०६ उपसंहारः

पञ्चकालपरस्य सर्वो व्यापारः कैङ्कर्यरूपः

एवं वर्तमानस्य सर्वः कालोऽप्यबन्ध्यो भवति सर्वे व्यापाराः
कैङ्कर्यरूपा भवन्ति सर्वोऽप्यानुषङ्गिको भोगः
क्रीडाशुकक्षीरास्वादन्यायेन स्वामिभोगशेषभूतो भवतीति
भगवत्कैङ्कर्यकरतेः
परमैकान्तिनोऽनादिमायानिशावसानेऽनन्तमोक्षावसरप्राम्भे च
प्रत्युषवदास्थितोऽयमायुःशेषकाल इति । स चायमौत्सर्गिकः क्रम उक्तः ।
अपवादे तु व्युत्क्रमविलोपादिप्रवृत्तिः । तथाहि-
उपवासदिवसेष्वेकदश्यादिषु अनुयागस्य लोपो भवति । सप्ताङ्गमेव च [च
कारः क ग ङ् च झ कोशेषु नास्ति] तदानीं यजनम् ।

पञ्चकालानुष्ठानक्रमस्य क्वचित् अपवादः

अत एव चानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः ।
तदर्थकालश्च [तदर्थः कालश्च घ ङ् छ] तस्मिन् दिवसे
स्वाध्याययोगादिष्वन्यतमेन यथोचितं यापनीयः । कदाचित् द्वादश्यादिषु
प्रभाते पारणं भवति । तदर्थं पूर्वं यजने [पूर्वयजने क ख घ
झ] कृतेऽपि स्वकालप्राप्तं मध्यन्दिनयजनं सप्ताङ्गं तिष्ठति ।
वैशेषिकार्चनेषु बहुषु एकदिवसे क्रमात् सम्भवस्तु अङ्गगुणविरोधे च
तादर्थ्यात् इति न्यायेन उपादानादिप्रवृत्तिर्लेशतः प्रतिरुध्यते । तत्र
पूर्वदिवसार्जितैर्द्रव्यैः परोपनीतैर्वा तत्तत्क्रियानिष्पत्तिः । यजनं च सर्वस्मिन्
कालेऽभ्यनुज्ञातम् ।

खिन्न-वृत्तेर् अन्यपरस्यातुरस्य कलहाद्य्-उपद्रुतस्य च
भोजनात् पूर्वं यदा-कदाचिल् लब्धे ऽवसरे [लब्धावसरे क ख ग च झ] भवति ।
अत्यन्ताशक्तौ तु ऋत्विक्-पुत्र-शिष्यादिभिः स्व-समैर् अन्यैः कार्यते ।
तत्र त्वयमपवादः सम्र्यते -

विधुरो ब्रह्मचारी च वानप्रस्थोऽथ भिषुकः ।
परार्थं कर्म कुर्वाणाः पातयन्ति पतन्ति च ॥

इति । ईषच्छक्तौ तु सङ्कुचितयजनम् एकोपचारमारभ्य तत्तच्छक्त्यात्यनुसारेण
सहस्रोपचारान्तविधानात् । विषुवायनद्वितयपञ्चदशी इत्यादिना
प्रतिषिद्धे।ववसरेसु वेदाभ्यासरूपस्वाध्यायो लुप्यते । तदा
तत्कालमप्यनन्यपरस्य परधानतमो योगः समास्कन्दन्ति ।
त्रयोद"ईनिशामुखे च तस्याप्यपवादं केचिदिछन्ति । तदापि
सर्वक्रियान्तरनिरोधपूर्वकं मौनव्रतमनुष्ठीयमानं
सात्त्विकत्यागप्रक्रियया स्वकीयेन मया स्वप्रीत्यर्थं भगवतैव कार्यते
इत्यनुसन्धेयम् । तस्मात् आलोड्य सर्वशास्त्राणि इत्यारभ्य धेयो नारायणः
सदा इत्यादिभिरुक्तं भगवदनुस्मरणं सर्वत्र सावकाशम् ।
अविछिन्नस्मृतिसन्ततिरूपत्वादिकं तु मात्रया भज्यते ।

