१० आचारस्यापि अत्र प्रमाणता

सर्वत्र दृष्टम्

यद्य् अप्य् एते श्रुति-स्मृत्य्-आदयो न दृश्येरन्;
तथाऽपि नेदम् अनुष्ठानं हेयम्,

होलकाधिकरण-न्यायात् सर्व-देश-वर्तिनोऽप्य् आचाराः
प्रत्यक्ष-श्रुत्य्-आद्य्-अविरुद्धाः सर्वेषाम् अप्य् उपादेया

इति निरणैषुः;
दृश्यते च सर्वेष्व् अपि च देशेषु
भगवत्-पराणां सुदर्शनादि-धारणम्

तत्राप्य् अङ्कन-विधिम् अनुस्मरन्ति प्रायशो विद्वांसः
केचित्तु नूनम् उष्णालवो+++(=उष्णम् असहमानाः)+++
यथा-कथञ्चिद् अपि धारणम् उपादेयम्
इति प्रशस्तया मृत्तिकया लाञ्छयन्त्य् अङ्गानि ।
तुलसी-काञ्चन-लोह-ताम्रादि-निर्मितां वा मुद्रां धारयन्ति
किंच -

आत्मदास्यं हरेस् स्वाम्यं
स्वभावं च सदा स्मर

+इत्य्-आदिभिस् स्वतस् सिद्धं भगवद्-दास्यम् अनुवर्तेतेति
सामान्यतो विहिते
तद्-उचितम् अनुष्ठीयमानम् अ-निवार्यं पद्य-करण+++(=??)+++–नाम-धारणवत् ।

नातिव्याप्तिः

चाङ्गुलि-विच्छेदस्यापि प्रसङ्गः,
तस्याननुष्ठान-निरस्तत्वात् ।

सर्वदेश-वर्तिभिर् अननुष्ठानं दुर्निश्चयम्

इति चेन् न,
यथा-दृष्टि निरूपण-मात्रस्यैव [कर्त]वक्तव्यत्वात्;
अन्यथाऽतिप्रसङ्गात्,
व्याप्त्य्-आदेश् चानुदय-प्रसङ्गात् ।

यद्य् अपि तस्याप्य् अनुष्ठानं क्वचित् स्यात्,
ततस् तस्यापि न्याय-बलाद् उपादेयत्वम् एव स्यात्,
तु तत्-प्रसङ्गेन ततो ऽन्यस्य निषेधः

एतेन देवतान्तर-चिह्न-धारण-प्रसङ्गोऽपि परिहृतः,
तस्य स्व-सैद्धान्तिकैर् अन्यैश् च निषिद्धत्वेनाधर्मत्वाच् च । +++(4)+++

न विप्रतिपन्नम्

नन्व् अयम् अप्य् आचारो विप्रतिपन्नत्वाद् +धेयः स्याद्
इति चेत्, तत्किं विप्रतिपत्ति-मात्रेण?
उत प्रमाणादर्शनात्?
अथ प्रमाण-विरोधाद् इति?

नाद्यः +++(विप्रतिपत्ति-मात्रेणेति)+++, अतिप्रसङ्गादेः प्राग् एव खिल-निरूपणे प्रतिपादितत्वात्;
धारण-प्रतिकोटित्वेनाधारणस्यापि विप्रतिपन्नतया हेयत्व-प्रसङ्गाच् च +++(4)+++ ।

न द्वितीयः, प्रमाण-प्रदर्शनात् ।

नापि तृतीयः,
विषय-व्यवस्थया विरोधस्य प्रशमितत्वात् ।

क्वचिद् अननुष्टानान् न हेयम्

न च कैश्चिद् अननुष्ठानात् त्याज्यत्वम्, अतिप्रसङ्गादेव ।
न च शिष्टाननुष्ठानात्,
तत्र सर्व-शिष्टाननुष्ठानासिद्धेः;
कतिपय-शिष्टाननुष्ठानस्यातिप्रसङ्गित्वात् ।

वैणवीं धारयेद् यष्टिं सोदकञ्च कमण्डलुम् ।
यज्ञोपवीतं वेदं च
शुभे रौक्मे च कुण्डले ॥

इति मनु-विहितेषु यष्ट्य्-आदिषु यज्ञोपवीतातिरिक्तानां कतिपय-शिष्टैर् अधारण-दर्शनाच् च ।

न च

सुदर्शनादि-धारिणस् सर्वे ऽप्य् अशिष्टा

इति वक्तुं शक्यम्;
तद्-अन्येषां सर्वेषाम् अशिष्टत्वप्रसङ्गस्यापि दुर्निवारत्वात् ।+++(5)+++

श्रुत्य्-आदि-विधि-निषेध-शास्त्रानुविधानात्
तेषां शिष्टत्वम्

इति चेन् न,
प्रस्तुत-विषये विप्रतिपन्नत्वात्;
अर्थान्तर-विषयानुष्ठानस्योभयत्र समत्वात् ।+++(4)+++

तैर् अपि तेषां संबन्धादिषु परिग्रहाद्
वैशिष्ट्यम् अभ्युपगतम्

इति चेत् तुल्यम्,
तत एवैतेषाम् अपि तैस् तद्-अभ्युपगमात्

वर्जयन्ति केचित् तान्

इति चेत्; एतेऽपि केचिद् अन्यान् वर्जयन्त्य् एव;
यथा-प्रमाणम् इतरेषु तेषाम् अनादरणम्
आग्रह-मूलम् इति विशेषः । +++(4)+++

अतो मध्य-स्थ-बुद्धीनां
प्रत्यक्ष-श्रुत्यादि-चोदितेष्व् अपि
केचिद् आचाराः सार्वत्रिकाः,
केचित् तु न;
तत्र क्वचित् केचित् कांश्चिद् आचरन्ति,
अन्यत्रान्ये त्व् अन्यान्
सर्वेऽपि सर्वं संभ्रमादिभिर् नाचरन्तीति दुर्निवारोऽयं घण्टा-पथः ॥