यत् तु
खिलानाम् अ-खिलानां वा सर्वेषां
सौदर्शने कर्मणि, ततोऽन्यत्र च विनियोगस्याभ्युपगतत्वाद्
विनियुक्तानां च मन्त्राणां विधि-परत्वायोगाद् अभिमतासिद्धिर्
इति, तदपि विचारणीयम् ।
किं मन्त्रत्वाद् एव विधि-परत्वासिद्धिः?
उत विनियुक्तत्वात्?
यद् वा विनियुक्तत्वे सति मन्त्रत्वात्?
न प्रथमः +++(मन्त्रत्वाद् इति)+++, यच् छब्दाद्य्-अनुपहत-विधि-शक्तीनां मन्त्राणां विधिपरत्वस्य
मीमांसकैर् एव स्वीकृतत्वात् ।
वसन्ताय कपिञ्जलान् आलभते
इत्य्-आदिषु [मन्त्रत्व-प्रसिद्ध्या]
मन्त्रत्वं विधि-परत्वं च वर्णितं मीमांसकाचार्यैः ।
न द्वितीयः +++(विनियुक्तत्वाद् इति)+++,
यं यं क्रतुम् अधीते
तेन तेनास्येष्टं भवति
इति तत्-तत्-क्रतु-फल-तुल्य-फल-प्राप्त्यर्थे जपाध्ययने विनियुक्तस्यापि ब्राह्मण-भागस्य
तत्-तद्-विधि-परत्वानपायात्,+++(5)+++
अन्यथा क्रतूनाम् एव निर्मूलत्व-प्रसङ्गात् ।
न च तृतीयः +++(विनियुक्तत्वे सति मन्त्रत्वाद् इति)+++,
विनियुक्तत्व-मन्त्रत्वयोर् द्वयोर् अपि विधि-शक्ति-विरोधित्वाभावे
समुच्चितयोर् अपि तयोस् तद्विरोधित्वे प्रमाणाभावात् ।
विनियुक्तानां मन्त्राणां विधिपरत्वं न दृष्टम्
इति चेन् न,
वसन्ताय कपिञ्जलान् आलभते
इत्य्-अस्यैव कृत्स्न-वेद-जपाद्य्-अनुप्रवेशेन विनियुक्तस्य मन्त्रस्यापि
विधि-परत्व-स्वीकारात् ।
उक्तं च भगवता शौनकेन -
शौनकोऽहं प्रवक्ष्यामि
नित्यं विष्ण्व्-अर्चनं परम् ।
प्रवर-[पान्थ]पान्तम् अन्धसो
ऽधीत्यर्धर्च-विधानतः ॥
प्रवः[पान्थ]पान्तम् अन्धसो ऽधीयाय
ते महेश्वराय विष्णवे ऽर्चते
इत्य् अयम् अर्धर्चो ह्य् अच्छावाक-शस्त्रतया द्वादशाहे विनियुक्तः ।
अविधित्व-कारणम्
येषु तु मन्त्रेषु विधि-परत्वं न दृश्यते
तेष्व् अपि न विनियुक्तत्वेन, मन्त्रत्वेन, तत्-समुदायेन वा
विधि-परत्वम् अपक्रान्तम्, अपि त्व् अनुवाद-लिङ्ग-प्राप्तार्थत्वादिभिः ।
न ह्य् एष्व् अपि मन्त्रेषु
तैर् एव विधिपरत्वाभावस् स्यात्,
सर्वानुवाद-लिङ्गत्वस्याप्राप्तार्थत्वस्य विद्यमानत्वात् -
यद् आग्नेयो ऽष्टाकपालः
उपरि हि देवेभ्यो धारयति
इत्यादिषु ।
विधि-सलक्षणम्
असूत्रयच्च भगवान् जैमिनिः -
वचनानि त्व् अपूर्वत्वाद्
इति,
विधिस् तु धारणे ऽपूर्वत्वाद्
इति च । आह च भगवान् बादरायणः -
विधिर्वा धारणवद्
इति ।
दक्षिणे तु भुजे विप्रः
दक्षिणे तु भुजे विप्रो
(बिभृयाद् वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयाद्
इति ब्रह्म-विदो विदुः ॥)
इत्यत्र बिभृयाद् इति विधिर् एव प्रतीयते ।
अयम् अस्यार्थः -
यो विप्रः ब्राह्मणः,
स भगवच्-चिह्न-भूतं सुदर्शनं शङ्खं च बिभृयात् ।
तथा सति हि विप्रत्वानुरूपं कृतं भवतीति भावः ।
विष्णुं क्रान्तं वासुदेवं विजानन्
विप्रो विप्रत्वं गच्छते तत्त्व-दर्शी
इति वचनात् तस्य तत्त्व-दर्शित्वं हि सिद्धम् ।
ततश् च
सर्वान्तरात्मत्वेन सर्वशेषिणं वासुदेवं
विशेषतो यथावस्थितं जानन्
ब्राह्मणः स्वात्मनः शेषत्वानुरूपं शेषिणो वासुदेवस्य लाञ्छनं
चक्रं शङ्खं च बिभृयाद् इति वेदवित्-सिद्धान्तः,
इति ।
ब्रह्म-शब्देन पर-ब्रह्म-विवक्षायाम् अपि
फलितो ऽयम् एवार्थः ।
नित्यत्वम्
अस्य चैवम् अ-कामो[पनिबन्ध]पाधि-निबद्ध–विधि-प्राप्तत्वान्
नित्यत्वं सिद्धम्,+++(5)+++
विप्र इति निर्देशेनैव नियोज्याकाङ्क्षा-शान्तेः नियोज्यान्तर-कल्पनानवकाशात् ।