आशौचादिष्वपि भगवत्सङ्कीर्तनादि कार्यम्

एवं मृतकसूतकाद्यप्रायत्यकालेष्वपि
प्रयतकर्तव्यशास्त्रीयसर्वकर्मविलोपः । तदानीं तु [विलोपवत्तदानीं ख;
विलोपात्तदानीं ग] मौनावसरव्यतिरिक्तः कालः सङ्कीर्तनेन स्मरणेन च
यापनीयः सततं कीर्तयन्तो माम् तस्मात् सर्वेषु कालेषु मामनुस्मर
इत्यादेस्तदानीं निरपवादत्वात् । प्रत्युत -

चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् ।
नाशौचं कीर्तनं तस्य पवित्रं भगवान् हरिः ।
नाशौचं कीर्तने तस्य स्मरणे वापि विद्यते ॥

[अपवित्रः पवित्रो वा इति विष्णुधर्मे पाठः] अशुचिश्चाप्यनाचारः
सर्वावस्थां गतोऽपि [सर्वावस्थागतोऽपि घ ङ् छ] वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

इत्यादिभिः कीर्तनस्मरणयोराशौचकालेऽपि अनुष्ठेयत्चोक्तेः । किञ्च [किञ्च
इति शब्दो घ कोशे नास्ति]

सङ्कीर्तयेज्जगन्नथं वेदं वापि समीरयेत् ।
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्चयन् ।
यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥

इत्यादिभिः देशकालावस्थाधिकार्याद्यविशेषेण [अधिकार्यादिविशेषेण
घ; अधिकार्यादिविशेषेण विहितवेदाभ्यास ख ग; अधिकार्याद्यविशेषेण
विहितं वेदाभ्यास क झ] वेदाभ्यासध्यानयजनार्चनस्थाने
[ध्यानजपार्चनस्थाने क ख ग घ च] तुल्यफलतया सङ्कीर्तनस्य
विहितत्वात् प्रपन्नाभिमतभगवत्प्रीतेश्च तावतैव सुलभत्वाच्च
सर्वदेशसर्वकालाधिकार्यद्यनुगुणं सङ्कीर्तनमेव कर्मान्तरलोपकाले
समुचितम् । विशेषतः कलिधर्मत्वाच्च [कालधर्मत्वाच्च क ख ग] ।
कलौ युगे प्रयतस्यापि ह्यन्याशक्तस्य तदेव युक्तम् । यथाह भगवान्
शौनकः कीर्तनादिव कृष्णस्य मुक्तबन्धः परं व्रजेत् इति । अत
एवाभिगमनस्य न् कदाचिदपि लोपः अप्रयतस्यापि
दूरावस्थितस्य[दूरादवस्थितस्य घ ङ् छ]
सङ्कीर्तनप्रणामाञ्जलिबन्धभाषास्तोत्रलौकिकवाक्यमात्रपूर्वकप्रपदनैर
पि तत्स्वरूपनिष्पत्तेः ।

ननु [भागवतसदाचार्य क ख छ झ; भागवतस्य घ] भागवतस्य
सदाचार्यसकाशात् सम्यगधिगतवेदान्तस्य ब्रह्मवित्त्वेन
सद्यःशौचविधानादनुवृत्तशौचासिद्धेः कथं कर्मविलोपः मैवम्
रहस्याम्नायनिष्ठानामेव तच्छाखागृह्योक्तप्रक्रियया तदभावात् ।
मन्त्रसिद्धान्तादिनिष्ठानां तु दीक्षितानामपि प्रक्रान्तमहोत्सवाधिकारिष्वेव
तन्निषेधः । यद्यपि ब्रह्मवित्त्वमेतेषामविशिष्टम् [ब्रह्मवित्त्वं
तेषामप्यविशिष्टं क ख ग च झ; ब्रह्मवित्वमेव तेषामविशिष्टं ङ्
छ] तथापि कृतादिषु त्रिषु [त्रिषु शब्दः घ च कोशयोः नास्ति]
युगेषु तेषामपि सद्यःशौचम् वृत्तस्वाध्यायसम्पन्नस्यावसङ्कोचनं
तथा इति [घटिका व्यवस्था घ ङ्] व्यवस्थावचनेन कलियुगे
वृत्तदिनिमित्तघसङ्कोचप्रतिषेधात् । न च वाच्यम् -

एकाहाच्छुध्यते विप्रो योऽग्निवेदसमन्वितः ।
व्यहात् केवलवेदस्तु निर्गुणो दशभिर्दिनैः ॥

