०३ खिलानाम् आश्वसनीयता

आक्षेपः

नन्व् अत्र खिलानाम् अनाश्वसनीयत्वाद्,
आम्नातानाम् अन्यत्र विनियोगेनान्यपरत्वात्,
स्मार्त-विनियोगस्य सतोऽपि श्रौत-विनियोगानुरोधेन नेयत्वाद्,
विनियुक्त-मन्त्राणां विधि-परत्वायोगाद्,
अ-विनियुक्तस्य खिलस्याखिलस्य च त्वयैवानभ्युपगमाच्
चाभिमतासिद्धिर्

इति चेत्; अतिमन्दमेतत् ।

खिलाश्वसनीयता

तथा हि - खिलानां तावत् किं खिलत्वमात्राद् अनाश्वसनीयत्वम्?
अथ तद्-विशेषत्वात्?

नाद्यः, यज्ञोपवीतादि-मन्त्राणाम् अप्य् अनाश्वास-पदत्व-प्रसङ्गात् ।+++(4)+++

न द्वितीयः, वैषम्यासिद्धेः ।

न श्रुति-निषेधः

न ह्य् अत्र प्रत्यक्ष-श्रुति-विरोध–तद्-अभाव-लक्षणं वैषम्यम् अस्ति,
“ब्राह्मणादिभिश् चक्रादिकं न धार्यम्” इति प्रतिपादयन्त्याः श्रुतेर् अदर्शनात् ।
तद्-दर्शनेऽपि प्रत्यक्ष–बहु-श्रुत्य्-अन्तर–तत्-सदृश-भगवच्-छास्त्र–महा-भारतादि-विरोधे सत्य्
अन्य-परतया निर्वाह्यत्वात् ।

न चात्र निषेध-संभवः,
चक्रादि-धारणस्य दुःखैक-रूपतयोपलभ्यमानस्य राग-प्राप्तत्वायोगेन निषेधाविषयत्वात् ।+++(4)+++

न विकल्पः

विधि-प्राप्तत्वे तु विधिर् एव परिपन्थी;
न ह्य् अत्र विकल्पो ऽपि संभवति,
एकस्मिन्न् एवाधिकारिणि दुःख–तद्–अ-भाव–रूपयोस् तद्-अयोगात्,
व्यवस्थापकस्यापि कॢप्तौ गौरवाद् अतिप्रसङ्गाच् च ।

न स्मृति-विरोधः

स्मृति–विरोध–तद्-अभावाभ्यां वैषम्यम्

इति चेत्;
स्मृत्य्-अन्तर-संगृहीत-श्रुति-विरुद्धायाः स्मृतेर् एवानुदयात्;
उदितायाश् च यथाकथञ्चिद् अ-विरोधेन नेयत्वात्;
अत्यन्त-विरोधे तु विरोधाधिकरण-न्यायेन परित्याज्यत्वात् ।+++(4)+++

न चात्यन्त-विरोधः,
सामान्यतो व्रण-करणादि-निषेधस्योत्सर्गापवाद-न्यायेन
समर्थयिष्यमाणैः श्रुति-स्मृतीतिहास–पञ्च-रात्रैर्
ऐक-कण्ठ्येन प्रतिपादितार्थ-व्यतिरिक्त-विषयत्वात्,
अन्यथाऽग्नीषोमीय-हिंसादेर् अपि
“न हिंस्याद्” इत्यादिना निषिद्धत्वेनाधर्मत्व-प्रसङ्गात् ।

प्रसिद्धिः

प्रसिद्धि-तद्-अभावाभ्यां वैषम्यम्

इति चेत्; केयं प्रसिद्धिः?
किम् अधीतत्वम् एव?
उत संप्रतिपन्नत्वम्?
किं वा खिलत्वेन श्रवण-परम्परागतत्वम्?
यद्वा सूत्रकारादिभिर् उपात्तत्वम्?

