उपपुराणेषु
ब्रह्माण्ड-संहिता-भेद-रूपे वायव्ये-
उपवीतादिवद् धार्याः
शङ्खचक्रादयस् तथा ।
ब्राह्मणस्य विशेषेण
वैष्णवस्य विशेषतः ॥
विश्वास-प्रस्तुतिः
विद्या विभूषणं पुंसस्
तस्या वृत्तं विभूषणम् ।
विष्णु-भक्तिर् विभूषा ऽस्य
सा चक्राद्य्-अङ्क-भूषणा॥+++(5)+++
विषयः
विद्या, ताप-संस्कारः, भक्तिः,आचारः
मूलम्
विद्या विभूषणं पुंसस्
तस्या वृत्तं विभूषणम् ।
विष्णु-भक्तिर् विभूषा ऽस्य
सा चक्राद्य्-अङ्क-भूषणा॥+++(5)+++
इत्यादि।
आदित्यपुराणे-
चक्रादि धारयेद् विप्रो
ललाटे मस्तके भुजे।
पातकादि-विशुद्ध्य्-अर्थं
भव-क्लेश-विनाशिनम्॥विहगेशेशनामाङ्काः
शङ्ख-चक्राङ्किता नराः।
निश्शङ्काश्च निरातङ्कास् ते
सङ्कर्षण-किङ्-कराः॥
शङ्ख-चक्रोर्ध्व-पुण्ड्रादि-
रहितो ब्राह्मणाधमः ।
स जीवन्न् एव चण्डालस्
सर्वे-कर्म-बहिष्-कृतः ॥ +++(4)+++
स्वर्ण-स्तेयं सुरा-पानं
गुरु-तल्पायुतानि च ।
सर्वं दहति निश्शेषं
सकृच् चक्राङ्क-दर्शनम् ॥
इत्य्-आदीनि परश्-शतानि प्रमाणानि विद्यन्ते ।
ग्रन्थ-गौरववशाद् अत्र न लिख्यन्ते ।