विष्णुधर्मः
सन्ति चेतिहासाः ।
यथा श्रीविष्णुधर्मे द्व्य्-अशीतितमे ऽध्याये
यम-किङ्कर-संवादे -
भवतां भ्रमताम् अत्र
विष्णु-संश्रय-मुद्रया ।
विना - ऽऽज्ञा-भङ्ग-कृन् नैव
भविष्यति नरः क्वचित् ॥
इत्यादि ।
एतेन,
वसति मनसि यस्य सोऽव्ययात्मा
पुरुष-वरस्य न तस्य दृष्टि-पाते ।
तव गतिर् अथवा ममास्ति चक्र-
प्रतिहत-वीर्य-बलस्य, सो ऽन्यलोक्यः ॥
इति श्री-विष्णु-पुराण-गत–यम-किङ्कर-संवाद-वचनम् अपि
गति-सामान्य-न्यायेन व्याख्यातम्;
परिहर मधुसूदन-प्रपन्नान्
इति प्रपन्न-प्रकरणौचित्याद्
वाचिक-मानसिक-शुद्धिवत्
कायिक-शुद्धेर् अपि वक्तव्यत्वात्
स्व-वाक्यौचित्याद् अध्याहारादि-निरपेक्षत्वाच् च ।
मात्स्यानुवादः
अयम् एवार्थो
मात्स्ये ऽन्यत्र च
यम-कृष्णार्जुन-संवादे ऽपि स्पष्टः -
मच्-चक्राङ्कित-देहो यो
मद्-भक्तो भुवि दुर्-लभः ।
नैवाप्नोति वशं मृत्योर्
अप्य् आज्ञा-भङ्गकृन् नरः ॥
नान्यं देवं नमस्कुर्यान्
नान्यं देवं निरीक्षयेत् ।
नान्य-प्रासादम् आरोहेन्
नान्यद् आयतनं विशेत् ॥
चक्राङ्कितस् सदा तिष्ठेन्
मद्-भक्तः पाण्डु-नन्दन ॥
इति ।
विष्णु-तत्त्वम्
एवं चक्रादि-धारणान् मुत्युवशत्वाभावः
श्री-विष्णु-तत्त्वेऽपि नरक-प्रस्तावे प्रोक्तः -
चक्रादि-धारण पुंसां
पर-संबन्ध-वेदनम् ।
पतिव्रता-निमित्तं हि
वलयादि-विभूषणम् ॥
वैष्णवेभ्यो हि बिभ्यन्ति
देवा नरक-रक्षकाः ।
अवमान-क्रिया तेषां
संहरत्य् अखिलं जगत् ॥
कालेनैतावता तेषु
नरकेषु तु कश्चन ।
न दृश्यते महावीर्य
प्रभावात् परमेष्ठिनः ॥
इति ।
इतिहास-समुच्चयः
एवं भारतेतिहास-सारतया
सर्व-शिष्ट-परिगृहीतेतिहास-समुच्चये द्वात्रिंशेऽध्याये श्रीपुण्डरीकाख्याने -
केचिच् चक्राङ्कितास् तत्र
प्राणिनः पुण्य-दर्शनाः ।
विचरन्ति यथा-कामं
पुण्य-तीर्थ-प्रशंसिनः ॥
इत्यादि ।
न चैतत् तत्र प्रतिक्षेप्य-पक्षानुप्रविष्टम्;
अङ्गिनो नारायणोपासनस्यैवानन्तरं विधीयमानत्वात्,
पूर्वोत्तर-गत-नानागम–नाना-पक्ष-विकल्पानुप्रविष्टत्वाभावात्,
सालग्राम-क्षेत्र-प्रशंसा-रूपत्वाच् चास्य वाक्यस्य । तथा -
विश्वास-प्रस्तुतिः
नारदोऽहम् अनुप्राप्तस्
त्वद्-दर्शन-कुतूहलात् ।
प्रभवो भगवद्-भक्ता
मादृशां सततं द्विज ॥
मूलम्
नारदोऽहम्अनुप्राप्तस्
त्वद्दर्शनकुतूहलात्।
प्रभवो भगवद्भक्ता
मादृशां सततं द्विज ॥
विश्वास-प्रस्तुतिः
स्मृतस् संभाषितो वाऽपि
पूजितो वा द्विजोत्तम ।
पुनाति भगवद्-भक्तश्
चण्डालोऽपि यदृच्छया ॥+++(5)+++
विषयः
भागवतः, भागवत-कैङ्कर्यम्
मूलम्
स्मृतस् संभाषितो वाऽपि पूजितो वा द्विजोत्तम ।
