण्ड्रं प्रयत्नतः ॥
इति ।
[[६२]]
उक्तं च बोधायनेन-
होमपूजादिसमये
सायं प्रातस् समाहितः ।
ऊर्ध्वपुण्ड्रधरो विप्रो
भवेच् छुद्धो न चान्यथा ॥
इति ।
अन्यथेत्यनेन त्रिपुण्ड्रादेर्धारणम् ऊर्ध्व-पुण्ड्रादेर् अधारणं च निषिध्यते ।
आह च वृद्धजाबालि-
शस्त्रधार्य[स्त्र]सिधारी च
धनुर्धारी धनापहः ।
तिर्यक्-पुण्ड्रधरो विप्रः
स चण्डाल-समो भवेत् ॥
इति ।
शातातपश्च-
त्रिपुण्ड्रं ब्राह्मणो विद्वाल्ँ
लीलयाऽपि न धारयेत् ।
त्रिपुण्ड्रधारणाद् विप्रः
पतत्य् एव न संशयः ॥
यच्छरीरं मनुष्याणाम्
ऊर्ध्वपुण्ड्रं विना भवेत् ।
द्रष्टव्यो नैव तद् देहः
श्मशानसदृशो हि सः ॥
पुराणेषु च मात्स्ये-,
न त्रिपुण्ड्रं द्विजः कुर्यान्
न तत्पूजां तथैव च
इति । तत्रैव-
त्रिपुण्ड्रं ब्राह्मणो विद्वाल्ँ
लीलयाऽपि न धारयेत् ।
धारयेत् प्रयतस् सम्यग्
ऊर्ध्वपुण्ड्रं तु नित्यशः ॥
श्रीनारदीये च
पद्मपुष्पाकारादिकान् अग्निशिखाकार-पर्यन्तान् ऊर्ध्व-पुण्ड्र-संस्थान-भेदान् अभिधाय
उक्तानि लक्षणान्य् एवं
ब्राह्मणस्येति तत् स्मृतम् ।
त्रिपुण्ड्रं शूद्रकल्पानां
शूद्राणां च विधीयते
इत्यन्तेन वर्णानुरूप-संस्थानं विधायानन्तरम् उच्यते-
सर्वजातिषु यो मर्त्यो
विष्णुभक्तो भवेन्मुने ।
तस्योर्ध्वपुण्ड्र-करणे
अधिकारो बुधैः स्मृतः ॥
तथा पारमेष्ठ्यसंहितायां शारीर-भगवत्-क्षेत्रवर्णनाध्याये-
श्वेतमृत्तिकया वाऽपि
श्यामया पीतयाऽपि वा
ऊर्ध्वपुण्ड्रं द्विजैः कार्यं
वैष्णवैश्च विशेषतः ॥ध्यान-होम-जपाश् चैव
सर्वाः पुण्याः क्रियास् तथा ।
विफलिष्यन्ति विप्राणाम्
ऊर्ध्वपुण्ड्रं विना कृताः ॥चन्दनागरुभिश्चैव
कर्तव्यं क्षत्रियैर्बुधैः ।
वैश्यैश्च बिल्वमूलेन
शूद्रैर् भूत्या सतोयया ॥+++(4)+++सर्वैः श्वेतमृदा कार्यम्
ऊर्ध्वपुण्ड्रं यथाविधि ।
ऋजूनि सान्तरालानि
अङ्गेषु द्वादशस्वपि ॥
इति ।
चन्दनागरुभिर् इत्य्-आदिकं सामान्य-क्षत्रियादि-विषयम् ।
सर्वैर् इत्य्-आदि तु
विशेष-विषयम् ।
तथा ब्रह्मरात्रे-
ब्राह्मणस्योर्ध्वपुण्ड्रं स्यात्
क्षत्रियस्यार्धचन्द्रकम् ।
वैश्यस्य वर्तुलाकारं
शूद्रस्यैव त्रिपुण्ड्रकम् ॥त्रिपुण्ड्रं ब्राह्यणो विद्वाल्ँ
लीलयाऽपि न धारयेत् ।
धारयेत् प्रयतस् सम्यग्
ऊर्ध्व-पुण्ड्रं प्रयत्नतः ॥ब्राह्मणस्य न कर्तव्यं
तिर्यक्-पुण्ड्रस्य धारणम् ।
स शूद्र इति मन्तव्यस्
तिर्यक्-पुण्ड्रस्य धारणात्ममार्चने विशेषेण
ऊर्ध्वपुण्ड्रधरो द्विजः ।
कुलं तारयते सप्त
स गच्छेत् समतां मम ॥
उपवीतं शिखा-बन्धम्
ऊर्ध्व-पुण्ड्रं विना कृतम् ।
अ-पवित्र-करं कर्म
विप्रस्य विफलं भवेत् ॥
इति।
तत्रैवाध्याये पश्चादपि चतुर्णां वर्णानाम्
ऊर्ध्वप-ुण्ड्र एव विशेष उक्तः-
ब्राह्मणस्य गदाकारं
चक्राकारं नृपस्य तु ।
वैश्यस्य पद्मपत्राभं
शूद्राणां शङ्खसन्निभम् ॥
पद्म-पत्रायतं शस्तं
सर्वेषां भोगसिद्धये ।
एवं वैष्णवचिह्नैस् तु
सततं चिह्नितो भवेत् ॥
पिशाचभूतवेताल-
कूष्माण्डाद्या महागणाः ।
अस्यान्तिके न तिष्ठन्ति
वैष्णवस्य महात्मनः ॥
प्रणवेनैव मन्त्रेण
मृदा वै माम् अनुस्मरन् ।
ललाटे धारयेन् नित्यं
मत्-सायुज्यम् अवाप्नुयात् ॥
इति॥
ब्रह्माण्डे-
सर्ववर्णेषु मद्भक्ताः
कुर्वीरन्न् ऊर्ध्व-पुण्ड्रकम् ।
ब्राह्मणाश्च विशेषेण
जपहोमपरायणाः ॥
किमत्रोक्तेन बहुना
धारयेद् ऊर्ध्वपुण्ड्रकम् ।
यो न धारयते मर्त्यो
मामकं चिह्नम् ईदृशम् ॥
तं त्यजामि दुरात्मानं
मदीयाज्ञातिलङ्घिनम्।
ऊर्ध्वपुण्ड्रम् इदं धार्यं
सद्यः संसार-मोचनम् ।
नैनम् अन्तिम-काले तु
बाधन्ते यम-किङ्कराः ॥
तस्मान् मां प्राप्तुम् इच्छद्भिर्
वैष्णवैर् विमलाशयैः ॥
यमश् चोद्विजते
नित्यम् ऊर्ध्वपुण्ड्र-धरान् नरात् ॥
इति ।
तद् एवं सर्वेषां विप्राणाम् अन्येषाम् अपि वैष्णवानाम्
ऊर्ध्व-पुण्ड्र-धारणम् एव कार्यम् ।
अर्ध-चन्द्र-वृत्तादि-विधिस् तु
ब्राह्मण-व्यतिरिक्त-जातिष्व् अप्य् अ-वैष्णव-विषय
इति सिद्धम् ।+++(4)+++