यद्य् अपि चास्योपासनाङ्गत्वं श्रुत्य्-अन्तरे प्रतीतम्;
तथाऽपि ज्योतिष्टोमादीनाम् इव नित्यत्वम् अपि न विरुध्यते,
विनियोगभेदात् ।+++(4)+++
उपवीतादिवद् इति हि स्मरन्ति ।
भगवच्-छास्त्रोक्त-काल-विशेषादिकम् अपि
न नित्यत्व-विरुद्धम्,
वसन्ताष्टवर्षादिवत् ।
नेतर-प्रतिषेधः
ब्राह्मणस्य विशेषेण
वैष्णवस्य विशेषतः
इत्यपि वचनं न ब्राह्मण-मात्रस्यावश्य-कर्तव्यत्वाद् इतर-प्रतिषेध-परम्,
अपि त्व् अकरणे प्रत्यवायलाघवपरम् ।+++(4)+++
सामान्यतो ऽसत्य-वचन-निषेधे ऽप्य्
आहिताग्नौ
तस्माद् आहिताग्निर् नानृतं वदेद्
इति निषेध-वचनम्
आहिताग्नेर् अ-सत्य-वचने प्रत्यवाय-भूयस्त्वम्
अन्यस्यासत्य-वचने प्रत्यवायाल्पत्वं च ज्ञापयति,
न पुनर् अन्यस्यासत्य-वचनम् अनुमन्यते; तद्वदत्रापि ।+++(5)+++
फल-काङ्क्षायाम् अपि नित्यत्वम्
न च वाच्यं -
धारणे फल-विशेषस्योदाहरिष्यमाणानेक-श्रुति-सिद्धत्वाद्
विध्य्-अपेक्षितस्य च रात्रि-सत्र-न्यायेन वाक्य-शेष-श्रुत्य्-अन्तराद्य्-अवगतस्य हानायोगेन
विश्वजिन्-न्यायानवतारात्
कामाधिकारत्वे च प्रवृत्ति-शैष्य-हेतौ संभवति
नित्यत्व-कल्पनायोगात्दक्षिणे तु भुजे विप्रः
इति फलनिर्देश-रहित-विधि-वाक्येऽपि
श्रुत्य्-अन्तर-सिद्धम् एव फलम्
इति; उक्तोत्तरत्वात्,
निराकाङ्क्षस्य नित्यत्वेन स्मृतस्य
फलान्तरापेक्षानियमाभावत् ।
विनियोग-भेदात् तु
मोक्षाधिकारे नित्य-कर्मान्वयस्येव
निःश्रेयस-साधन-सह-कारित्वम् अप्य् उपपद्यत एव ।
मुमुक्षवे नित्यम्
अस्तु वोपासनाङ्गत्वेनास्य तद्-एक-फलत्वम् ।
तथाऽपि मुमुक्षुणा तावद्-उपासकेनावश्यं कर्तव्यम् इति सिद्धम्,
अङ्गाननुष्ठाने ऽङ्गिनो वैकल्यात् ।
क्षत्रियाद्य्-अधिकारः
अत्रापि विप्रवचनं न क्षत्रियादि-व्यवच्छेदार्थम्;
तेषामपि वचनान्तरेण विहितत्वात् । यथा -
अष्टवर्षं ब्राह्मणम् उपनयीत,
तम् अध्यापयेत्, युक्तश् छन्दांस्य् अधीयीत
मासान् विप्रो ऽर्ध-पञ्चमान्
इत्य्-आदिषु ब्राह्मण-विप्र-शब्दौ
न क्षत्रियाद्य्-अध्ययन-निवारणाय प्रयुक्तौ,
क्षत्रिय-वैश्ययोर् अप्य् उपनीतयोर् अध्ययनस्य सिद्धत्वात् ।
ततश् च प्रकृष्टाधिकारित्व-मात्राद्
अ-करणे प्रत्यवाय-भूयस्त्वाच् चात्र विशेष-निर्देशः ।
तु-शब्दः
तु-शब्दो ऽवधारणार्थः;
दक्षिण एव सुदर्शनं सव्य एव शङ्खम् इत्य् अर्थः ।
यद् वा दक्षिण-सव्य-शब्द-प्रयोग-नैष्फल्यायोगाद् एव नियम-सिद्धेः
मूले बाह्वोः
इत्य्-आदि-वाक्यान्तर-प्रतिपन्न-भुजांश-विशेषद्योतनार्थस् तु-शब्दः ।
वै, ब्रह्म-विदो विदुः
वै-शब्देन प्रसिद्धता-संप्रतिपत्तिरेव सिद्धा ॥
ब्रह्म-विदो विदुर्
इत्य् अपि पर-ब्रह्म-भूत–परम-पुरुष-प्रतिपादक-वेद-वित्–
सिद्धान्त-प्रसिद्धि-परम् एवेति।
धृतोर्ध्व-पुण्ड्रः …
(धृतोर्ध्व-पुण्ड्रः कृत-चक्र-धारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं
परात् परं यन् महतो महान्तम् ॥)
तथा कठ-शाखायाम् “धृतोर्ध्वपुण्ड्रः” इत्यादि ।
अत्रोर्ध्व-पुण्ड्रादिवच् चक्रादि-धारणस्यापि ध्यानाङ्गत्वं स्पष्टम् ।
अत्र चक्र-शब्दो वचनान्तर-विहित-शङ्खादेर् अप्य् उपलक्षणार्थः ।
व्यापनशीलत्वाद् विष्णुः;
तेनाप्य् अन्तर्यामित्वे तात्पर्याच्
छेषित्वं सूचितम् ।
परं परात् परम्
इत्य् उभाभ्याम् अशुद्धेभ्यस् संसारिभ्यश्
शुद्धेभ्यो ऽसंसारिभ्यश् च व्यावृत्तिः ।
यद् वा परम् इति केवल-पर्यायः ।