पुनाति भगवद्भक्तश्चण्डालोऽपि यदृच्छया ॥
इति भगवद्-भक्त-प्रशंसा-तात्पर्य-दर्शनाच् च ।
महाभारतम् - कृत-लक्षणैः
तिष्ठतु चान्यत् सर्वं,
स्पष्टम् उक्तं हि भगवता व्यासेनैव
पञ्चमे वेदे भीष्मपर्वणि चतुर्थेऽह्नि देवगुह्ये -
ब्राह्मणैः क्षत्रियैर् वैश्यैः
शूद्रैश् च कृत-लक्षणैः ।
अर्चनीयश् च सेव्यश् च
नित्य-युक्तैस् स्व-कर्मसु ॥
सात्त्वतं विधिम् आस्थाय
गीतः संकर्षणेन यः॥
इति ।
लाच्छनं लक्ष्म लक्षणम् इति पर्यायः ।
न चैतद्
आसत्त्या शूद्र-मात्र-विषयम्
इति वक्तुं युक्तम्,
चतुर्णाम् अपि समुचितानाम्
अ-विशेषेण तद्-अन्वय-प्रतीतेः ।
कृत-लक्षण-शब्दार्थः
नाचारः
ये तु “कृत-लक्षणैर्” इत्य्-एतत् कृत-चीर्णाचारैर्+++(=??)+++ इति व्याचख्युः,
तेषां नूनम् आग्रहग्रहेण पदार्थ-ज्ञानम् अपि मुषितम्;
लक्षण-शब्दस्याचार-वाचकत्वेन प्रसिद्ध्य्-अभावात्
प्रसिद्धार्थे बाधकाभावेनोपचारस्याप्रसिद्ध-योगस्य वाऽङ्गीकारायोगात्,
आचार-बोधकत्वानुरूपस्य च
योगोपचारयोर् निमित्तस्य निर्वचन-सादृश्य-संबन्धादेः स्फुटस्यादर्शनात्;
यथा-कथञ्चिद् अन्यथा-करणे ऽतिप्रसङ्गात् ।
नोपवीतादि
ये तु कृत-यज्ञोपवीतादि-लक्षणैर् इति व्याचख्युस्
तेऽपि तेनैवाग्रह-ग्रहेण
शूद्रैश् चेति पदस्य तद्-अन्वयस्य वा विस्मारिताः ।
न चान्यत् किञ्चिद् अस्ति शूद्र-चिह्नं येनादि-शब्देन तत्-संग्रहस् स्यात् ॥
ननु शूद्राणाम् अपि कृत-यज्ञोपवीतादि-लक्षणैर् इत्य्-आदौ
कृत-युगे यज्ञोपवीतादि-धारणम् इतिहासादिषु श्रुतम्
इति चेत्,
अहो महत्त्वम् ऐतिहासिकत्वस्य,
यद् ग्रन्थानां तात्पर्यार्थवद् आभिधानिकार्थम् अपि तिरोधत्ते ।
आदि-कृत-युगे शूद्राणाम् अभाव एव हि महाभारतादिषु प्रपञ्चितः ।+++(5)+++
ततश्च तत्र काले
सर्वेषां यज्ञोपवीत-धारण-वचनम् अपि
पश्चाद् वृत्ति-भेदेन शूद्री-भविष्यतां
तदातन ब्राह्मण-विशेषाणां तद्-धारणेन चरितार्थम् ।
अस्तु वा तदानीं वचन-बलाच् छूद्राणाम् अपि तद्-धारणम्;
तथाऽपि नात्र श्लोके तद्-विवक्षा शक्या,
तेषाम् आद्य-त्रेता-युगात् प्रभृति
तत्-प्रसङ्गा[त्; अत्र च]भावात्;
ततश् च काल-विशेषस्यानन्तर-श्लोके ऽभिहितत्वात् -
सात्त्वतं विधिम् आस्थाय
गीतस् संकर्षणेन यः ।
द्वापरस्य युगस्यान्तय्
आदौ कलियुगस्य च ॥
इति ।
इदं च काल-विशेष-विधानं
न कालान्तर-निषेधपरम्,
सार्व-कालिकत्वेन वचनान्तर-शतैर् विहितित्वात् ।
अत एव गीति-काल-विशेष-परत्वेऽपि न दोषः ।
किं च भगवत्-समाराधन-विधायके वाक्ये
तद्-असाधारणं किञ्चिद् अङ्गत्वेन विधातुं युक्तम् ।
यद्य् अपि च