इत्यादिषुक्तस्याग्निवेदादिनिमित्तस्याघसङ्कोचस्यायं प्रतिषेधः न तु
ब्रह्मवित्त्वनिमित्तस्येति [इति शब्दः घ् च कोशयोः नास्ति] । मैवम्
यथोक्तब्रह्मविदामपि वृत्तगुणशब्देन ग्रहणसम्भवे सङ्कोचकाभावत् ।
न च ब्रह्मविच्चब्देन प्रव्रजितग्रहणं ब्रह्मविदां प्रव्रजितानां च
सद्यःशौचार्हत्वेन [सद्यःशौचानर्हत्वेन घ ङ् छ]
पृथगुपादानात् [पृथुगुपादानात् । यथोक्तम् … मैवम् ।
ब्रह्मवेदनादीनामपि ङ् छ; ब्रह्मवादिनामपि घ; पृथगुपादानादिति
यथोक्तब्रह्मविदामपि च अत्र कोशाः पाठतो बहुधा भिद्यन्ते । अस्मिन् स्थले
ख ग घ ङ् कोशेषु यथोक्त इत्यस्यानन्तरं मैवमित्यस्य पूर्वं च
पङ्क्तिलोपसूचकानि चिह्नानि च दृश्यते] । तर्हि
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा इति सहपठितानां
सत्रिप्रभृतीनामपि सत्रव्रतब्रह्मचर्यदानादिगुण[गुण इति पदं क ख
ग झ कोशेषु नास्ति]निमित्तमघसङ्कोचनमिति तेषामपेतदन्तिमयुगे न
स्यादिति चेन्न [न इति पदं क ख ग च झ कोशेषु नास्ति]
अनुष्ठानतस्तद्व्यवस्थापनात् । अद्यापि हि सद्यः शौचं व्रत्यादिषु
शिष्टैरनुष्ठीयते । न [शारीराधिगम इति घ कोशादन्यत्र पाठः]
शारीरकाधिगमसिद्धब्रह्मवेदनवतामपि गृहस्थानां क्वचित्
तधानुष्ठानं [तदनुष्ठानं क ख ग च झ] दृश्यते ।
अनन्तबाह्यकुदृष्टिसिद्धन्तव्याकुलतत्त्वाध्यवसाये
रागादिदोषान्धकारबहुले बहुलनिशीथखद्योतकल्पगुणलवेऽपि [अपि
शब्दः क ख ग च झ दोशेषु न दृश्यते] कलिविलुप्तस्वधर्मवर्गेऽस्मिन्
काले ब्रह्मविदामसम्भवादेव [तदनुष्ठानदर्शनं क ख ग ङ् च
झ] तथानुष्ठानादर्शनमिति चेत् तर्हि कस्येदानीं ब्रह्मविदः
सद्यःशौचेन कर्मलोपं परिजिहीर्षसि

कलौ कृतयुगं तस्य कलिस्तस्य कृते युगे ।
यस्य चेतसि गोविन्दो गृदये यस्य नाच्युतः ॥

इति न्यायेन यः कश्चिद्यत्र क्वचिद् ब्रह्मविदथापि [ब्र्ह्मविदपि क ख ग च
झ] सम्भवतीति चेत् सत्यम् स तावत्
व्यासागस्त्यबृगुपतिविभीषणप्रभृतिभिस्त्वयाप्यदृष्टे क्वचित् प्रदेशे
वर्तमानः स्वान्तरात्मसाक्षिकं तथानुतिष्ठतु नाम् तदन्येषां
[अन्येषां क ख ग च झ] तु भागवतमर्यादां प्रविष्टानां
परिपूर्णब्रह्मवित्त्वाभावेऽपि [हि शब्दः घ ङ् छ कोशेषु नास्ति]
ह्युपनीतावस्थत्वमात्रेण द्विजत्ववत् [संस्कारविशेषादियोग क ङ् च छ
झ] संस्कारवेषादियोगमात्रेण भागवतत्वमात्रं सिद्धमिति
तावन्मात्रवैशिष्ट्य[वैशिष्ट्य घ कोशादन्यत्र नास्ति]शालिनां
तन्निबन्धनाधसङ्कोचे प्रमाणं क्वचिन्न पश्यामः । अत एव हि
[हिशब्दः घ कोशे नास्ति] तेषामपि पौष्करादिषु आशौचमनुमतम् ।
यत्तु तत्रत्यसंस्कारविशेषवतः कस्यचित् आशौछकालेऽपि
मानसयागमात्रमनुमन्यते तत्
गायत्रीस्मरणपूर्वकजलाञ्जलिप्रक्षेप्न्यायेन नेतव्यम् । विष्ण्वर्चनमपि हि
[हि शब्दः क अ झ कोशेषु नास्ति] प्रत्यक्षश्रुतिसिद्धं नित्यं चेति
प्रागेवोक्तम् । मानसयागमात्राभ्यनुज्ञानेन [मात्रानुज्ञानेन क अ
झ] शेषनिषेधश्च तत्रापि दिद्ध इति ।

