०४ विनियोगान्वर्थता

बह्व्-अर्थताङ्गीकारः

यत्त्व्

आम्नातानां “पवित्रं ते” इत्य्-आदीनाम्
अन्यत्र विनियोगेनान्य-परत्वाद् अभिमतासिद्धिर्

इति, तद् अपि मन्दम्;
यथाऽन्यत्र विनियोगात्
तत्[-त]द्-अर्थ-परत्वम् अङ्गीक्रियते,
तथा भगवच्-छास्त्रे

तत्-तत्-स्थापन-काले तु
तत्-तत्-संज्ञान् मनून् जपेद्

इत्य् उपक्रमेण सौदर्शनत्वेनाभिधानात्,
सौदर्शने प्रतिष्ठा-स्नपनादौ विनियोगाच् छ्रूयमाणार्थानुगुण्याच्
तद्-अर्थ-परत्वम् अपि किं नेष्यते?
यद्य् एकार्थ-परत्वाद् एव तद्-अन्यार्थ-परत्वं निषिध्यते,
तर्हि सौदर्शन-विनियोगाधीन-तद्-अर्थ-परत्वाद् एव
तद्-अन्यार्थ-परत्वम् एव किं न निषिध्यते? +++(4)+++

न श्रौतार्थानिवार्यता

श्रौत-स्मार्त-विनियोगयोः परस्-पर-विरोधे
श्रौत-विनियोगानुसारेणार्थ-निर्णयः इत्य्-उक्तम्

इति चेत्;

विनियोगान्तर-त्याग-प्रसङ्गः

कुतोऽयं निष्कर्षः?

श्रुति-मूलायाः स्मृतेस्
तद्-विरोधेनोदेतुम् अशक्यत्वाद्

इति चेत्;
तर्हि स्मृत्या तेषां मन्त्राणां गौणोऽपि विनियोगो न स्यात्;
अर्थान्तरपरत्वाविशेषेण विरोधस्यावर्जनीयत्वात् ।
ह्य्
अभिधा-वृत्त्यैवार्थान्तर-परत्वे विरोधः,
वृत्त्य्-अन्तरेणार्थान्तर-परत्वे न विरोध इति नियामकम् अस्ति ।

अतः श्रुत्या स्मृत्या च
यत्र यत्र विनियोगः,
तत्रापि यत्र शब्द-शक्त्य्-अनुसाराद् बाधकाभावाच् च मुख्यतया निर्वाहश् शक्यः,
तत्रैकस्मिन्न् अनेकस्मिन् वा मुख्यत्वम् एवेति निर्वोढव्यम्

अविरोधः

कश् चात्र विरोधः?

एकस्यैव तत्-परत्वातत्परत्व-लक्षण

इति चेन् न,
गौणतया स्मार्त-विनियोगासिद्धि-प्रसङ्गस्योक्तत्वात्
श्रुताव् अपि -

ऐन्द्र्या र्गाहपत्यम् उपतिष्ठते

इति रूढि-परित्यागेन निर्वचन-मात्रानुसारिणो विनियोगस्य लोप-प्रसङ्गात् +++(=??)+++।

तद्-अभिधायित्वातद्-अभिधायित्व-लक्षणो विरोध

इति
चेत्, किम् अयमेकस्मिन्न् एव प्रयोगे?
उत प्रयोगभेदेऽपि?

नाद्यः, अनभ्युपगमात् ।
न द्वितीयः, प्रयोग-भेदाद् एव विरोध परिहारात्;
नाना-शक्तिशालिनः शब्दस्य
समभिव्याहृत–तत्-तत्-पदान्तरार्थानुसारेण तत्-तद्-उचितार्थाभिधायित्वात्;
अन्यथा अनेकार्थ-शब्दानां सर्वेषाम् अपि परित्याग-प्रसङ्गात् ।+++(4)+++

पाञ्चरात्रस्यैव प्राधान्यम्

अस्तु वा विरोधः
अस्तु च श्रुतिमूलायाः स्मृतेः श्रुत्यनुसरिता
तथाऽपि स्वाभाविक-समस्तार्थ-साक्षात्कारिणा
निरतिशय-कारुण्यादि-गुण-गणेन श्रुति-शिरश्-शेखरेण भगवता पुरुषोत्तमेन
विप्रकीर्णानन्त-दुर्-अवगाह–निखिल-निगमान्त-तत्त्वार्थ-विशदी-करणाय
प्रणीत–पञ्च-रात्र-शास्त्र-विनियोगानुसारेण श्रुतिर् अपि नेतव्या

न रूढिर् एव

हि श्रौतो विनियोगः सर्वो
रूढ्यैव मुख्यतयैवेति नियन्तुं शक्यम्;
ऐन्द्री-न्यायादि-विलोप-प्रसङ्गात् ।

पुराणादि-समर्थना

यश् चायम् अर्थो विनियोगानुसाराद्
अक्षरानुगुण्याच् चास्माभिर् उपवर्ण्यते
स न केवलम् उन्नयन-मात्र-प्रभवः,
अपि तु वक्ष्यमाण–स्फुटतरेतिहास-पुराणदि-वचन-संवादाद्
इति सर्वथा स-मूलत्वम् एव ।

अतस् सिद्धम् अन्यत्र विनियुक्तानाम् अपि
सौदर्शन-विनियोगात् तद्-अर्थ-परत्वम् ।