वर्णाश्रमाचार-परित्याग-शङ्का-निवृत्त्य्-अर्थं
यज्ञोपवीतादि-विधानम् अपि युक्तम्;
तथाऽपि -
सन्ध्या-हीनो ऽशुचिर् नित्यम्
अनर्हस् सर्व-कर्मसु, ब्रह्म-सूत्र-परित्यागाद्
ब्रह्मचारी गृही वनी ।
परिव्राट् चापि पतितस्
तस्मात् तन् न परित्यजेत् ॥
इत्य्-आदि-स्मृति-शत-सुप्रतिष्ठितत्वाद्
अस्यार्थस्यात्र न तद्-विधानापेक्षा-निबन्धः ।
तद् एवम् आचार-यज्ञोपवीतादेस् सर्व-देवतार्चन-साधारणत्वान्
नात्र विशेष-विध्य्-अपेक्षेति
युक्तम् अनुसंधत्स्व ।
आगमिकार्थः
किं च
सात्त्वतं विधिम् आस्थाय
गीतस् संकर्षणेन यः
इति भगवच्-छास्त्र-पुरस्-कारेण
समाराधन-विधानात् कृत-लक्षण-पदस्यापि तद्-अनुसारेण व्याख्या युक्ता ।
तत्र हि ब्राह्मणादीनां भगवद्-अर्चन-प्रवृत्तानां
चक्रादेर् अवश्य-धार्यत्वम्
कृत-लक्षण-शब्दस्य च तद्-विषयत्वं सुस्पष्टम् ।
यथा श्री-विष्णु-मन्दिरे प्रतिष्ठाध्याये -
प्रतिष्ठा-दिवसं ज्ञात्वा
ऋत्विग्भिर् द्विज-सत्तमैः ।
एकान्ति-मुनि-मुख्यैस् तु
कृत-चक्रादि-लक्षणैः ॥
यजमानः प्रकुर्वीत
वेद्य्-आदि-स्थापनं पुरा ॥
इति ।
तथा पारमेश्वरे च प्रतिष्ठाध्याये -
येषु व्यक्तेषु चिह्नानि
नाभिव्यक्तानि सत्तम ।
तान्य् अपि स्वानि चिह्नानि
ललाटे चांस-पट्टयोः ॥
पृष्ठे वाऽप्य् अङ्क-पट्टे वा
पाणि-पाद-तलेपु वा ।
मूर्ध्नि वा दधते तस्मात्
तत्र तत्र निरीक्षयेत् ॥
यस्माद् अ-लक्षणा व्यक्तिर्
विद्यते न कदाचन ।
एवं तदीया विप्राश् च
क्षत्रिया वैश्य-जातयः ॥
मौद्गल्याद्यास् तथाऽन्ये च
न तच्-चिह्न-विवर्जिताः ।
भवेयुस् सर्वदा तस्माच्
छङ्ख-चक्र-गदा–ऽम्बु-जैः॥
लोहैर् अनल-सन्तप्तैस्
तत्-तन्-मन्त्राधिवासितैः ।
पूजितैर् अर्घ्य-गन्धाद्यैर्
अङ्कितव्याः क्षणेन तु ॥
त्रय्य्-अन्त-ज्ञान-संपन्ना
यथोक्ताचार-निष्ठिताः।
विप्राद्यास् ते च शूद्राश् च
यदैवं कृत-लक्षणाः ॥
तदा तु योग्या विज्ञेयाः
समय-श्रवणादिषु ।
शास्त्रोदितासु सर्वासु
सामग्रीषु महामते॥
यागोपकरणान्य् एवम्
अर्घ्य-पाद्यादिकान्य् अपि ।
सल्ँलाञ्छ्यानि यथा-योगं
शङ्ख-चक्रादि-लक्षणैः॥
तथा यानासनादीनि
विभोस् सर्वाणि यत्नतः ।
स्वात्मोपकरणं सर्वम्
आसनादि-विवर्जितम् ॥
अङ्गुलीयक-पर्यन्तं
भूषणं कटकादिकम् ।
उत्तमाङ्ग-समुद्धार्यं
सर्वम् उष्णीष-पूर्वकम् ॥
चक्रादि-लाञ्छितं कुर्यात्
तदीयाश् च गवादयः ।
विप्रादिवल् लाञ्छितव्यास्
तदीया भू-रुहादयः ॥
लाञ्छितव्या यथा-योगं
चक्र-शङ्खादि-लक्षणैः ।
आराधकाद्याः कर्मण्या
एवं चक्रादि-लाञ्छिताः॥देवतान्तर-चिह्नैस् तु
अ-कर्मण्याश् च लाञ्छिताः ।यत्र वा भगवन्-मूर्तौ