विष्णुं केवलं ध्यायीतेत्य् अर्थः ।
महतो महान्तं -
स्वरूपतो गुणतो वा ये पदार्था उत्कर्षवन्तस्
तेभ्यस् सर्वेभ्यो ऽप्य् अतिशयितोत्कर्षवन्तम् इत्य् अर्थः ।
यद्वा सर्वेभ्यः पृथुभ्यः पृथुतरम् इत्यर्थः ।
सदा हृदि स्थितं परात् परं यद् इति पृथग्वाक्यम्,
ततश्च यच् छब्दस् सामान्यतो वस्तुमात्रत्वेनानुवदति;
अन्यथा लिङ्ग-विरोधात् ।
तम् एवं-भूतं विष्णुं
तत्-प्रतिपादकेन स्वरेण -
स्वर-प्रधानतया स्वर-शब्द-निर्दिष्टेन प्रणवाख्येन मन्त्रेण
यो महात्मा ध्यायति
स भगवत्-प्राप्ति-विरोधिभ्यः सर्वेभ्यः पापेभ्यो मुच्यत इति वाक्यशेषार्थः ।
स्वर-प्रधानतया स्वरत्वं चाम्नातं प्रणवस्य -
यद् वेदादौ स्वरः प्रोक्तो
वेदान्ते च प्रतिष्ठितः
इति । एकायनब्राह्मणे च -
ओङ्कारः स्वरः
मकारो व्यञ्जनं
यः स्वरस् सा प्रकृतिः
इति स्वर-प्राधान्यम् एवोक्तम् ॥
अयम् अत्र विध्य्-अर्थः -
सर्व-पाप-प्रमोक्ष-काम ऊर्ध्व-पुण्ड्र-चक्रादि-धारी
प्रणवेन प्रतिपादकेन विष्णुं ध्यायेद्
इति ।
“यो महात्मा स ध्यायेद्” इत्य् अनध्याहारेण वा योजना;
“यो ध्यायति स महात्मा भवेद्” इति वा वचन-व्यक्तिः ॥
प्र ते
तथा ऋचि -
प्र ते विष्णो अब्-ज–चक्रे पवित्रे
(जन्माम्भो-धिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोर् दधते ऽन्ये पुराणाः
लिङ्गान्य् अङ्गे तावकान्य् अर्पयन्ति ॥)
इत्यादि । स्तवप्रियं स्तव्यं भगवन्तं तुष्टूषन्नभिमुखयति - विष्णो
इति ।
त इति निर्देशेनानिष्टनिवर्तकत्वेष्टप्रापकत्वाद्यपेक्षितसकलाकारयोगित्वमभिप्रेतम् । अनिष्टनिवृत्त्याद्यर्थं हि कस्यचिल्लाञ्छन
धारणम् । अत्राब्जशब्देन शङ्ख उच्यते; भगवच्चिह्नत्वेन प्रसिद्धेः, श्रुत्यन्तरैकाथ्यार्नुसारादज्जलजादिशब्दानां
शङ्खेऽपि रूढत्वाच्च । पद्मपरत्वेऽपि न दोषः, चक्रादिवत्पद्मस्यापि तच्चिह्नत्वेन धार्यत्वानुशासनात् । तच्च -
भवेयुः
सर्वदा तस्माच्छङ्खचक्रगदाम्बुजैरित्यादिषु वक्ष्यते । पवित्रे इत्यनेन धर्मान्तरवदस्यापि ध्यानविरोधिरजस्तमोवृद्धिहेतुभूत-
पापनिबर्हणद्वारोपकारकत्वमिति ज्ञापितम् । निरुक्तश्चायं पवित्रशब्दः एकायनीये पवित्रमिति पुनः कस्य वक्ता, पुनाति
च त्रायते चेत्यतः पवित्रमिति । उपपद्यते च भगवत इव तत्संबन्धिनोरपि तयोः पवित्रत्वम् । ध्यानाङ्गत्वेन श्रुत्यन्तरसिद्धे
तस्मिन् ध्यानफलभूतसंसारतारणाख्यफलनिर्देशश्च नानुपपन्नः । तर्तवे - तर्तुमित्यर्थः । चर्षणीन्द्राः - ज्ञानवन्तः प्रकाशवन्तो
वा विचक्षणाग्रेसरा योगिवर्या इत्यर्थः । प्रशब्दस्य दधत इत्यनेन वा तर्तव इत्यनेन वाऽन्वयः, व्यवहिताश्चेत्यनु
शासनात् । धारणे प्रकर्षश्च लाञ्छनत्वेन शरीरावियुक्ततया सार्वकालिकत्वम् । प्रकर्षेण तरणं चापुनरावृत्तिलक्षणमात्यन्ति
कत्वम् । एवं शङ्खचक्रे केचिद्धारयन्ति । अन्ये पुनः परिपूर्णानुष्ठायिनो धर्मप्रवर्तकाः पुरातनाः परमर्षयः
पञ्चाप्यायुधरूपाणि तावकानि लिङ्गानि पञ्चस्वपि भुजशिखरयुगलललाटमूर्धहृदाख्येषु स्वावयवेषु धारयन्तीत्याह - अन्ये
पुराणा
इति ।
स्मृतेश्चायमर्थो व्यक्तीभविष्यति । एवं शिष्टाचारप्रदर्शनद्वाराऽवश्यकर्तव्यत्वविधावस्य मन्त्रस्य तात्पर्यम् ।
जन्माम्भोधि-तरणकामो विष्णुलिङ्गानि चक्रादीनि भुजमूलादिषु स्थानेषु बिभृयादिति विध्यर्थः ॥
निचिक्षेपे
तथा यजुषि -
निचिक्षेप सुषणं (भिद्यमानं
मध्ये बाहुम् अदधत् सुदर्शनम् ।
