सुदर्शनादिधारणायोग-पूर्व-पक्षः॥
प्रस्तावः
इह कतिचिद् अतिचिर-समुचित-विविध-दुरितावली–मली-मस–मनसः
परम-पुरुष-चरणारविन्द-वैमुख्य-मुषित-दर्शनाः
सुदर्शनादि-धारणे विमन्यन्ते;
मन्यन्ते च -
चोदना-लक्षणो धर्मः
चोदना-लक्षणो ऽर्थो धर्मः;
न चासौ प्रत्यक्षादि-वेद्य
इति प्रत्यक्ष-सूत्रे स्थितम् ।
द्रव्यादीनां
स्वरूपतः प्रत्यक्षाणाम् अपि
धर्मत्व-वेषेणाप्रत्यक्षत्वाच्
चोदनैक-समधिगम्यत्वं न विरुध्यते ।
यथाऽऽहुः -
विश्वास-प्रस्तुतिः
द्रव्य-क्रिया-गुणादीनां
धर्मत्वं स्थापयिष्यते ।
तेषाम् ऐन्द्रियकत्वेऽपि
न ताद्रूप्येण धर्मता ॥
विषयः
धर्मः
मूलम्
द्रव्यक्रियागुणादीनां
धर्मत्वं स्थापयिष्यते ।
तेषामैन्द्रियकत्वेऽपि
न ताद्रूप्येण धर्मता ॥
विश्वास-प्रस्तुतिः
श्रेयस्-साधनता ह्य् एषां
नित्यं वेदात् प्रतीयते ।
ताद्रूयेण च धर्मत्वं,
तस्मान् नेन्द्रिय-गोचरः +++(धर्मः)+++ ॥
मूलम्
श्रेयस्-साधनता ह्य् एषां
नित्यं वेदात् प्र[मी]तीयते ।
ताद्रूयेण च धर्मत्वं,
तस्मान् नेन्द्रिय-गोचरः ॥
इति ।
ततश् च श्रुतिभिस् तद्-अनुरोधिभिस् स्मृतीतिहासाद्यैस्
तद्-अविरोध्य्-आचारैश् च धर्मत्वम् अवसेयम् ।
श्रुति-स्मृति-विध्य्-अभावः
- तत्र न तावच् चक्रादि-धारण-विधायिनीर् अनन्य-पराः श्रुतीर् अधीमहे ।
अखिलेषु च पठितेषु वाक्येषु न विश्वसिमः । - न च कल्प-सूत्रेष्व् अपि सामान्यतो वा प्रतिनियताधिकारिविषयतया वा
तद्-विधिर् अस्ति । - न च स्मरन्ति मन्वादयः।
निषेधः
प्रत्युत निषेधन्त्य् एव स्व-शरीरेऽन्यशरीरे वा व्रण-करणादिकम् ।
तत्-करणे च प्रायश्चित्तान्य् अनुशिष्यन्ते ।
यद्यपि [अत्र] “अकिणिन” इति किणित्व-निषेधो ज्याघातास्फोटन-द्यूतासि-लतादि–जन्य-किण-विषयतया भवस्वामिप्रभृतिभिर् व्याख्यातः;
तथाऽपि सामान्यतो व्रणकरणाङ्कनादि-निषेधो
बाधकाभावे सत्य् अ-सङ्कुचितो ऽवतिष्ठते ।
वचनान्तरोपेक्ष्यता
ततश् च यद्य् अपि कानिचिद् ऐतिहासिकानि पौराणिकानि तान्त्रिकाणि च वचांसि लब्धानि;
तथाऽपि तानि भगवद्–अ-साधारण-परतया अतिवाद-रूपाणीति वा,
स्मृत्य्-अपेक्षया दुर्बलतया भ्रान्त्यादि-हेतुकानीति वा,
प्राक्षेपिकाणीति वा,
न तद्-धारण-प्रमाणतयोपादेयानि ।
आचारः
अत एवाचारोऽपि दूरोत्सारितः,
आम्नायाविरुद्धानाम् एव देश-जाति-कुल-धर्माणां प्रमाणत्वात् ।
तद् उक्तम् -
देश-जाति-कुल-धर्माश् चाम्नायैर् अ-विरुद्धाः प्रमाणम्
इति ।
अत्राम्नाय-ग्रहणं स्मृत्य्-अविरोधस्याप्य् उपलक्षणार्थम् ।
