०० प्रतिज्ञा

विश्वास-प्रस्तुतिः

चक्रादि-लाञ्छन-भृतः सुधृतोर्ध्व-पुण्ड्रान्
न्यस्तात्मनो भगवतश् चरणारविन्दे ।
तद्-भुक्त-भोग-रसिकांस् त्रिदशेन्द्र-वन्द्यान्
पुंसः प्रमाण-शरणान् शिरसोद्वहामः॥+++(5)+++

विषयः

श्रीवैष्णवः, ताप-संस्कारः, पुण्ड्रम्, वैष्णवः

मूलम्

चक्रादिलाञ्छनभृतः सुधृतोर्ध्वपुण्ड्रान् न्यस्तात्मनो भगवतश्चरणारविन्दे ।
तद्भुक्तभोगरसिकांस्त्रिदशेन्द्रवन्द्यान् पुंसः प्रमाणशरणान् शिरसोद्वहामः ॥

विश्वास-प्रस्तुतिः

यति-पति-चरणाम्भो-रुह-
रजः-प्रभावेन सन्निवृत्त-रजाः ।
विदधाति वेङ्कटेशः
स्थिराम् इमां सच्चरितरक्षाम्

मूलम्

यतिपतिचरणाम्भोरुहरजःप्रभावेन सन्निवृत्तरजाः ।
विदधाति वेङ्कटेशः स्थिरामिमां सच्चरितरक्षाम् ॥

विश्वास-प्रस्तुतिः

सद्भिर् धृतेषु सततं विमतिं दधुर् ये
पत्युस् समस्त-जगतां परमायुधेषु ।
तैर् एव +++(आयुधैः)+++ तान् निगम-शाण-निघर्ष-दीप्तैस्
तर्कात्मना परिणतैः प्रहरामि मूर्खान्॥+++(5)+++

विषयः

ताप-संस्कारः, प्रौढोक्तिः

English

Those who keep bearing ill-will towards the supreme weapons of the lord of all worlds which are worn by the goodly,
by those only, blazing due to abrasion on the veda-stone and turned into logical arguments, will I strike those fools.

मूलम्

सद्भिर्धृतेषु सततं विमतिं दधुर्ये पत्युस्समस्तजगतां परमायुधेषु ।
तैरेव तान्निगमशाणनिघर्षदीप्तैस्तर्कात्मना परिणतैः प्रहरामि मूर्खान् ॥