नाद्यः +++(अधीतत्वम् इति)+++, खिलत्व-विरोधात् ।

सम्प्रतिपन्नत्वम्

न द्वितीयः +++(संप्रतिपन्नत्वम् इति)+++, धार्ष्ट्यात् ।
त्वाम् इव विप्रतिपद्यमानं प्रति तद्-अ-सिद्धेः ।
“इतः पूर्वं तत्र विप्रतिपत्तिर् नास्ती"ति चेन् न,
अत्रापि पूर्वे[र्वोत्तरे]षु सत्त्वोत्तरेषु कालेषु
विप्रतिपत्ति-सद्भावे प्रमाणाभावात्;
इदानीम् अपि सात्त्विकानां विशिष्ट-देशादि-भाजाम् अपि प्रतिपन्नत्वात् ।

ये पुनः

हरिबाह्यास्तु बाह्लीकाः
न स्मरन्ति हरिं क्वचित्, बाह्लीकांस्तु निरीक्ष्य वै

इत्य्-आदि-महाभारतादि-वचन-प्रतिपन्न–तामस-देश-विशेष-वासिनः,
येऽपि सात्त्विकेष्व् अपि देशेषु
कलि-बल-विलसित-तमः-प्राया हरि-बाह्याः,
तेषां विप्रतिपत्तिर् न दोषाय;
अन्यथा विप्रतिपत्ति-मात्रेण
किञ्चित्-करत्वे संप्रति नाना-समय-सङ्कीर्ण-सङ्कुचित–निगम-धर्माश्रय-देशात्
समधिक-चतुर्-दश-गुण–सुगत-मत-साम्राज्य-देश-वासि-पुरुष-विमति-विहतत्वेन
वेद-मात्रस्यैव कण्ठ-गत-जीवितत्व-प्रसङ्गात्;+++(5)+++
इतः पूर्वं विप्रतिपत्त्य्–अ-भावाच् च ।

यद् अङ्गीकृतम् आयुष्मता
तद् अपि नूनम् इदं प्रथम-कल्पित-विमति-वश–गतानुगतिक-त्वद्-अधिक–कु-मति-शत-परम्पराभिस्
त्वत्-पुत्र-पौत्रेषु त्वम् इव
जलाञ्जलिं प्राप्स्यति ।+++(5)+++

खिलत्वम्

न च तृतीयः,
अननुष्ठातॄणाम्
अनु[ष्ठानेऽपि]तिष्ठताम् अपि पर-प्रत्यय-शरणानां च
तच्-छ्रवण-पारम्पर्य-नैरपेक्ष्येण
तेषु तद्–अ-भावस्याकिञ्चित्-करत्वात्,
अनुतिष्ठतां तु स्वयं बुभुत्सूनां तत्-पारम्पर्य-सिद्धेर् अवैषम्यात् ।

सूत्र-कार-निभ–पाञ्चरात्रिक-ग्रहणम्

चतुर्थस्तु परिशिष्यते।
तत्र किं सूत्र-कारादिभिर्
देवानां-प्रियेण रुचि-मात्र-परिगृहीतैः
पुरुष-विशेषैर् उपादानं विवक्षितम्?
उताविशेषेणाप्तैर् उपादानम्?

न प्रथमः, अप्रयोजकत्वात् ।
स-जातीय–जनान्तर-रुचि-परिगृहीत–पुरुषान्तरानुपात्तत्वेन
त्वद्-अभिमतस्यापि विलय-प्रसङ्गात् ॥

न द्वितीयः, अस्मद्-अभिमतेऽपि तत्-सद्भावेन वैषम्यासिद्धेः ।

चक्रादि-धारण-विषय-खिलानां
कैर् आप्तैर् उपादानम्

इति चेत्,
आप्ततम-पुरुषोत्तम-दयोदञ्चित–पञ्च-रात्र-संहिता-भेद-कथकैर् महर्षिभिः ।+++(4)+++