पूर्वाचार्यश्लोकदूषणम्
यत् पुनर् आहुः -
विश्वास-प्रस्तुतिः
लक्ष्मत्वाद् आत्म-भर्तुः, प्रकृति-परिणति-ग्रन्थि-दाहात्मकत्वात्
कर्माङ्गत्वाद्, +धितत्वात्, तनु–तनु-शयिनोस् संस्कृतित्वात्, प्रियत्वात् ।
हेतुत्वात्, सद्-गृहीतेर्, इतर-परिहृतेर्, द्रावणात् +++(यम-)+++किङ्करादेर्
धार्यं चक्रादि-चिह्नं कृतिभिर्, +++(मोक्षादौ प्रयत्नाभावात्)+++ अ-कृतिभिश् श्रेयसे मुक्तये च ॥
विषयः
ताप-संस्कारः
मूलम्
लक्ष्मत्वाद् आत्मभर्तुः प्रकृतिपरिणतिग्रन्थिदाहात्मकत्वात्कर्माङ्गत्वाद्धितत्वात्तनुतनुशयिनोस्संस्कृतित्वात्प्रियत्वात् ।
हेतुत्वात्सद्गृहीतेरितरपरिहृतेर्द्रावणात्किङ्करादेर्धार्यं चक्रादिचिह्नं कृतिभिरकृतिभिश्श्रेयसे मुक्तये च ॥
इति;
न स्वामि-लाञ्छनम्
न स्वामी
तत्र तावद् भर्तृ-शब्देन किं भार्या-प्रतियोगिकं भर्तृत्वं विवक्षितम्?
उत धारकत्वम्? अथ पोषकत्वम्? यद्वा स्वामित्वम् इति?
न प्रथमः, अ-सिद्धेः ।
न द्वितीय-तृतीयौ, अनैकान्त्यात् ।
अत एव न चतुर्थोऽपि, असिद्धेश्च ।
अनाधेयातिशयस्य शेषित्वम् एव नास्ति;
कुतः स्वामित्वम्?
अतिशयाधायको हि शेषः,
आधेयातिशयश् च शेषी ।
आह च भगवान् जैमिनिः -
“शेषः परार्थत्वाद्” इति ।
तस्य शेषित्वाभावात् स्वामित्वाभावः;
पूर्वस्य चेतनाचेतन-साधारण्यात् ।
अतः शेषित्वाभाववत्सु स्वामित्वाभावः स्वयम् एवासीदति ।
न चिह्नापेक्षा
न चावश्यं स्वाम्य्-आदि-चिह्नं दासादिभिर्धार्यमिति प्रमाणमस्ति ।
उक्तं चाचार्यैः -
असिद्धम् आद्यं द्वे चान्ये
अनैकान्त्येन दूषिते ।
अनैकान्त्याद् असिद्धेश् च
न चतुर्थम् अपीष्यते ॥
इति ।
न ग्रन्थि-दाहः
यच् च “प्रकृति-परिणति-ग्रन्थिदाहात्मकत्वाद्” इति,
तत्रापि दाहात्मकत्व-मात्र-विवक्षायाम् अतिप्रसङ्गः ।
द्रव्य-विशेषेण स्थान-विशेषे
दाह-रूप-चिकित्सा-रूपत्व-विवक्षायाम् अप्य्
आयुर्-वेदवच् छ्रुति-स्मृत्यादिकम् एव शरणम्;
तच् च नास्तीत्य् उक्तम् ।
न कर्माङ्गत्वम्, न हितत्वम्
अत एव “कर्माङ्गत्वाद् +धितत्वाद्” इति हेतु-द्वयम् अपि दत्तोत्तरम् ।
हितत्वं च
- न दृष्टापेक्षया - दुःख-मात्रतयैवोपलब्धेः ।
- नाप्य् अ-दृष्टापेक्षया, अविहितत्वाद् एव ।
न संस्कारः
अनेनैव विकल्पेन
“तनु–तनु-शयिनोस् संस्कृतित्वाद्” इत्य् अपि निरस्तम् ।
संस्कारो नाम कार्यान्तर-योग्यता-करणम्;
तत् तु प्रमाण-मूलं चेत् स्वीकुर्महे, अन्यथा निराकुर्महे ।
न प्रियत्वम्
