०८ पुराणम्

पौराणिकानि च परश्शतानि वचांसि ।

पाद्मे-

धारयेद् विष्णु-भक्तस् तु
चक्रं बाहौ तु दक्षिणे ।
वामे तु शङ्ख-राजानं
धारयेद् विष्णुम् आप्नुयात्
चक्रेणैवाङ्कितो विद्वान्
वासुदेवं समाश्रयेत्
भावभक्तिं समास्थाय
ब्रह्म-लोकं प्रयास्यति ॥

इति।

श्रीभागवते -

चक्राङ्कितस्य सान्निध्ये
तपः कुर्यात् प्रयत्नतः
स्नानं दानं जपं होमं
तत् सर्वं चाक्षयं भवेत् ॥
संवत्सरेण यत्पापं
मनसा कर्मणा कृतम् ।
तत्सर्वं नश्यते तेषां
सकृच् चक्राङ्क-दर्शनात्
ज्वर-दाह-भयं चैव
चोराग्नि-ज-भयं तथा ।
तत् सर्वं प्रशमं याति
यत्र चक्राङ्कितो वसेत्

इति ।
आग्नेये -

पञ्चायुधानि धार्याणि
भक्ति-श्रद्धोपबृंहितैः
ललाटे मूर्द्नि हृद्-बाह्वोर्
एकत्रैकं पृथक् पृथक् ॥

ललाटे तु गदा धार्या
मूर्ध्नि चापस् ततः परम् ।
नन्दकं चैव हृन्-मध्ये
शङ्ख-चक्रे भुज-द्वये ॥

[य]तथा च विधिवत् कृत्वा
पञ्चायुध-विधानतः ।
तत्-तन्-मन्त्रेण मन्त्र-ज्ञः
प्रतिष्ठाप्य पृथक् पृथक् ॥
वह्निमध्ये समारोप्य
विधिवत् पूजयेत् पुनः ।
अङ्कयेद् विधिवद् ब्रह्मन्न्
अ-प्रमत्तस् समाहितः

वर्णाश्रमेषु निष्ठानाम्
अन्येषां च विधानतः ।
कर्तव्यं भगवद्-भक्तैस्
सिद्धैर् मुक्तैश् च योगिभिः ॥

चक्रादि-धारणाद् ब्रह्मन्
विष्णुलोके महीयते

इति ।
सिद्धैः - सिद्धि-कामैः; मुक्तैः- मुमुक्षुभिर् इत्यर्थः ।+++(4)+++
आदिकर्मणि क्तः, आशंसायां वा । भविष्यत्पुराणे -

चक्राङ्कित-भुजं दृष्ट्वा
यस्तु तं नाभिवादयत्
तिर्यग्-योनि-शतं प्राप्य
विष्ठायां जायते कृमिः ॥

ब्रह्मवैवर्ते -

चक्राङ्कितभुजं मर्त्यं यो निन्दयति सर्वदा ।
याति नरकं घोरं
यावद् आभूत-संप्लवम् ॥

इति ।
लैङ्ग्ये -

अष्टाक्षर-विदस् सर्वे
विष्णु-चक्राङ्कितास् तथा ।
श्रावका वासुदेवस्य
तथैव नट-नर्तकाः ॥
अन्ये च वैष्णवास् तत्र
सर्वे चक्रेण लाञ्छिताः

इति ।
श्रीवाराहे -

वासुदेवाङ्कनं कुर्याद्
आत्मनो बाहु-मूलयोः ।
सो ऽश्व-मेध-फलं प्राप्य
विष्णु-लोके महीयते

इति ।
तत्रैव क्षेत्र-माहात्म्ये -

मच्-चक्राङ्कित-देहो यो
मद्-भक्तो भुवि दुर्-लभः
मामेवैष्यति धर्मात्मा
मद्-एकान्तेन चेतसा॥

चक्राङ्कित-भुजाः केचिद्
यत्र कुत्र वसन्ति वै।
योजनानि तथा त्रीणि
मम क्षेत्रं वसुन्धरे ॥+++(4)+++

ये केचिद् यत्र पुरुषा
विष्णु-चक्राङ्क-मुद्रिताः
तेषां दर्शन-मात्रेण
महा-पातक-नाशनम्

भूत-प्रेत-पिशाचाश् च
डाकिन्यश् च वसुन्धरे ।
तत् सर्वं प्रशमं याति
यत्र चक्राङ्कितो वसेत्

इत्य्-आदयः।
स्कान्दे यम-वचनम् -

येषां चक्राङ्कितं गात्रं
शूद्रेष्व् अपि च दृश्यते
ते वै स्वर्गस्य नेतारो
ब्रह्मणा भुवि दवताः ॥

इति /।

“शूद्रेष्वपि च दृश्यते” इत्यस्य स्थाने -
“लोकेषु परिदृश्यते” इति वरद-राजीय-स्मृतिसंग्रहे यम-स्मृति-पाठस् संगृहीतः।

वामनेऽपि-

लीलयाऽपि लिखेद् यस् तु
बाहु-मूले सुदर्शनम् ।
कुल-कोटिं समुद्धृत्य
गच्छेत् परमं पदम् ॥

इति ।
मात्स्ये-

चक्राङ्कित-भुजाः केचिच्
छङ्खाङ्कित-भुजास् तथा ।
शङ्खचक्र-धराः केचित्
कुले विष्णु-परिग्रहे ॥

शङ्ख्य-चक्राङ्कनं कुर्याद्
आत्मनो बाहु-मूलयोः ।
कलत्राप्रत्यभृत्येषु
पश्वादिषु च मुक्तये ॥

मच्-चक्राङ्कित-देहो यो
मद्-भक्तो भुवि दुर्लभः
नैवाप्नोति वशं मृत्योर्
अप्य् आज्ञा-भङ्ग-कृन्-नरः ॥

इति ।

श्रीगारुडे-

विष्वक्सेनस् त्व् अयं चक्रम्
आदायाप्य-विभूषणम्
प्रयच्छति महातेजा
हरि-भक्तानुकम्पया ॥

विष्णु-चक्राङ्कितं गात्रं
पवित्रम् इति वै श्रुतिः ।
चक्राङ्किताय दातव्यं
हव्यं कव्यं द्विजोत्तमैः।
अ-चक्र-धारिणं विप्रं
यश् श्राद्धे भोजयिष्यति
रेतो-मूत्र-पुरीषादीन्
स पितृभ्यः प्रयच्छति

तथा-

अग्निनैव तु संतप्तं
चक्रम् आदाय वैष्णवम् ।
दाहयेत् सर्ववर्णानां
हरिसालोक्य-सिद्धये

इत्यादि।

तथा ब्रह्माण्डे श्रीविष्णुरहस्ये त्रयस्त्रिंशेऽध्याये-

श्रावका वासुदेवस्य
तथैव नटनर्तकाः ।
कये च वैष्णवास् तत्र
सर्वे चक्रेण लाञ्छिताः ॥

इति ।
तत्रैव प्रथमेऽध्याये-

वैष्णवा मुनयः पूज्याः
पुण्या विष्णु-लक्षण-लक्षिताः ।
ध्यायिनो योगनिरताः
सदा विष्णु-परायणाः॥

इति । तत्रैव मोक्षधर्मे उमामहेश्वरसंवादे श्रीवैष्णवमाहात्म्ये-

शङ्खचक्राङ्कितान् भक्त्या
यः पूजयति मानवः ।
स साक्षाद्विष्णुसामीप्यं
लभते नात्र संशयः ॥

इत्यारभ्य महता ग्रन्थेनायमर्थः प्रपञ्चितः ।