तस्य च शास्त्रस्य वेदाविरुद्ध-तत्त्वानुष्ठान-प्रतिपादकत्वात्,
क्वाचित्-कानुष्ठान-विरोधस्य प्रत्यक्षैकायन-श्रुति-संवादेन तत्-तच्छाखान्तर-प्रतिनियत-धर्मान्तरवद्-विकल्पतः परिहरणीयत्वात्,
जीवोत्पत्त्य्-आदि-वादस्य जीवाद्य्-अभिमानि-सङ्कर्षणाद्य्-अवतार-विषयत्वेन तत्रैव सिद्धत्वात्,
तस्मिन्नेव शास्त्रे -

व्याप्ति-रूपेण संबन्धस्
तस्याश् च पुरुषस्य च ।
स ह्य् अनादिर् अनन्तश् च
परमार्थेन निश्चितः ॥

इत्य्-आदिना जीव-नित्यत्वस्यैव स्थापनात्,

साङ्गेषु वेदेषु निष्ठाम् अलभमानश् शाण्डिल्यः
पञ्च-रात्र-शास्त्रम् अधीतवान्

इत्यादेः

न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते,
अपि तर्हि निन्दिताद् इतरत् प्रशंसितुम् +++(5)+++

इति न्यायेनानुदित-होम-निन्दावद् वा
ऽर्थानभिव्यक्ति-तात्पर्येण वा
भूम-विद्योपक्रम-गत–
तद्-इतर-समस्त-वेदाद्य्-अध्ययनात्म-वेदन-हेतुत्वाभाव-वचनवन् निर्वाहात्,

अलाभे वेद-मन्त्राणां पञ्चरात्रोदितेन वा

इति स्मृति-कारानुमतत्वात्,

महाभारते परश्-शतेषु प्रदेशेषु तत्-प्रामाण्यस्यात्यादेरण प्रपञ्चितत्वाच् च
प्रामाण्यं दुर्-अपह्नवम् ।

सूत्रितं च तेनैव निखिल-निगम-व्यसन-व्यसनिना
मति-मन्थान-निर्मथित-निगम-सिन्धु-समुदित–
महा-भारत–चन्द्र-चन्द्रिका-निकराशेष-मुषित-भुवन-भवनोदर-तिमिरेण
नारायणेन भगवता बादरायणेन -

उत्पत्त्य्-असंभवात्,
न च कर्तुः करणम्

इति सूत्रद्वयेन पूर्वपक्षम् उपक्षिप्य

विज्ञानादि-भावे वा तद्-अ-प्रतिषेधः,
विप्रतिषेधाच् च

इति सिद्धान्तकरणात् ।
भाष्यादिषु च विस्तरेणेदम् अनुसन्धेयम् ।

पारमेश्वर-संहिता

तत्र च शास्त्रे पारमेश्वर-संहितायां प्रतिष्ठाध्याये चक्र-प्रतिष्ठायाम् -

तत्-तत्-स्थापन-काले तु
तत्-तत्-संज्ञान् मनून् जपेत्
विद्याङ्गताम् इत्य्-आद्यं यत्
पाठयेत् तद्-विदो जनान् ॥

इति ।

चमूषच्छ्येन इति च प्र ते विष्णो इति तृचौ ।
पाठयेद् बह्व्-ऋचान् पश्चाच्
छाकुनं सूक्तम् एव च ॥

धृतोर्ध्वपुण्ड्रः कृतचक्रेति मन्त्रं ततः परम् । पवित्रं ते विततम् इत्य्-एतन्-मन्त्रं यजुर्मयान्

क्षुरोहरेति सामज्ञान्
पवित्रम् इत्य् अग्निर् इत्य् अपि ।
एभिर् वयम् उरुक्रमस्य
इत्य् आथर्वणान् द्विजान् ॥

