(द्वितीयाधिकारे ऊर्ध्वपुण्ड्रे श्रुतिप्रमाणप्रदर्शनम्॥)
मोक्ष-हेतुता
तत्र तावन् महोपनिषदि -
धृतोर्ध्वपुण्ड्रः परमेशितारं
नारायणं साङ्ख्य-योगाधिगम्यम् ।
ज्ञात्वा विमुच्येत नरस् समस्तैस्
संसार-पाशैर् इह चैव विष्णुम् +++(→ज्ञात्वा)+++ ॥
इति ।
धृतोर्ध्वपुण्ड्रो ज्ञात्वेत्यन्वयः ।
“मुमुक्षुर् नरः धृतोर्ध्वपुण्ड्रो ध्यायेद्” इति विध्यर्थः ।
साङ्ख्य-योगाधिगम्यं - ज्ञान-योग–कर्म-योगाभ्यां भक्ति-द्वारा ऽधिगम्यम् इत्य् अर्थः ।
नारायण-विष्णु-शब्दयोर् अन्यतरस्य संज्ञात्वम्
इतरस्य निर्वचन-विवक्षया विशेषण-परत्वं चात्र बोध्यम् ।
समस्तैस् संसार-पाशैर् इति बन्ध-हेतु-भूतैः पुण्य-पाप-रूपैः कर्मभिस्तन्मूलैश्च रागादिभिरित्यर्थः ।
इह चैव मुच्येतेत्य् एतत् -
“तम् एवं विद्वान् अमृत इह भवती"त्य्-आदिवत् ।
तच्चोत्तर-पूर्वाघाश्लेष-विनाशादि-परम्
इति सूत्रकारैर् एव निर्णीतम् - “समाना चासृत्य्-उपक्रमाद् अमृतत्वं चानुपक्ष्ये"त्य्-आदिभिः ।
यद्वा
यः करोत्य् ऊर्ध्वपुण्ड्रं तु
सन्ध्या-वन्दन-कर्मसु ।
तेनाहं सुलभो ब्रह्मन्न्
एकस्मिन्न् एव जन्मनि ॥
यावज्-जीवम् इदं पुण्यम्
ऊर्ध्व-पुण्ड्रं दधाति यः ।
जन्मन्य् अनन्तरे मुक्तिं
सद्यः प्राप्नोति दुर्लभाम् ॥
इत्य्-आद्युपलक्षण-भूत–ब्रह्माण्ड-वचनानुसारेणैकस्मिन्न् एव जन्मनि मोक्षे तात्पर्यम् ।
यथा
जन्म कर्म च मे दिव्यम्
एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म
नैति मामेति सोऽर्जुन ॥
इति श्रीमद्-अवतार-रहस्य-तत्त्व-विज्ञानस्य शीघ्र-समस्त-प्रतिबन्धक-निवर्तकत्वेन
संपूर्ण-विद्यानिष्पत्तेर्
एकस्मिन्न् एव जन्मनि मोक्षहेतुत्वं,
तद्वद् वक्ष्यमाण-मन्त्र-ध्यानादि-विशिष्टोर्ध्वपुण्ड्र-धारण-नियमस्यापीति भाव्यम् इति ।+++(4)+++
या पुनर् इदानीं ब्रह्माण्डादि-ग्रन्थेष्व् अतिवितत-विप्रकीर्णत्वादिना
केषाञ्चिद् अतिशङ्का वर्तते;
साऽत्र न कर्तव्या,
संप्रतिपन्न-श्रुति-स्मृत्य्-आदि-विरोधाभावात्,
अविरोधिनाम् अनाप्तत्व-कल्पने गौरवाद् अतिप्रसङ्गाच् च ।
तथा कठ-शाखायाम् -
धृतोर्ध्वपुण्ड्रः कृत-चक्र-धारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं
परात् परं यन् महतो महान्तम् ॥
इति ।
अस्यार्थः श्रीमत्-सुदर्शन-धारणाधिकारे सर्वो व्याख्यातः ।
तथा नारदीयसंहितायां चतुस्-सप्ततितमेऽध्याये -
अर्चनाङ्गं ब्रवीत्य् अन्या
ऊर्ध्वपुण्ड्रं तथा श्रुतिः
इत्य् उक्त्वा समुपात्ता काचित् काठक-श्रुतिः ।
धृतोर्ध्वपुण्ड्रः परमेशितारं
नारायणं पूजयति स्म भक्त्या ।
अर्घ्यादिभिः पौरुष-सूक्त-मन्त्रैस्
संप्राप्नुयाद् विष्णु-पदं महात्मा ॥
इत्यादीनि च वाक्यानि श्रूयन्ते ।
तत्र यः पूजयति स्म
स विष्णुपदं संप्राप्नुयाद्
इति यत्-तच्-छब्दाध्याहारेण योजना ।
अन्यत् सुगमम् ।
तस्याम् एव संहितायाम् एकोन-सप्ततितमाध्याय-प्रभृतिभिष् षड्भिर् अध्यायैर्
अयम् अर्थः प्रपञ्चितः;
स्वावसरे चोपादास्यामहे ।
तथा भल्ल-शाखायाम् -
अर्चनादौ यज्ञ-मूर्तेर् ऊर्ध्व-पुण्ड्रम्
इत्य् आरभ्य -
कुलं तारयते सप्त
स गच्छेद् वैष्णवं पदम्
इति ।
तत्रैव देवतान्तर-भक्तस्याप्य् ऊर्ध्व-पुण्ड्र-धारणम् अभयावहम्
इति व्यक्तम् उक्तम् +++(4)+++-
अन्यदेवेषु ये भक्ता
जपहोमपरायणाः ।
ऊर्ध्वपुण्ड्रं धारयन्ते
इत्य्-आदिना ।
संस्थानम्
तथा ऽऽथर्वणे -
हरेः पादाकृतिम्
आत्मनो हिताय
मध्ये-च्छिद्रम् ऊर्ध्व-पुण्ड्रं यो धारयति
स परस्य प्रियो भवति
स पुण्यवान् भवति
स मुक्ति-भाग् भवति -
इति ।
अनेन संस्थान-विशेषस्य विहितत्वात्
सर्व-शाखा-प्रत्यय-न्यायेन
श्रुत्य्-अन्तरेष्व् अप्य् एतद् एव संस्थानम् अभिहितम्
इति गम्यते ।