विष्णोर् इदं भूरि-दं भूरि-तेजः
प्रधर्षति दिवा नक्तं बिभृयुस् तज् जनासः ॥ )
इत्यादि । अस्यायमर्थः - मध्येबाहुं - बाह्वोर्मध्ये ।
पारे
मध्ये षष्ठ्या
वेति समासः । तत्र छान्दसो बाहुमिति निर्देशः । बाहुमिति व्यस्तं पदं वा; षष्ठ्यर्थे द्वितीया; सुप्तिङादेश्छन्दसि
व्यत्ययस्यानुशिष्टत्वात् । अत्र श्रुत्यन्तरसिद्धभुजशिखरमध्यविवक्षैवेत्येके; अन्ये तु वक्षस्येव बाहुमध्यत्वप्रसिद्धिप्रकर्षात्तदर्थपरत्वे च द्वयोरपि विकल्पतस्समुच्चयतो वा सुदर्शनधारणस्थानत्वे विरोधाभावात्, तथा च कैश्चिन्महात्मभिरनुष्ठानदर्शनात्, बाहुमध्यशब्देन वक्ष एव व्यपदिश्यत इत्याहुः । यः प्राचीनोऽनुष्ठाता बाहुमध्ये विष्णोरिदं - विष्णोरसाधारणचिह्नमिदं
भूरितेजः - प्रभूततेजोविशिष्टं सुदर्शनमदधत् - दधार । दध धारणे इति धातौ लङन्तं पदम् । स हि प्राक्तनोऽनुष्ठाता
भिद्यमानं सुषणं निचिक्षेप - सु-संभक्तं-व्यक्तं बाधमानं पापादिकं निरस्तवानित्यर्थः । अथवा यो बाहुमध्ये दधाति स हि
निक्षिपेदिति वाक्यार्थः; छन्दसि लुड्लङ्लिटः इति लिङर्थेऽपि लुङादिविधानात् । अथवा प्राचीनोऽनुष्ठाता परायुधै
र्भिद्यमानं सुषणं - सुसहनीयमायुधविशेषं निचिक्षेप - परित्यक्तवान्; तैरप्रतिहन्यमानं सुदर्शनं बाहुमध्येऽदधत् - परिगृहीत
वानित्यर्थः । रक्षणासमर्थं परित्यज्य रक्षणसमर्थं गृहीतवानित्युक्तं भवति । किं च स एव सुदर्शनधारी, धृतं वा सुदर्शनं
दिवानक्तं प्रधर्षति । प्रधर्षणधात्वर्थसामर्थ्यात्प्रतिभटान् बाह्याभ्यन्तरानित्यध्याहरणीयम् । यद्वा यद्दिवानक्तं भूरितेजस्त्वात्परान् प्रधर्षति तत्सुदर्शनमित्यन्वयः । तेजस्त्वमनन्यापेक्षता वा पराभिभवनसामर्थ्यं वा; यद्वा विग्रहगतं तेजो वा
विवक्षितम् । ततश्च सुदर्शनत्ववद्दुर्दर्शनत्वं चास्यास्तीति ज्ञापितम् । उक्तं च श्रीपौष्करे चक्राब्जाध्याये चक्रस्वरूपकथने
भगवतैव - ब्रह्यरुद्रेन्द्रदेवानामस्य रश्मिचयश्च यः । अपहृल्लोचनानां वै सुदूराग्च्च निरीक्षणात् ॥
तेनेदं भुवि विख्यातं नाम्ना दुर्दर्शनं द्विज । प्रणतानां च भक्तानां यस्माच्च सुलभं सदा ॥
ददाति दर्शनं तेषां स्मृतं तस्मात्सुदर्शनम् ।
इति ।
उक्तं चाहिर्बुध्न्येन
-स्वतेजसा जगत्सर्वं पूरयन्तं महाबलम् । उद्यत्प्रद्योतनशतप्रभाविख्यातपौरुषम् ॥ इत्यादि ।
एवं श्रीविष्णुधर्मे -
सहस्रमिव सूर्याणामित्यादिकमपि भाव्यम् । एवं सुदर्शनधारणस्य विरोधिनिरसनौपयिकत्वात्तदपेक्षिणस्तद्धारयेयुः; अन्ये तु जननभागिनस्संसरन्तीत्यभिप्रायेणाह -
बिभृयुस्तज्जनासः
इति । जनासः - जनाः,
आज्जसेरसुक् इति छान्दसोऽसुक् । दिवानक्तं विभृयुरिति वाऽन्वयः । अङ्कनरूपत्वादविभक्तं सदा वहेयुरित्युक्तं भवति ।
स्वमुद्रालङ्कतश्चापि यस्सदा चक्रधृच्चरेत् । स देशिको निबोद्धव्यः सर्वैस्सामयिकादिकैः ॥
इति श्रीसात्त्वतवचनमप्येतद्विषयम् । तत्तदिष्टप्राप्तितत्तदनिष्टनिवृत्तिकामस्सदा सुदर्शनं विभृयादित्यर्थः ।
चमू-षद्
तथा ऋक्सामपठितं वाक्यम् -
चमू-षच् छ्येनश् (शकुनो बिभृत्वा
गोविन्दुर् द्रप्स आयुधानि बिभ्रत् ।
अपाम् ऊर्मिं सचमानस् समुद्रं
तुरीयं धाम महिषो विवक्ति ॥)
इत्यादि । अस्यार्थः - द्रप्सः - भगवद्विभूत्येकदेशभूतः, श्येनः -
श्येनजातीयः, शकुनः - पक्षी वैनतेय इत्यर्थः । वैनतेयस्य कर्माधीनपदलाभत्वकथनं कर्मवश्यत्वाभिनयकृतम् । यद्वा