तदेवं स्वतः प्राप्तिमपवादप्रकारांश्च [अपवादप्रकारं च क ख;
प्राप्तानपवादप्रकारांश्र ग; स्वतः प्रापतमपवादप्रकारं च च]
यथावदधिगम्यायं धर्मोऽनुष्ठेयः ।

धर्मानुष्ठानप्रकारस्य दुरूहत्वम्

एकं यदि भवेच्छास्त्रं ज्ञानं निःसंशयं भवेत् ।
बहुत्वादिह शास्त्राणां ज्ञानतत्त्वं सुदर्लभम् ॥

इत्यादिभिर्याथार्थ्येन
अतिविततगहनगम्भीरविविधविकल्पबहुतरशास्त्रसङ्क्षोभजनितदिङ्मोहशान्त्
अये सर्वैः सङ्कलनमात्रं [शान्तये कलामात्रं ङ् च छ; शान्तये
सर्वैः सङ्कलन इति पङ्क्तिः घ कोशे उपनीतावत्थत्वमात्रेण इति
पूर्वनिर्दिष्टवाक्यस्यानन्तरं प्रमादवशाल्लिखिता प्रतिभाति] त्विह
कृतम् । अनेनैव प्रस्थानेन प्रशमितदिङमोहैः समर्थैः आ प्रमातात्
अनुष्ठेयानि सर्वाणि कर्माणि प्रत्येकं
बहुतरेतिकर्तव्यतामुख्यानुकल्पविकल्पापवादादिविधायकतत्तच्छास्त्रेषु
यथावदधिगम्यानुष्ठेयानि । हन्त तर्हि दुर्ज्ञाने दुष्करेऽस्मिन् प्रस्थाने को
नाम् [अद्य इति शब्दः क ग च झ कोशेषु नास्ति] अद्याधिकारि स्यादिति चेत्
मैवं भेतव्यम्

भगवत्पूजनस्य नित्यत्वसुकरत्वादिकम्

न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ॥

नित्यं विष्ण्वर्चनं परम् इत्यादिभिः सर्वोत्तरत्वेन च [च शब्दः क ख ग
च झ कोशेषु नास्ति] नित्यत्वेन च श्रुतेऽस्मिन् धर्मे अष्टवर्षस्य
ब्रह्मचर्यधर्म इव यथाकथञ्चिदनुप्रवेशस्यापि [अपि शब्दः क ख ग
च झ कोशेषु नास्ति] युक्तत्वात्

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ।
न हि कल्याणकृत् कश्चिद् दुर्गतिं तात् गच्छति ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ।

इत्यादिन्यायेन [इति न्यायेन क ख च झ] भगवतैवाश्रितवत्सलेन
शेषपूरणात् । स्मरन्ति च-

सकृदुच्चरितं [सकृदुच्चारितं घ ङ् छ] येन
हरिरित्यक्षरद्वयम् ।
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघविनाशनम् ॥

सकृत् स्मृतोऽइ गोविन्दो नृणां जन्मशतैश्चितम् ।
पापराशिं दहत्याशु तूलराशिमिवानलः ॥

हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः ।
अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥

दुर्गसंसारकान्तारमपारमभिधावताम् ।
एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥

एकोऽपि कृष्णे सुकृतप्रणामो दशाश्चमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥

उपोषितः पोषितो वा दृष्टो वा [दुष्टो वा छ] प्रणतोऽपि वा ।
प्रसह्य हरते पापं को न सेवेद्धरिं ततः ॥

