अतस् सिद्धं ब्राह्मणादिभिस् सुदर्शनादिकम् अवश्यं धार्यम्,
मुमुक्षुभिस् तु विशेषत इति ॥+++(5)+++
श्रीमद्-वेङ्कटनाथेन
सम्यग् एतत् समर्थितम् ।
श्रुति-स्मृतीतिहासादि-
सिद्धं चक्रादि-धारणम् ॥
विश्वास-प्रस्तुतिः
अयम् अन्-अवम-सूक्तैर् आदि-भक्तैर् यथावद्
विदित-निज-सु-तत्त्वो विश्वम् अव्याद् अ-भव्यात् ।
रथ-चरण-निरूढ-व्यञ्जनानां जनानां
दुरित-मथन-हेला-दोहली देहलीशः ॥
मूलम्
अयमनवमसूक्तैरादिभक्तैर्यथावद्विदितनिजसुतत्त्वो विश्वमव्यादभव्यात्।
रथचरणनिरूढव्यञ्जनानां जनानां दुरितमथनहेलादोहली देहलीशः ॥
इति सच्चरित्ररक्षायां सुदर्शनपाञ्चजन्यधारणविधिर्नाम प्रथमोऽधिकारः ॥