अन्योऽत्र श्येनजातीयः पक्षी विवक्षितः । गां विन्दतीति गोविन्दः, गोशब्देन महीवाक्प्रभृतयो विवक्षिताः;
गवा
दिषु विन्देः संज्ञायामिति शः । छान्दसत्वात्तृज्वद्भावः; ऋदन्तता वा । तस्यायुधानि बिभृत्वा अङ्कनरूपेण सार्वकालिकत्वलक्षणविशेषेण धारयित्वा । अत्र वक्ष्यमाणेषु केषुचित्स्वरो बाहुलकेन ग्राह्यः । बिभृत्वेति क्वन्नन्तं वेदं पदम्; चमूषदभूत् - भगवत्सेनाधुरन्धरोऽभूदित्यर्थः । यद्वा चमूशब्देन नित्यसूरिपरिषद्विवक्षिता, तत्र सीदति निषोदतीति चमूषत्,
नित्यसूरिपरिषन्मध्यवर्तीत्यर्थः । क्रियापेक्षायामभूदिति योग्यक्रियाध्याहारः । अत्रायुधानीति बहुत्वे प्रतीते कपिञ्जलन्यायेन
त्रित्वपरिग्रहौचित्येऽपि पञ्चानामायुधानामविशेषेण प्रसिद्धिप्रकर्षादुपबृंहणानुग्रहाच्च पञ्चेति व्यवस्थाप्यते । इदच सङ्ख्या
विशेषस्थापनम् लिङ्गान्यङ्ग इति पूर्वोदाहृतेऽपि भाव्यम् । एवम्, अपामूर्मिं समुद्रं सचमानः अन्योऽपि कश्चिद्भगव
च्छरीरतया तद्द्रप्सः तदंशभूतो जीवस्संसारोत्तितीर्षया भगवदीयानि पञ्चायुधानि बिभ्रत् तत एव महिषः तिरीयं धाम
महिषो विवक्तीत्यन्वयः । अप्छब्दोऽन्यभूतस्याप्युपलक्षणम् । पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति, अप एव
ससर्जादौ इत्यादिवच्छरीररूपेण परिणताचिद्द्रव्यस्येत्यर्थः । संबन्धसामान्ये षष्ठी । अपामूर्मिम् - अचिद्द्रव्यसंबन्धिनमूर्मिम्,
ऊर्मिशब्दाभिलक्ष्यमशनायादिषट्कम्, जन्मादिविकारजातं वा । एकवचनं समुदायाभिप्रायम् । समुद्रं - समुद्रिक्त
मित्यर्थः । यद्वा [अपामूर्मिं] समुद्रं - सागरम् । ऊर्मिमत्त्वादूर्मिरिति लक्षणयोच्यते । अचिद्द्रव्यसंबन्धिनमूर्मिमन्तं
संसारसागरमित्यर्थः । अथवा समुद्रमपामूर्मिं - समुद्रिक्तं गर्भोदकानां पुञ्जमित्यर्थः । सचमानः; षच समवाये इति
धातुः, अनुप्रविशन्, तन्मध्ये निमज्जन्नित्यर्थः । एतेन दुःखमयसंसारसागरनिमग्नत्वात्तदुत्तितीर्षायोगित्वमप्यस्तीति
फलितम् । महिषः - मह पूजायामिति धातोः अविमह्योष्टिषजिति टिषच्; पूजित इत्यर्थः ।
यथा राजचिह्नधारी राज्ञा जगता च पूज्यते तद्वदयमपि भगवता देवमनुष्यादिभिः नित्यसूरिभिश्च पूज्यत इति भावः
। महत्पर्यायश्च महिषशब्दः पठितः । तुरीयं - चतुर्थं, धाम - तेजः; व्यूहत्रयाज्जाग्रदादिपदत्रयात् परं वासुदेवसंज्ञं तेज इत्यर्थः । यद्वा धामशब्दः
स्थानपरः; तेन मुक्तप्राप्यं परमपदं विवक्षितम् । तुर्यं कर्मवश्यानां प्राप्यात्स्थानत्रयाद्विलक्षणत्वेन सर्वस्मात्परमित्यर्थः ।
सर्वमपि सांसारिकं भोगस्थानमुदाहृत्य एते वै निरयास्तात स्थानस्य परमात्मनः इति मोक्षधर्भेऽभिहितम् । विवक्ति -
स्तुत्या सेवते । धातूनामनेकार्थत्वादत्र योग्यार्थे तात्पर्यं ग्राह्यम् । यद्वा गोविन्दस्यायुधानि बिभ्रत्तत एव चमूषदादिपद
सप्तकैर्निरुक्तविशेषावसितैर्गुणैर्विशिष्टस्तुरीयं धाम प्राप्नोतीत्येकवाक्यता । संसारनिवृत्तिपूर्वकतुरीयधामप्राप्तिकामो गोविन्
स्यायुधानि बिभृयादिति विध्यर्थः॥
एभिर्
एवमपि सर्वत्र धारणमात्रं प्रतीयते न त्वङ्कनमिति चेन्न;
एभिर्वयमुरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवेम । तद्विष्णोः परमं पदं ये गच्छन्तीह लाञ्छिताः ॥
इत्याथर्वणे व्यक्तमभिधानात् । उरुः प्रभूतः क्रमोऽधिष्ठानं यस्य स तथोक्तः; विश्वान्तर्यामीत्यर्थः । यद्वा त्रिविक्रमा
