११ पूर्वाचार्य-श्लोकः

एवं

लक्ष्मत्वाद् आत्म-भर्तुः, (प्रकृति-परिणति-ग्रन्थि-दाहात्मकत्वात्
कर्माङ्गत्वाद्, +धितत्वात्, तनु–तनु-शयिनोस् संस्कृतित्वात्, प्रियत्वात् ।
हेतुत्वात्, सद्-गृहीतेर्, इतर-परिहृतेर्, द्रावणात् +++(यम-)+++किङ्करादेर्
धार्यं चक्रादि-चिह्नं कृतिभिर्, +++(मोक्षादौ प्रयत्नाभावात्)+++ अ-कृतिभिश् श्रेयसे मुक्तये च ॥)

इत्य्-आदिना पूवोक्तास् सर्वे हेतवो निर्व्यूढाः -

“लक्ष्मत्वाद् आत्मभर्तुर्” इत्य् अस्य
स्वाभाविक-दास्यानुवर्तन–विधि-सिद्ध–
समुचित-विशेषानुष्ठान-परत्वेनानैकान्त्यानवतारात्,

प्रकृति-परिणति-ग्रन्थि-दाहात्मकत्वाद्

इत्यस्य “अ-तप्त-तनूर् (न तदामो ऽश्नुते)” इत्यादिना सिद्धत्वात्,
“कृत-चक्र-धारी विष्णुं परं ध्यायती"त्यादिभिः कर्माङ्गत्वादीनां स्थितत्वात्,

“प्रियत्वाद्” इत्यस्य

संदिह्यमानार्थे साधूनाम् अन्तः-करण-प्रवृत्तिः प्रमाणम्

इत्य्-अस्मिन्न्-अर्थे तात्पर्यात् -

(“उक्तं च महाकविभिर्” इति मीमांसाचार्यैर् अप्य् उपात्तम्

सतां हि संदेह-पदेषु वस्तुषु
प्रमाणम् अन्तः-करण-प्रवृत्तयः

इति ।) +++(5)+++

हेतुत्वात् सद्-गृहीतेर्

इत्य्-आदिकस्यापि शास्त्रानुसारेण सद्-अ-सद्–विवेकौपयिकत्व-तात्पर्येणाति-प्रसंगाभावात्,

द्रावणात् किङ्करादेर्

इत्य्-आदिकस्यापि प्राक्-प्रदर्शित-यम-किङ्कर-संवादादि-सिद्धत्वात्॥