प्रियत्वाद् इति हेतुः प्रायशो ऽसिद्धो ऽनैकान्तिकश् च ।
न प्रियत्वाद् धर्मः
विश्वास-प्रस्तुतिः
श्रुतिः स्मृतिस् सदाचारस्
स्वस्य च प्रियम् आत्मनः ।
सम्यक् सङ्कल्प-जः कामो
धर्ममूलम् इदं स्मृतम् ॥
विषयः
धर्मः, कामः
मूलम्
श्रुतिः स्मृतिस् सदाचारस्
स्वस्य च प्रियम् आत्मनः ।
सम्यक् सङ्कल्प-जः कामो
धर्ममूलम् इदं स्मृतम् ॥
विश्वास-प्रस्तुतिः
वेदोऽखिलो धर्म-मूलं
स्मृति-शीले च तद्-विदाम् ।
आचारश् चैव साधूनाम्
आत्मनस् तुष्टिर् एव च ॥
विषयः
धर्मः
मूलम्
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥
इति स्मरणाद्
आत्म-प्रियम् अपि धर्मत्वेनोपादेयम्
इति चेन् न;
तादृग्-वचनानाम्
गर्भाष्टमेऽष्टमे वाऽब्दे ब्राह्मणस्योपनायनम्
इत्यादि-विहित-वैकल्पिक-धर्मादि-विषयत्वेन व्याख्यातृभिर् व्यवस्थापितत्वात् -
अन्यथा राग-प्राप्तस्य सर्वस्य धर्मत्व-प्रसङ्गेन
सर्वस्यापि निषेध-शास्त्रस्यानुदय-प्रसङ्गात् ।+++(5)+++
न ह्य् अ-राग-प्राप्ते निषेधापेक्षा ।+++(5)+++
आत्म-हननादि-प्रवृत्तिर् अपि तादात्विक-रागत एव ।
विधि-स्पृष्टे तु निषेधो ऽवस्थाप्यः ।
कथम् अन्यथा श्येनाग्नीषोमीय-विभागः?
तत्र हि श्येन-फल-भूताया +++(हिंसाया)+++ राग-प्राप्तत्वात्
“हिंस्याद्” इति निषेध-विषयत्वम् ।
अग्नीषोमीय-पश्व्-आलम्भनस्य विधि-प्राप्तत्वान् न निषेधः ।+++(5)+++
न सत्-परिग्रहः
यच् च “हेतुत्वात् सद्गृहीतेर् इतरपरिहृतेर्” इति,
तत्र किं सद्–अ-सद्–विवेक-मात्रौपयिकत्वं विवक्षितम्?
उत आदरादि-हेतुत्वम्?
नाद्यः, अवश्य-धार्यत्वं प्रत्य् अ-प्रयोजकत्वात्;
साङ्केतिकस्य यस्य कस्यापि धार्यत्व-प्रसङ्गात्;
दुष्ट-शूद्रादिभिर् ब्रह्म-सूत्रादिवद् वञ्चकैर् अपि तद्-धारण-संभवेन विवेकानुपयोगाच् च ।+++(5)+++
पारम्पर्य-शीलादि-परिज्ञानेनैव हि सद्–अ-सद्-विवेकः, न पुनर् वेषेण ।
न द्वितीयः +++(“आदर-हेतुर्” इति)+++,
केवल-दृष्टार्थत्व-प्रसङ्गात्;
अविहित-कारित्वेन तस्याप्य् असिद्धेश् च ।+++(4)+++
आर्याः खलु विहित-कारिणम् एवाद्रियन्ते;
यत् त्व् आर्याः क्रियमाणं प्रशंसन्ति
स धर्मः +++(5)+++
इति स्मृतेः ।
न किङ्कर-द्रावणम्
यच् च
द्रावणात् किङ्करादेर्
इति,
तच् च प्रत्यक्ष-श्रुत्याद्य्–अ-भावाद्
इतिहासादेर् दत्तोत्तरत्वान् निरस्तम्
कारणोहः
इति केवल-भक्ति-प्रकर्षमूलं वा,
लौकिक-दास-विशेष-दर्शन-जनित-भ्रम-मूलं वा
केषाञ्चिद् आस्तिकानां चक्रादि-धारणम् +++(4)+++
इति ॥