लाञ्छनं न प्रदृश्यते ॥
तत्र वै लक्षण-न्यासं
न कुर्यात् स्वेच्छया द्विजः ।
यथास्थितैव सा व्यक्तिः
पूज्या व्यापक-मन्त्रतः॥तद्-अन्ये लाञ्छितव्यास् स्युस्
सर्वे पूर्वम् अलाञ्छिताः॥
इति ।
श्री-विष्णु-तत्त्वे तृतीय-पादे प्रथमे पटले -
एवं विज्ञापिताश् शिष्याश्
चक्र-लिङ्ग-समन्विताः।
देवा एव भवन्त्य् एते
नान्येषां कर्म-कारकाः
इति ।
द्वितीये पटले -
इति तेनाभ्यनुज्ञातश्
चक्र-लिङ्ग-धरो भवेत् ।
नवमे पटले -
संस्कार-व्यञ्जितात्मानः
प्रतिचिह्नेन लाञ्छिताः ।
देवाभिधानवन्तश् च
त्यक्तास्पद-परिग्रहाः ॥
तम् एव सर्वभावेन
संप्रयान्तु महामुने ।
इति ।
अत्रान्तिमे पटले -
चक्रादिधारणं पुंसाम्
इत्यादि प्राग् एवोक्तम् ।
तत्रोपरितने चतुर्थे पटले -
ब्रह्मचारी गृहस्थो वा
वानप्रस्थोऽथ भिक्षुकः ।
एते ह्य् आश्रमिणः प्रोक्ताश्
चत्वारः क्रम-योगतः ॥
इत्य्-आरभ्य
चक्र-लिङ्ग-धरास् सर्वे
समय-व्रत-निष्ठिताः
इति । भवेयुर् इति शेषः ।
पराशर-संहितायां गृहार्चाप्रतिष्ठायाम् -
श्रोत्रियो विष्णु-भक्तस् तु
गृहस्थश् शास्त्र-वित्तमः ।
चक्रलिङ्गधरो विप्रः
प्रतिष्ठां कर्तुम् अर्हति ॥
तेन प्रतिष्ठि[ते]तस् तत्र
सन्निधत्ते सदा हरिः ।
देवतान्तर-भक्तो वा
सम-बुद्धिर् अथापि वा ॥
नास्तिको वेदहीनो वा
न प्रतिष्ठां समाचरेत् ॥ +++(5)+++
इति ।
नारदीय-पद्धतौ च -
गृहस्थः श्रोत्रियो विप्रो
नित्य-कर्मरतः शुचिः ।
शान्तश् चक्र-धरो दान्तस्
सद्-भक्तो दोष-वर्जितः।
शास्त्रज्ञः कर्मदक्षश् च
प्रतिष्ठां कर्तुम् अर्हति ॥
इति ।
सर्व-संहिता-सार-भूते श्री-सात्त्वते च
विभव-मूर्ति-परिच्छेदे -
नास्त्रैर् वस्त्रैर् ध्वजैर् येषां
व्यक्तिर् व्यक्ता जगत्-त्रये ।
तेऽपि लाञ्छन-वृन्दं तु
धारयन्त्य् अङ्घ्रि-गोचरे ॥
ललाटे वा ऽंस-पट्टे वा
पृष्ठे पाणि-तल-द्वये ।
तनू-रुह-चये मूर्ध्नि
कर्मिणां प्रतिपत्तये ॥
अपि संसारिणो जन्तोः
स्वभावाद् वैष्णवस्य च ।
न जहात्य् आच्युतं लिङ्गं
किं पुनर् विभवाकृतेः॥
इति ।
न च वाच्यम्
असूयत शुभाचारं
वासुदव-परायणम् ।
शुभ-लक्षण-संपन्नं
चक्राङ्कितम् अनुत्तमम् ॥इति लैङ्ग-वच[नात् ]नवत्
इदम् अपि सह-ज–चिह्न-परम्
इति;
तस्मिन्न् अपि लैङ्ग-वचने सह-ज–चिह्न-परत्वे नियामकाभावात्,
“शुभ-लक्षण-संपन्नम्” इत्य्-अनेन गतार्थत्वात्,
शुभाचारम् इतिवत् पाश्चात्यार्थ-वर्णनोपपत्तेश् च ।
अस्तु वा तत्र शुभ-लक्षण-शब्दस्य गो-बलीवर्द-न्यायात् सङ्कोचः,
अत्र तु संहितान्तर-श्रुत्य्-आद्य्-अनुसाराद्
अङ्कन-विषय[मेवेति]म् इति मन्तव्यम् ।
एवं सनत्-कुमार-संहितादिष्व् अपि -