वतारकृतः पदविक्षेप एव क्रमशब्देन विवक्षितः । पद्यत इति पदं प्राप्यं स्थानमिह विवक्षितम् । नास्य स्वरूपार्थत्वं,
वैयधिकरण्यसिद्धभेदे बाधकाभावात्, स्थानविशेषस्यापि प्राप्यत्वे बहुश्रुतिसद्भावाच्च । परो मा अस्मादिति परमम् ।
तदिति स्वरूपविभवादिभिः प्रसिद्धवैलक्षण्याभिप्रायम् । तदयमन्वयार्थः - ये यादृशास्तादृशा अपि उरुक्रमस्य चिह्नैर्लाच्छितास्ते तद्विष्णोः परमं पदं गच्छन्ति । अतो वयमप्युरुक्रमस्य [चक्रादि]चिह्नैरङ्कितास्तस्मिन्परमपदशब्दाभिधेये
भगवल्लोके भगवतोऽन्तरङ्गकिङ्करतया सुभगाः - वल्लभा भवेमेति । मुमुक्षूणामिदमनुसन्धानम्। लोकशब्दस्यैतल्लोकविषयत्वं
वा; अस्मिंल्लोके सद्भिरभिनन्दनीया भवेमेत्यर्थः । यद्वा सुभगाः - भगवत्समाश्रयणौपयिकभाग्यविशेषभाज इत्यर्थः ।
तदेवमङ्कनलाच्छनशब्दाभ्यां विशेषतो निर्देशात् भरणादिशब्दस्तत्र पर्यवसितः; सामान्यशब्दस्य समानप्रकरणोक्त
विशेषपर्यवसानस्य न्याय्यत्वात् । परमपदप्राप्तिसौभाग्यविशेषकाम उरुक्रमस्य भगवतश्चिह्नैरङ्कितो भवेदिति विध्यर्थः ॥
चक्रं बिभर्ति
नन्वत्रापि तप्तैश्चिहैरङ्कनं न प्रतीयते, मृत्तिकाचन्दनाद्यालिप्तैरङ्कनोपपत्तेः, तथा च कैश्चिदनुष्ठीयमानत्वादिति
चेन्न;
चक्रं बिभर्ति वपुषाऽभितप्तमित्याद्यृग्वेदखिलवचनवैरस्यात् । देवानां बलं - रक्षकमित्यर्थः । [अमितस्य-सर्वत्र
परिपूर्णस्य ।] विष्णोश्चक्रमित्यन्वयः । नाकम् - अकं - दुःखं, तद्रहितं परमपदम् । दुरिता विधूय - दुरितान्यवधूयेत्यर्थः ।
अत्र दुरितशब्देन सांसारिकपुण्यमपि संगृहीतम् । न सुकृतं न दुष्कृतमित्युक्त्वा - सर्वे पाप्मानोऽतो निवर्तन्ते इति
पाप्मशब्देनोपसंहारात्, मुक्तस्य च सुकृतदुष्कृते धूनुते, पुण्यपापे विधूय इति द्वयोरपि निवृत्तिश्रुतेः; अत्र
प्रयान्ति यद्यतयो वीतरागाः इति मुक्तप्राप्यस्यैव प्रतीतेः । अत्र विधिस्तु सुगमः ॥
पवित्रम् इत्य् अग्निर्
नन्वेतदपि तप्तकाञ्चनादिनिर्मितसुदर्शनादिधारणे चरितार्थम् । यथोक्तं ज्यौतिषे बार्हस्पत्ये मुहूर्तविधाने -
जातस्य तु कुमारस्य धारयेत्पञ्चमे दिने । चक्रं कृत्वा सुवर्णेन षडरं मन्त्रसंयुतम् ॥
इति ।
संग्रहश्च -
जातस्य पञ्जमदिने शुभदे मुहूर्ते पञ्चायुधाभरणधारणमिष्टमाहुः ।
नाभिप्रदेशपरिलम्बिसुवर्णसूत्रप्रोतं शिशोर्ग्रहनिवारणकैश्च युक्तम् ॥
इति ।
कृतचक्रधारीति वचनान्तरमपि तथा सत्यनुगुणमिति चेन्न; नेमिना तप्ततनुर्ब्रह्मणस्सायुज्यं सलोकतामाप्नोतीति
सामोपनिषदैकार्थ्यात् कृतचक्रधारीत्यत्रापि णिनेरवश्यंभावार्थत्वात् सदा धारणं प्रतीयते । तच्चाङ्कनरूपत्वेऽनुगुणम्;
काञ्चनादिनिर्मितस्याभरणान्तरवदेव सदातनत्वाभावप्रसङ्गात् । ततश्च कृतशब्देन स्मृतिसिद्धप्रतिष्ठार्चनादिसंस्कृतत्वं
विवक्षितम् । ब्रह्मणः सायुज्यमिति; सायुज्यं समानभोगादियुक्तत्वम्, परमं साम्यमुपैतीति श्रुतेः, मम साधर्म्य
मागताः, सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति चेति स्मृतेश्च । सूत्रं च - भोगमात्रसाम्यलिङ्गाच्चेति । सालोक्यादि
त्रयस्यापि ब्रह्मसायुज्यान्तर्भूतत्वज्ञापनायात्र सालोक्याभिधानम्; देवतान्तरप्राप्तौ हि सालोक्यादिभेदावाप्तिः । यद्वा
भगवत्प्राप्तावपि श्रीविष्णुलोकादिषु द्वार[पाला]कादिष्विव तथाविधभेदोऽस्तीति तदपेक्षिणां प्राप्तिभेदद्योतनाय पृथङ्
निर्देशः । यथाहुः -
लोकेषु विष्णोर्निवसन्ति केचित्समीपमृच्छन्ति च केचिदन्ये ।