को हि भारो [कोऽतिभारः क ख ग ङ् च छ झ] हरेर्नाम्नि जिह्वायाः
[जिह्वया क ख झ] परिकीर्तने ।

आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥

किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ।
उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः ॥

अन्यत् पूर्णादपां कुम्बादन्यत् पादावनेजनात् ।
अन्यत् कुशलसम्प्रश्नान्न चेच्छति जनार्दनः ॥

पत्रेषु पुष्पेषु फलेषु तोयेष्वक्रीतलभ्येषु सदैव सत्सु ।
भवत्येकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः ॥

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्द्युपहृतमश्नामि प्रयतात्मनः ॥
अण्वप्युपहृतं भक्तैर्मम तोषाय [भोगाय ख ग घ] कल्पते ॥

इत्यादि । उक्तं च नारदीये श्रिमतष्टाक्षरब्रह्मविद्यायां
षोडशोपचारोक्त्यनन्तरम्-

एव्वमष्टाक्षरेणैव सर्वत्रार्चनकर्मणि ।
उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा ॥

तुलसीपद्मपालाशसुवर्णकुसुमैः शुभैः ।
पूजयित्वा जगन्नथं फलमानन्त्यमश्नुते ॥

गन्धैः पुष्पैः फलैर्मूलैः पग्रैर्वारिभिरेव [फलैः
पत्रैर्धूपैर्वारिभिः क च झ] वा ।
नित्यं भगवतः पूजां यथासम्भवमाचरेत् ॥

समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः ।
साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् ॥

इति । एतेन भगवत्पूजनस्य नित्यत्वं सुकरत्वं स्वयम्प्रयोजनत्वं च
व्यक्तमुक्तम् ।

यत् पुनरिदं विकलसमाराथनादौ प्रत्यवायादिकमुच्यते-

नित्यार्चने वैकल्येऽपि दोषाभावः

सर्पं दृष्ट्वा ध्यानं यथा कायं [दृष्ट्वा नरः कायं ख ग ङ्
छ; दृष्ट्वा महाकाव्यं घ] कम्पते च मुहुर्मुहुः ।
अमन्त्रमर्चकं दृष्ट्वा तथा भीतो [महाभीतः घ] जनार्दनः ॥

गन्धहीने भयोत्पत्तिः पुष्पहीने तु सङ्कुलम् ।
नैवेद्यहीने [निवेद्यहीने ख ग घ ङ् छ] दुर्भिक्षं मरणं
मन्त्रहीनके ॥

अमन्त्रमविधिं चैवमकालं चैव पूजनम् ।
नित्यं राष्ट्रभयं कुर्यात् तद्ग्रामं [ग्रामस्तु इति चेत् साधुः] तु
विनश्यति ॥

अमन्त्रैणैव यत्पूज्यं पिशाचासुरवर्थ्नम् ।
व्याधितस्करदोषौ च अन्नवृष्टिर्महद्भयम् ॥

इत्यादि तदेतत् सर्वं राजराष्ट्रादिसमृद्ध्यर्थ[समृद्ध्यर्थं क ख
ग च झ]काम्याराधनेषु अन्येष्वपि पूर्णानुष्ठानशक्तस्य
सम्पूर्णद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकलप्समर्थस्यानुकल्पेन
वृत्तौ च [प्रवृत्तौ च क ख ग च झ] दोषमाह न तु नित्ये कर्मणि
[नित्यकर्मणि क च झ] निष्कामस्य यथाशक्तिकरणे । स्मरन्ति च
मन्वादहः -

वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
तद्धि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥

इत्यादि । अस्ति चान्यो भगवद्धर्मस्य विशेषः यमधिकृत्यायं
सात्त्वतसङ्ग्रहः -

सकृत् त्र्यहं च सप्ताहं पक्षं मासमधापि वा ।
यो यजेद्विधिनानेन भक्तिश्रद्धसमन्वितः ॥

सोऽपि यायात् परं स्थानं किं पुनर्योऽत्र [योग क ख झ] संस्थितः ।
यावज्जीवावधिं कालं बद्धकक्षो महामतिः ॥

इति । एतदेव सङ्क्षिप्तं नारायण-मुनिभिः -

दिनम् एकम् अपि प्रीतो
यः कुर्यान् मतिमान् नरः ।
सु-कृती किं पुनर् यावज्
जिवम् एवं समाचरेत्