एवं संस्थाप्य विधिवन्
नवभिः कलशैस् ततः ।
स्नापयेद् ब्रह्म-सूक्त-स्थैर्
मन्त्रैर् अष्टाभिर् एव च ॥

इति ।
अत्रादाव् एव

तत्-तत्-स्थापनकाले तु
तत्तत्संज्ञान्मनून् जपेद्

इति वचनाद्
एषां मुख्यतया संज्ञान्वयेन सुदर्शन-परत्वं ज्ञापितम् ।

तत्रैव स्नापयेद् इत्य्-अनुवृत्तौ -

धृतोर्ध्व-पुण्ड्र इति च
यातुधानी-गतेन वै । दक्षिणे तु भुजे विप्र
इति पश्चिम-गेन वै ॥
विष्णुनात्तम् अश्नन्तीति
वायोर् दिक्-संस्थितेन तु ॥

इति ।

अत्र “धृतोर्ध्वपुण्ड्रः”, “विष्णुनात्तम् अश्नन्ति” इत्य् उभाभ्याम्
ऊर्ध्व-पुण्ड्र-धारण–भगवन्-निवेदितान्न-पानाद्य्-उपयोगश् च सिद्धः । +++(4)+++
तत्-तत्-प्रकरणे च प्रपञ्चयिष्यामः
तत्रैव स्नापनाध्याये सहस्र-कलश-स्नपने -

पौरुषेण तु सूक्तेन
समस्तेन शनैश् शनैः ।
स्नापयेद् देव-देवेशं
मध्य-स्थ-नवकेन तु ॥

यद् वा

सर्वस्य वशिनम् इत्य्-आद्यैर् मनुभिः क्रमात् ।
महोपनिषद्-अन्त-स्थैर् दिक्-स्थितैः कलशाष्टकैः ॥
एक एव नारायणः इति मध्य-गतेन तु ॥

इति ।

अत्र ब्रह्म-सूक्तम् इति महोपनिषन्-मध्य-गताः सहस्र-शीर्षेत्याद्या एकोनविंशति-मन्त्राः;
[तत उ] तत्रोपरितनाष्टौ मन्त्राः
“सर्वस्य वशिनम्” इत्य्-आद्याः ।
तत्र “दक्षिणे तु भुजे विप्रः” इति पञ्चमो मन्त्रः ।
“एक एव नारायणः” इति महोपनिषद्-आद्यो मन्त्रः ।

सुदर्शन-वाच्यता

अत्र नारायण-पराणाम् अपि पुरुष-सूक्त-महोपनिषद्-आदीनां
सौदर्शनेष्व् अपि कर्मसु विनियोगः
सु-दर्शनस्यापि सङ्कर्षणादिवद् वासुदेवात्मकत्वस्य
तस्मिन्न् एव शास्त्रे
अहिर्-बुध्न्य-संहितायाम् ऐदम्-पर्येण प्रतिपादनाद् उपपन्नः
वासिष्ठ-संहितायां चोक्तम् -

न हेतिर्, नाङ्गकमयं,
परमात्मेति नः श्रुतम्

इत्य्-आदि ।
तन्त्रान्तरानुसारिभिश् चोक्तम्

चक्राभिधानो हरिर्

इति । एवं स्थिते
“परम-व्योम-निलयो भगवन्-नित्य-किङ्करः” इत्य्-आदीनाम् अहिर्-बुध्न्य-संहितादि-गतानाम् एव विरोध-परिहाराय
क्वचित् सुदर्शनादि-शब्दानां भगवच्-छरीर-भूत-जीव-विशेष-क्रोडी-कारेणं भगवति वृत्तिर् अङ्गीक्रियते

यथा प्रतर्दन-विद्यायां
प्रसिद्धेन्द्र-लिङ्ग-भूत-त्वाष्ट्र-वधाद्य्–अ-साधारण-विशेषणोपादान-वशेन
प्रसिद्धेन्द्र-शरीरकः परमात्मोपास्य
इति निर्णीयते, तद्वद् अत्रापि ।