अन्ये तु रूपं सदृशं भजन्ते सायुज्यमन्ये स तु मोक्ष उक्तः ॥
इति । यथाभिलषितं ब्रह्मसायुज्यादिप्राप्तिकामः चक्रेण तप्ततनुर्भवेदित्युक्तं भवति । नेमिना तप्ततनुरित्यत्र चक्रधारणं
न प्रतीयते इति चेन्न; नेमिशब्देन नेन्यवयवकस्य चक्रस्य लक्ष्यमाणत्वात् ।
पवित्रमित्यग्निः अग्निर्वै सहस्रारः
सहस्रारो नेमिः इति तत्पूर्ववाक्यानुरोधाच्च । चक्रपर्यायश्च नेमिशब्दो माधवार्येण नामानुक्रमण्यामुक्तः - चक्रं
चारिः पविर्नेमिः पृथक्चक्रस्य वाचकाः
इति । एवं पविशब्दस्यात्र चक्रपर्यायत्वेन पठनात्
रथचक्रस्य धारायां वज्रे
च पविरीरितः इति वेदनिघण्ट्वन्तरपठितः पविशब्दः शब्दान्तरम्; लाक्षणिको वा क्वचित्प्रयोगः । उपक्रमगतोऽर्थान्तर
प्रसिद्धोऽग्निशब्दस्तत्र कथमिति चेत्; सौदर्शनस्य धाम्नः सोमसूर्यदहनप्रभोज्जलं चक्रमेतदुदितं महामुने इत्याद्यहिर्बुध्न्यवचनैस्तेजस्त्रयीमयत्वश्रवणात् । यद्वा साक्षादप्यविरोधं जैमिनिः इति शारीरकसूत्रे प्रतिपादितेनाग्रनयनेन
तस्याग्नित्वम्; एवं च नैतृवाचिनेमिशब्दोऽप्यनुगुणः । अथवा नेमिना तप्ततनुरिति विधीयमानाङ्कनदशायामग्नि
तप्तत्वज्ञापनायाग्निशब्दः । अत्राग्निशब्दस्य प्रसिद्धाग्निमात्रपरत्वे अग्निर्वै सहस्रारः सहस्रारो नेमिरिति क्रमेणाग्निशब्दार्थविवरणं न घटते ।
पवित्रं ते
एवं पवित्रशब्दस्य सुदर्शनपरत्वश्रुतेः
पवित्रं ते विततम्, चरणं पवित्रम्, लोकस्य द्वारमर्चिमत्
इत्यादिष्वपि सुदर्शनपरत्वं व्याचख्युः । पवित्रं ते विततमित्यत्र पवित्रशब्दः निखिललोकरक्षादीक्षितस्य भगवतस्सुदर्शनस्य
संज्ञा विज्ञायते । श्रुतिरेव हि पवित्रसंज्ञा सुदर्शनस्य नामेति स्वयमेव स्पष्टीकरोति । तद्यथा - पवित्रमित्यग्निरित्यादि । पावयितृत्वात्त्रातृत्वाच्च पवित्रमिति । पवित्रशब्दश्च रथनेमिविषयतया यास्केन नैगमे काण्डे निरुक्तः; यथा - पविः
रथनेमिर्भवति पुनाति भूमिमिति । तत्र श्रुतिश्च तेनैवोदाहृता - उत पविर्या रथानामष्टिं भिन्दन्नोजसा इति ॥
एकायनब्राह्मणनिरुक्तिश्च पूर्वं प्रदर्शिता । तदयमस्यार्थः - ब्रह्मणस्पते इत्यनेन समानत्वात्पवित्रं विततमित्युभय
मपि संबुद्ध्यन्तम् । ते इति तृतीयार्थे षष्ठी । वितत, पवित्र, ब्रह्मणस्पते, त्वयाऽतप्ततनूरिति संबन्धः; प्रभुरिति षष्ठ्यर्थे
प्रथमा । प्रभोः सर्वेश्वरस्य गात्राणि विश्वतः - विश्वानि, पर्येषि - परिवारयसित्युक्तं भवति । यद्वा प्रभुस्त्वं विश्वेषामाश्रि
तानां गात्राणि पर्येषीत्यर्थः । एवं सुदर्शनसंबोधनेन कैश्चिद्व्याख्यातम् । व्याख्यानान्तरमपि - चक्रशरीरिणं केवलं वा
भगवन्तं नारायणं वेदवैदिकानां गोप्तारं ब्रह्मणस्पते इति संबोधयन्नाह - पवित्रं ते विततमिति । तवायुधत्वलाञ्छन
त्वाभरणत्वैः शेषभूतं परमपावनं सुदर्शनं विततमित्यर्थः । विततं - विस्तृतं, प्रमाणेषु प्रमातृषु भुवनेषु वा । विश्वतः -
सार्वविभक्तिकस्तसिः; विश्वस्येत्यर्थः ।
विश्वस्य प्रभुस्त्वं तव गात्रभूतानि चेतनाचेतनात्मकानि सर्वाणि तत्त्वानि पर्येषि - परितो गच्छसि, व्याप्नोषीत्यर्थः ।
विश्वतः इति विश्वानिति वाऽर्थः । गात्रशब्देनोपासकानां वा गात्राणि विव
क्षितानि । ततश्च प्रभुस्त्वं शेषमूतानामस्माकं गात्राणि तेन विततेन लाञ्छनभूतेन शरीरभूतेन च पवित्रेण पर्येषि,