इति । उक्तं चाहिर्बुध्न्येन -

समाराधयस्त्वेवमेकाहमपि नारद ।
मुक्तिः करे स्थिता [करस्थिता क ख ग च झ] तस्य सर्वे कामाश्च किं
पुनः ॥

इति ।

तदिदं फलार्थिविषयम् । अन्येषां तु स्वयम्प्रयोजनत्वं प्रागेव स्थापितम् ।
तदभिप्रायेणोक्तं वङ्गिवंशेश्वरैः -

एवमेकदिनं वाथ [यावत् क ख ग च झ] द्विदिनं त्रिदिनं तु वा ।
मासं वा वत्सरं वापि यावज्जीवितमेव वा ॥

वर्तेत भक्त्या परया वैष्णवः सुचिरं सुखम् ।
प्रारब्धे मध्यतो विर्घ्नैर्विच्छिन्नेऽप्यत्र कर्मणि ॥

नानर्थो न च नैष्फल्यं न कृतांशस्य सङ्क्षयः ।
प्रारब्धेष्वसमाप्तेषु विच्छिन्नष्वन्यकर्मसु ॥

भवत्येवैतदखिलं वैदिकेष्वितरेष्वपि ।
कृतः स्वल्पांशकोऽप्यस्य स्थित्वा सुचिरमक्षयम् ॥

त्रायेतैव स्वकर्तारं स्वशक्त्या भवभीतितः ।
श्रद्धावानधिकार्यस्मिन्नुक्ते [युक्ते मुद्रितकारिकापाठः] कर्मणि
वैष्णवे ॥

नापरः कुलवृत्तादिगुणः कर्तुर्विशेषतः [कर्तुं विशेषतः क झ;
कश्चिद्विशेषतः घ; कर्तृविशेषतः च] ।
येन केनचिदेषित्रा भाव्यमस्मिंस्तु कर्मणि ॥

तस्मिन् सुदुर्लभे लब्धे [क्रियैव घ ङ् च छ] कृपैवानन्तरक्रिया ।
ज्ञानक्रमतपोयोगयुक्तानप्यधिकारिणः ॥

श्रद्धाहानिः परो दोषश्च्यावयेदधिकारतः ।
स्वोक्तासूपनिषत्स्वेवमुक्तवानुत्तमः पुमान् ॥

श्रद्धश्रद्धे समुद्दिश्य तस्माच्छ्रद्ध परो गुणः ।
नेह कालक्रियाकर्तृद्रव्यदिग्देशसंश्रिता [संस्थिता क ख ग झ] ॥

एषितारं तदिच्छां वा विहायास्ति नियन्त्रणा ।
निषेधाविषयीभावादृते नैवापरो गुणः ॥

प्रीतिहेतुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु ।
अत एवार्चनाङ्गानि द्रव्याणि गणयन् स्वयम् ॥

प्राह पत्रादिमात्राणि जातिवर्णादिभिर्विना ।
अहो हरिं ब्रुवन्नेवं मुक्तिमेत्यप्यहो अहो ॥

अहो अहो सुलभता कृपा चेयमहो अहो ।
अस्त्येव निर्मलं तोयमयत्नसुलभं भुवि ॥

दृश्यन्ते च शुभा दूर्वाः सुलभाः सर्वदिक्ष्वपि ।
अस्ति जिह्वा हरिं [वक्तुं ङ् छ] स्तोतुमात्मीयैवास्यमध्यगा ॥

स्वकरावपि कर्मीणौ ध्यातुमस्त्येव मानसम् ।
अतो न हानिर्मन्त्राणां [योग ङ् च छ] यागविघ्नकरी हरेः ॥

सामग्र्येषा हि सम्पूर्णा [वक्त्रादिः मुद्रितकारिकापाठः]
पत्राद्येकैकमेव तु ।
अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ॥

प्रायश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् ।
सत्यसङ्कल्पसंयुक्ते सर्वज्ञे सर्वशक्तिके ॥

नित्यनिर्दोषनिःसीममहाविभवयोगिनि [महामहिमयोगिनि ङ् छ] ।
स्वाधीनत्रिविधाशेषचिदचिद्वस्तुशेषिणि ॥