एवं च सति विशेष्याभिप्रायेण, विशिष्टोपास्याभिप्रायेण वा

न हेतिर् नाङ्गकम् अयम्

इत्य्-आदिकम् उक्तम्;
विशेषणांशमात्राभिप्रायेण प्रकरणान्तरे

भगवन्-नित्य-किङ्करः

इत्य्-आदिकम् उक्तम् इत्य् अलम् अतिप्रसङ्गेन ।

उत्सवाध्याये

तत्रैव पारमेश्वरसंहितायाम् उत्सवाध्याये दमनकोत्सव-स्नपने

कं धृतो वै

इति । तत्रैव रक्षार्थे चूर्णलपने –

दक्षिणे तु भुजे विप्रः
इति प्राक्-संस्थितेन तु ।
निचिक्षेप सुषणम् इति वह्नि-गतेन तु ॥ प्रते विष्णो अब्-ज–चक्रे
इति याम्य-गतेन तु ।
एभिर् वयमुरु-क्रमस्येति यातुधान-गतेन तु ॥ धृतोर्ध्वपुण्ड्रः कृत-चक्रेति पश्चिम-गतेन तु ।
पवित्रमित्यग्निरिति ततो वायुगतेन तु ॥
चरणं पवित्रं विततम् इति सोम–गतेन तु ।
लोकस्य द्वारम् अर्चिमद् इति रुद्र-गतेन तु ॥
मन्त्रैर् एतैस् तु चाष्टाभिर्
अन्यैस् सौदर्शनैस् तथा ।
संस्थाप्य मध्यकुम्भेन
शुद्धोदैर् अभिषिच्य च ॥

एवम् एकस्याम् एव संहितायाम्
अनेकेष्व् अध्यायेषु सौदर्शनतया विनियोगो दृष्टः ।

विष्णु-तत्त्वम्

तथा बह्वीष्व् अपि संहितासु तेषां विनियोगो दृश्यते ।
तथा हि - विष्णु-तत्त्वे चर्यापादे षष्ठे पटले -

दिव्यान्तरिक्ष-भौमानाम्
उत्पातानां प्रशान्तये।
प्रत्यृचं जुहुयाद् आज्यं
पुंसूक्तेन शतं शतम् ॥

सर्वस्य वशिनेत्याद्यैश्
चतुर्भिश् च शतं दधि ।

दक्षिणे तु भुजेत्य्-आद्यैश्
चतुर्भिश् चापि तण्डुलैः ॥

इति ।

कालोत्तर-संहिता

कालोत्तर-संहितायां सुदर्शन-समाराधनाध्याये -

एवं प्रासाद-शिखरे
चक्रं संस्थापयेद् बुधः ।
द्वादशारम् अथाष्टारं
षडरं वा महामते ॥
संस्थाप्य विधिवत् प्राग्वत्
पश्चात्-कुम्भैर् द्वादशभिः क्रमात् ।

दक्षिणे तु भुजे विप्र
इति क्षीरेण सेचयेत् ॥

निचिक्षेप सुषणमिति
दध्ना स्नापयेत् ततः ।

प्रते विष्णो इत्यनेन
घृतेन ह्यभिषेचयेत् ॥

एभिर् वयम् उरुक्रमस्य
मधुना स्नापयेद् बुधः

धृतोर्ध्वपुण्ड्रः कृतचक्रेत्य्
ऐक्षवेण रसेन तु ॥

पवित्रम् इत्य् अग्निर् इति
पञ्चगव्येन सेचयेत् ॥

इति ।

श्रीविष्णुमन्दिरम्

श्रीविष्णुमन्दिरे –

प्रत्यङ्गिरं शिखाशीर्षं
ब्रह्मसूक्तं तथैव च ।
वैष्णवं पौरुषं चैवम्
अन्यान् मङ्गलवाचकान् ॥

