०२ सिद्धान्तः

आक्षेपो दुर्मूलः

तद् एतत् प्रशिथिल-पठित–कतिपय-निगम-वचसाम्
अ-श्रुत–समीचीन-न्याय-निबन्धनानां

पतिं विश्वस्य,

दास-भूतास् स्वतस् सर्वे

इत्य्-आदि-प्रमाण-विशेषावगत–
स्वाभाविक-भगवद्-दास्य-भय-पलायमान-मनसाम्
अन्तिम-युग-तत्त्व-चिन्तकानां कूपोदर-संभव-कूर्म-समानानाम् अभिमान-विजृम्भितम् । +++(5)+++

चोदना

तथा हि - सत्यम् चोदना-लक्षणोऽर्थो धर्मः ।
विद्यते च चक्रादिधारणे चोदना,
तत्-कल्पश् च -

श्रुत्या स्मृत्या पुराणेन
सेतिहासेन गम्यते ।
पञ्चरात्रेण विप्राणां
तप्त-चक्रादि-धारणम्॥

यथाऽऽथर्वण-महोपनिषदि ब्रह्म-सूक्ते -

दक्षिणे तु भुजे विप्रो
बिभृयाद् वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयाद्
इति ब्रह्म-विदो विदुः

यजुषि कठशाखायाम् -

धृतोर्ध्व-पुण्ड्रः कृत-चक्र-धारी
विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण+++(→ॐ)+++ मन्त्रेण सदा हृदि स्थितं
परात् परं यन् महतो महान्तम् ॥

इति ।
ऋचि बाष्कल-संहितायाम् -

प्र ते विष्णो अब्-ज–चक्रे पवित्रे
जन्माम्भो-धिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोर् दधते ऽन्ये पुराणाः
लिङ्गान्य् अङ्गे तावकान्य् अर्पयन्ति

इति ।
यजुषि, बृहदारण्यक-भेदे, अथर्वणि, सुदर्शनोपनिषदि च -

निचिक्षेप सुषणं भिद्यमानं
मध्ये बाहुम् अदधत् सुदर्शनम् ।
विष्णोर् इदं भूरि-दं भूरि-तेजः
प्रधर्षति दिवा नक्तं बिभृयुस् तज् जनासः ॥

इति ।
ऋचि, साम्नि च

चमू-षच् छ्येनश् शकुनो बिभृत्वा
गोविन्दुर् द्रप्स आयुधानि बिभ्रत्
अपाम् ऊर्मिं सचमानस् समुद्रं
तुरीयं धाम महिषो विवक्ति

इति ।
अथर्वणि

एभिर् वयम् उरु-क्रमस्य चिह्नैर्
अङ्किता लोके सु-भगा भवेम
तद्-विष्णोः परमं पदं ये
गच्छन्तीह लाच्छिताः ॥

इति ।

ऋग्-वेद-खिले -

चक्रं बिभर्ति वपुषा ऽभितप्तं
बलं देवानाम् अ[मि]मृतस्य विष्णोः ।
एति नाकं दुरिता विधूय
प्रयान्ति यद् यतयो वीत-रागाः ॥

इति।

साम्नि च

पवित्रम् इत्य् अग्निर्, अग्निर् वै सहस्रारः, सहस्रारो नेमिर् नेमिना तप्त-तनुर् ब्रह्मणस् सायुज्यं स-लोकताम् आप्नोतीत्य् उपनिषद्

इति ।

त्रिष्वपि वेदेषु -

पवित्रं ते विततं ब्रह्मणस्-पते
प्रभुर् गात्राणि पर्येषि विश्वतः ।
अ-तप्त-तनूर् न तदामो ऽश्नुते
शृतास इद् वहन्तस् तत्-समासते

इति ।
यजुषि काठके –

चरणं पवित्रं विततं पुराणम्

इत्यारभ्य

सुधितां दधातु

इत्य्-अन्तम् ।

एवम् अन्यद् अपि द्रष्टव्यम्