सर्व-पाप-विनाशार्हं
रथाङ्गस्य तु धारणम् ।
सर्व-कल्याण-दम् इह
पश्चात् संसार-नाशनम् ॥
सुवर्ण-रूप्य-ताम्राद्यैर् लोहेन च तथैव वा ।
तथा रथाङ्गम् अष्टारं
सुनाभिं च सु-वृत्तकम् ॥
ज्वाला-चतुष्क-संयुक्तं
कृत्वा चैवं विधानतः ।
अग्नौ प्रताप्य विधिवद्
धारयेद् भक्ति-संयुतः ॥
इत्य्-आदि द्रष्टव्यम् ।
निगमनम्
तद् एवं भगवच्-छास्त्रे
समाराधकादीनां सर्वेषाम् अपि
चक्रादि-लाञ्छन-धारणस्यावश्य-कर्तव्यतया ऽभिहितत्वात्
प्रमाणान्तर-गवेषणं चापवरक-निहित-हिरण्य-निधेः पुरुषस्य
कोद्रवाद्य्-अर्थं कृपण-जन-याचनम्
इति परिहसन्ति सन्तः ।+++(5)+++
तेनाहित-लक्षण-पर्यायतया
कृत-लक्षण-शब्दस्याप्रसिद्ध-रूढि-विशेषाश्रयणम् अपि निरस्तम् । अतः -
ब्राह्मणैः क्षत्रियैर् वैश्यैश्
शूद्रैश्च कृतलक्षणैर्
इति चक्रादि-विषयम् एव ।
हरिवंशः
एतेन यद् उक्तं हरिवंशे सप्त-चत्वारिंशच्छततमेऽध्याये यात्रारम्भे -
चक्राङ्किताः प्रवेष्टव्या
यावद् आगमनं मम ।
नामुद्रिताः प्रवेष्टव्या
यावद् आगमनं मम ॥
इति,
तद् अपि
यथोपलम्भं सामान्यतस् सर्व-जन-विषयम् एवेति निर्व्यूढम् ।
यद्य् अपि तत्र नगर-रक्षाऽभिधाने तात्पर्यम्;
तथाऽपि भगवद्-अ-साधारण-चिह्नम् इदम्
इत्य् अपि सिद्धं भवति,
“वैष्णवानां विशेषतः” इत्य्-आदिवचनान्तरानुसाराच् च ।
न रक्षका एव
न च
नगर-रक्षौपयिक-भटादि-मात्र-विषयम् इदम्
इति वक्तुं शक्यम्,
तावन्तं कालं ब्राह्मणादेस् तत्र संचार-निरोधे प्रमाणाभावात्,
ब्राह्मणादेश् चक्राङ्कितत्वाभावे प्रमाणाभावाच् च,
प्रत्युत श्रुति-स्मृत्य्-आदि-विहितत्वेन तद्वत्त्वाद् एव ।
नन्व् अ-चक्राङ्कितस्यापि ब्राह्मणादेर् निवारणम् अत्रानुपयुक्तम्
इति चेन् न,
अ-भागवतानां ब्राह्मणानाम् अप्य्
अ-सित-मनसाम् आशय-परिज्ञानायोगेन
तन्-निवारणस्यापि नगर-रक्षणौपयिकत्वात् ।
अतो ये चक्राङ्कितास्
ते प्रवेष्टव्या एव
न तु निवारणीयाः;
ये तु न चक्राङ्कितास्
ते न प्रवेष्टव्या
इति वचन-व्यक्ताव्
अनुवादांशस्य पुरो-वाद-सापेक्षत्वेन
श्रुत्य्-आद्युपस्थापित–ब्राह्मणादि-सर्व-वर्ण-संभव–भगवद्-अ-साधारण-जन-विषयोऽयं
“ये चक्राङ्किता” इत्य् अनुवादः;
तद्-व्यतिरिक्त-विषयश् च निषेधः ।
ये प्रवेष्टव्यास् ते चक्राङ्किता एव स्युर्
इति वचन-व्यक्त्या लोहितोष्णीष-न्यायेन
विशेषण-विधान-तात्पर्ये ऽपि
नगर-प्रवेशस्य प्रतिनियत-जाति-विषयत्वाभावेन साधारण्येनानुवादात्
तत्-तज्-जातीयेषु चक्राङ्किता एव प्रवेष्टव्या, नामुद्रिताः
इति वाक्यार्थः स्यात्,
तथाऽपि ब्राह्मणादेस् तद्वत्त्वं सिद्धम् ॥