विश्वास-प्रस्तुतिः
अथोर्ध्व-गति-कामानाम्
ऊर्ध्व-पुण्ड्रस्य धारणम् ।
तिर्यक्-पुण्ड्रादि-हानं च
शास्त्रैस् समभिदध्महे ॥
मूलम्
अथोर्ध्वगतिकामानामूर्ध्वपुण्ड्रस्य धारणम् ।
तिर्यक्पुण्ड्रादिहानं च शास्त्रैस्समभिदध्महे ॥
सन्त्य् अत्र बहूनि श्रुति-स्मृतीतिहासादि-वचांसि ।