लाञ्छितानि कृत्वा स्वीकरोषीत्युक्तं भवति । तेन पवित्रेणाग्नितप्तेन अतप्ततनूः - अदग्धगात्र इत्यर्थः । तत एव अयमामः -
अपक्वकषाय इत्यर्थः । तदिति ब्रह्मोच्यते; यत्तत्पदमनुतमम्, तदिति वा तस्य महतो भूतस्य नाम भवति
इत्यादिदर्शनात् । ऋग्वेदे - तत् आमः इति पदभेदाध्ययनादन्यत्रापि तथैवाङ्गीकर्तुमुचितम् । यो भवतश्चक्रेणा
लाच्छितः स त्वां न प्राप्नोतीत्युक्तं भवति । ये पुनः शृतासः - श्रिताः, पक्वा इत्यर्थः । तेन
कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ॥
इत्याद्युक्तं विवक्षितम् । इदित्यवधारणे । ये सुदर्शनं वहन्तः परिपक्वज्ञानाः, त एव तत्समासत - परब्रह्मभूतं त्वां
संप्राप्नुयुरित्यर्थः ॥
पवित्रशब्दस्य सुदर्शनपर्यायत्वं न केवलं श्रुतिसिद्धम्; अपि तु नैघण्टुकैरप्युक्तम् । तथा हि पञ्चायुधानां प्रस्तावे
सुदर्शनमरं चक्रं पवित्रं चरणं हरेः । शङ्खो जन्यो भवः पाण्डुः पाञ्चचन्यः परावरः ॥
इति ।
चरणं पवित्रं
काठके -
चरणं पवित्रं विततं पुराणं – दधातु
इति । अस्यार्थः -
चरणं प्राङ्कणे चक्रे इति नैघण्टुकाः ।
श्रीशास्त्रे च- पवित्र चरणं चक्रं लोकद्वार सुदर्शनम् । पर्यायवाचका ह्येते चक्रस्य परमात्मनः ॥
इति ।
एवं पवित्रचरणशब्दयोश्चक्रवाचकत्वेऽपि तत्तन्निर्वचनसिद्धार्थप्रतिपादनपरत्वादत्र न पौनरुक्त्यशङ्का । पवित्रशब्दार्थः
प्रागेवोक्तः । चरणशब्दश्चात्र रथचरणाकारत्वात्परगतिसाधनत्वाद्वा । पुराणं - पुरातनम्, अनादीत्यर्थः । पुरातनत्वेऽपि
नवमिति च काचिन्निरुक्तिः । विश्वकर्मादिभिश्चक्रवत्पर्वतादिषु तन्निर्माणमिदानीन्तनशिल्पिभिश्चक्रादिनिर्माणवत् । तत्रापि
तत्तच्छक्त्यनुप्रवेशात्तत्तत्कार्यकरत्वोपपत्तिरिदानीन्तनचक्रयन्त्रादिवत् । येन पूतः - यदङ्कनेन संस्कृत इत्यर्थः, पूर्वोक्त्यैका
र्थ्यात् । तरति दुष्कृतानि - भगवत्समाराधनानर्हताहेतुभूतपापान्यतिलङ्घयतीत्यर्थः । यद्वा परम्परया सांसारिकं सर्वमपि
कर्मातिक्रामतीत्यर्थः । एतत्सर्वसाधारणमुक्तम्; तत्स्वस्मिन्नाशास्ते, तेनेति । शुद्धेन - नित्यास्पृष्टदोषेणेत्यर्थः । पूता इत्यादिकं
पूर्ववत् । अतितरेमेत्यन्वयः । लोकस्य द्वारं - भगवल्लोकप्राप्त्युपायभूतमित्यर्थः । यद्वा लोकस्य - जनस्य पुरुषार्थप्रास्युपाय
भूतमित्यर्थः । अर्चिर्ज्योतिर्महःशब्दैर्ज्वालाकिरणप्रकाशादिभेदस्य विवक्षितत्वान्न पौनरुक्त्यम् । भ्राजमानं - शोभमानम्;
तेन सुदर्शनत्वादिकं विवक्षितम् ।
अमृतस्य धारा बहुधा दोहमानमिति; समस्तजरामरणसन्तानोच्छेदकस्य नित्यस्य
परमपुरुषार्थस्यानुभवप्रकारादीन् पङ्गोरुपरि गङ्गानिपातवत्स्वयमेवायत्नलभ्यान् संपादयतीत्यर्थः । लोके - प्राप्तिदशायां
भगवल्लोके; यद्वा, अस्मिंल्लोके उपासनदशायाम् । सुधितान् - सुखितानित्यर्थः । सुप्रतिष्ठितान् दधात्विति तदपेक्षिता
शासनं वा । विनियोगान्तरानुरूपमर्थान्तरमर्थान्तराविरुद्धमिति प्रागेवोक्तम् । एवं वाक्यान्तराण्यपि भाव्यानि ।
तदेवं प्रत्यक्षैः प्रत्यक्षवत्पठ्यमानैश्च श्रुतिवाक्यैर्विशदं प्रतिपन्नस्यार्थस्य विद्यमानैरप्युपबृंहणैर्नैवापेक्षा । अतः कल्पसूत्रकारैर्मन्वादिभिश्चास्मर्यमाणत्वचोद्यमपास्तम् । न च सर्वं सर्वैः स्मर्यते, तथा सत्यन्यनैरपेक्ष्यप्रसङ्गात् । कतिकति
कल्पसूत्रकारैर्मन्वादिभिश्चानुपात्ता इतिहासपुराणायुर्वेदधनुर्वेदगन्धर्ववेदार्थशास्त्र-रत्नशास्त्रशिल्पशास्त्रादिषु संगृह्यन्ते ।