निर्मलानन्त्विज्ञाननिधवुदधिशायिनि ।
स्वसङ्कल्पकृताशेषजगज्जन्मलयस्थितौ ॥

अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनङ्गिकृताशेषकर्तृदोषविमर्शया ॥
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्र्क्रियाम् ॥

इति । अत्र तत्क्रियाम् इति सामान्यनिर्देशात् यथाधिकारं साक्षात् समाराधनम्
परैस्तत्प्रवर्तनम् समारावनापेक्षितप्रदानेन शुश्रूषणम् इत्यादिकं
सर्वं सङ्गृहीतम् । उक्तन्यायेन य्नूनाधिकोपचारादिकमपि स्र्वमुपपादितं
मन्तव्यम् ।

अपि च अप्रयत्नलभ्यैरान्तरपुष्पादिभिरपि भगवदुपासनं स्मर्यते -

भगवदाराधने आन्तरपुष्पादीनां मुख्यत्वम्

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूतदया पुष्पं क्षमा पुष्पं विशेषतः [तथैव च घ] ॥

ज्ञानं पुष्पं तपः पुष्पं द्यानं पुष्पं तु सप्तमम् ।
सत्यमेवास्टमं पुष्पं तेन तुष्यति देशवः ॥

इति । आह च भगवान् शौनकः -

रागाद्यपेतं हृदयं वागदुष्टानृतादिना ।
हिंसादिरहितः कायः केशवाराधनं त्रयम् ॥

इति ।

पूर्णानुष्ठतुः समाहृत्यानुष्ठातुश्च तुल्यफलत्वम्

प्रत्येकं सम्पूर्णसमाराधनमित्यर्थः । अतो यथाधिकारं यथाशक्यमत्र
श्रद्दधानैः दर्यार्द्रहृदयदेशिकोपदेशपूर्वकमनुप्रविश्य
देशकालदशाद्यानुगुण्येनाच्छिद्रं यथाक्रमं समाहृत्य
वानुतिष्ठद्भिः अनन्यप्रयोजनैः परमैकान्तिभिः
अनवधिकपरमपुरुषचरणपरिचरणरूपम् [परिचर्यारूपम् क ख ग च
झ] अपवर्गैश्चर्यं यथारोग्यं यथायोग्यं चात्रैव भोइतव्यमिति
सिद्धम् ।

ग्रन्थोपसंहारः

सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्जयित्वा
जानुन्याधाय सव्येतरभुजमपरं [सव्येतरमितरभुज क ख ग ङ् च
झ; सव्येतरभुजमितरं ङ् छ] नागभोगे निधाय ।
पश्चाद्भाहुद्वयेन प्रतिभटशमने [प्रदिभयशमने घ]
धारयन् शङ्खचक्रे
देवीभूषादिजुष्टो जयनतु [वितरतु ङ् छ] जगतां शमं
वैकुण्ठनाथः [नवजलदनिभः पातु दिव्यः परो न - इत्यस्मिन्नेव
ग्रन्थे इज्यारम्भे दृश्यमानः पाठः (१३७ पुटे)] ॥
विदितनिगमसीम्ना वेङ्कटेशेन तत्त-
द्बहुसमयसमक्षं बद्धजैत्रध्वजेन ।
प्रतिपदमवधानं पुष्यतां सात्त्वतानां
प्रषदि विहितेयं पञ्चकालस्य रक्षा ॥

कण्डुलाः [किल च]कलिकज्जलाविलधियः केचिज्जडा निष्फलं
विक्रोशन्तु वियच्चरैः सह बलिव्यत्यासवित्रासिभिः ।
मोघाशापि तथाविधेष्ववितथेष्वार्येष्वमोघा [आर्गेष्वमोघा क च
झ] भृ।शं
मुक्तरिश्वर्यमहाफलोद्गमधिया चर्येयमाचर्यताम् ॥

त्यक्तं शास्त्रमलेपकप्रभृतिभिः किं तेन तस्यागतं
प्रद्विष्टं जगदेकचक्षुषि दिवाभीतैस्ततस्तस्य किम् ।
दुग्धं पित्तहतैर्जुगुप्सितमतस्तस्यापि किं दुर्जनै-
स्त्यक्तं चेदपि मत्कृतं सुरुचिरं किं देशिकैस्त्यज्यते ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां
नित्यव्याख्यानाख्यः

तृतीयोऽधिकारः

श्रीपाञ्चरात्ररक्षां सम्पूर्णा