०६ स्मृत्युदाहरणम्

अस्ति च शाण्डिल्यस्मृतिः -

पशु-पुत्रादिकं सर्वं
गृहोपकरणानि च ।
अङ्कयेच् छङ्क-चक्राभ्यां
नाम कुर्याच् च वैष्णवम् ॥
कारयित्वा सुवर्णेन
पञ्चायुध-गणं हरेः ।
बध्नीयात् कण्ठदेशे तु
बालानां सूतिका-गृहे ॥
न मुद्रयेद् आसनानि
शयनानि महीतलम्।
स्थापयेत् क्षेत्र-मध्ये तु
शिलां चक्रादि-मुद्रिताम्
मुक्ता-मणिस-ुवर्णाद्यैः
कृत्वा चक्रादिभूषणम् ।
यथार्हं बिभृयुस् सर्वे
पुमांसस् स्त्रीजनोऽपि च ॥

इत्य्-आदिका । तथा च वसिष्ठस्मृतिः -

अष्टमात् षोडशाऽहाद्
धार्यं चक्रादि-भूषणम्
प्रतप्तैर् अङ्कनं पश्चात्
सदा वा भूषणं स्त्रियः।

जात-कर्मणि वा कुर्याच्
चौलोपनयने ऽपि वा ।
वेदाध्ययन-काले वा
चक्र-चिह्नं विधानतः ॥ +++(5)+++

इत्यादिका ।