इति ।
तथा -

सूक्तं तु परमात्माख्यं
वैष्णवं सूक्तमेव च ।
अध्यापयेत् पौरुषं च
ध्रुवा द्यौरिति वाचयेत् ॥

इति ।

अत्रापि ब्रह्म-सूक्त–परमात्म-सूक्त-शब्दाभ्यां
महोपनिषत्-पठितम् एकोन-विंशति-मन्त्रात्मकं ब्रह्म-सूक्तमेव परिगृहीतम्,
शब्दतो ऽर्थतश्च प्रत्यभिज्ञानात् ।

आनन्दाख्यसंहिता

आनन्दाख्यसंहितायां प्रतिष्ठाध्याये -

मत्-षड्-अक्षर-मन्त्रेण
गोघृतेनैव देशिकः ।
पुरुषाध्यात्म-सूक्तैश् च
महोपनिषदं तथा ॥
श्रीसूक्तं तु जपंस् तत्र
रात्रिशेषं नयेद् बुधः ।

इति ।

अत्र श्रीसूक्तस्य जप-विधिर्
मङ्गलतमत्वात्,
भगवत्-पत्नीत्वेन भगवत्-सह-धर्म-चारिणी-विषयत्वात्,
परमात्म-देवताकत्वस्य कैश्चिद् अनुस्मृतत्वाच् च ।

श्रीविष्णुतन्त्रम्

तथा श्रीविष्णुतन्त्रे चतुःपञ्चाशत्तमेऽध्याये -

पुरुषाध्यात्मसूक्तं च महोपनिषदं तथा

इति ।

उपसंहारः

एवम् आप्त-प्रणीत-भगवच्-छास्त्र-विनियोगात्
कल्प-कार-विनियुक्त–यज्ञोपवीतादि-मन्त्राणाम् इव
खिलानाम् अपि श्रुतित्वम् असंदिग्धम्
एतेन महोपनिषदः कैश्चिद् अनुदाहृतत्व-चोद्यम् अपास्तम् ।

वेदान्ति-ग्रहणम्

कति कति दृश्यन्ते भाष्यकारादिभिर् अनुपात्ता उपनिषदः ।
न केवलं भगवद्-रामानुज-मुनिभिर् एव महोपनिषद् उपात्ता,
अपि तु तत्-परमाचार्यैर् भगवद्-यामुन-मुनिभिर् अपि
पुरुष-निर्णये समुपात्ता
चैवम् एक-सिद्धान्त-निष्ठैर् एव अभियुक्तैः तद्-उपादानम्,
अपि तु तद्-विरुद्ध–सन्-मात्र–ब्रह्म–भेदाभेद-निष्णातैर् यादव-प्रकाशैर् अपि
भगवद्-गीता-भाष्ये ऽष्टमेऽध्याये;
तथा तन्-मतानुसारिभिर् नारायणाचार्यैर् अपि
तत्त्व-निर्णये श्रुति-तात्पर्य-निर्णयाधिकारे
सोपबृंहण-नाना-विध-श्रुति-शिखर-निकरोदाहरणावसरे महोपनिषदाद्यान् -

एक एव नारायणः

इत्य्-आदिकांश् चतुरो मन्त्रान् उदाहृत्य,

एषा चोपनिषत्

एतौ द्वौ विबुधश्रेष्ठौ
प्रसादक्रोधजौ स्मृतौ ।
तदादर्शित-पन्थानौ
सृष्टि-संहार-कारकौ ॥

इत्य्-आदिभिर् इतिहासैः,

तत्-क्रोध-संभवो रुद्रः
प्रसादाच्च पितामहः,

यस्य प्रसाद-जो ब्रह्मा
रुद्रश्च क्रोधसंभवः

इत्य्-आदिभिः पुराणैश् चोपबृंहितेत्य् उक्तम् ।

एवं खिलानाम् अनाश्वसनीयत्वाद् इति जल्पितं प्रत्युक्तम्