अथ योगं व्याख्यास्यामः । तत्र अनन्यप्रयोजनाधिकर्तव्यो योगविषेषः
ईदृशः परमात्मायम् इत्यादिना श्रीशाण्डिल्यस्मृत्युक्तः प्रागेव दर्शितः ।
श्रीसात्त्वताद्युपदिष्टयोगप्रकाराणामविरोधश्च सम्यक् समर्थितः । तत्र
भगवान् पराशरस्त्वेवमाह [तत्र पराशरस्त्वेवमाह भगवान् क ख ग
झ]-
आत्मप्रयत्नसापेक्षा विशिष्ता या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥
इति । अयमेव त्वनन्यप्रयोजनस्य योगः । क्षुद्रयोगान्तराणि तु
सिद्ध्यन्तरार्थान्येव योगशास्त्रेषु पठ्यन्ते ।
यद्य् अप्य् अनन्य-प्रयोजनस्यापि
तत्र-तत्रोक्त-न्यास-विद्या-भेदात्
स्व-निष्ठा-विषय-तत्-तत्-संहितोक्त-प्रक्रिया-भेदाच्
चानुसन्धेय-रूप-गुण-विभूत्य्-आदिकं नाना भवति,
तथापि
स्व-रूप-निरूपकानन्दत्वादि-पञ्चक-निरूपित–स्व-रूपे सर्व-शेषिणि,
परस्मिन् ब्रह्मणि, श्रीमति, पुरुषोत्तमे
तत् तद् विद्योदित-रूपादि-विशेष-विशिष्ट-मनो-वृत्ति-नैरन्तर्य-रूपत्वं
योगस्याविशिष्टम् ।
अत एव
पृथग्-भूतेषु दृष्टेषु
चतुर्ष्व् आश्रम-कर्मसु ।
समाधौ योगम् एवैकं
शाण्डिल्यस् समम् उक्तवान् ॥
इति महाभारतवचनं सुसङ्गतं [वचनमपि सङ्गतं छ] भवति ।
योगे अनुसन्धेया विषयाः
अत्र तु भाष्यकाराद्युक्तनित्यगद्यस्तोत्रादिषु यथानुसन्धानमुक्तं तथैव
तत्सम्प्रदायनिष्ठैरनुसन्धेयम् । श्रीवैकुण्ठगद्ये [तु शब्दः घ
कोशेऽधिकः पठ्यते] अनन्यगतेः प्रपत्तिमेवापवर्गोपायं विधाय
तस्यैव क्षुधितस्यारोगस्य क्षीरान्नभोजनादिवत् [क्षीरान्नभोजनवत् क ख
ग ङ् च झ] स्वयम्प्रयोजनतयैव ध्यानयोगविशेषः
तदनुबन्ध्यनुसन्धानविशेषाश्च प्रप"ञ्चिताः । तथहि
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदम् इत्यारभ्य स्वामित्वेन
सुहृत्त्वेन गुरुत्वेन च परिगृह्य इत्यन्तेन
प्राप्यप्रापकभूतशरण्याध्यवसायमुक्त्वा अनन्तरम्
एइआन्तिकात्यन्तिकपरिचर्यैकमनोरथः इति पुरुषार्थविशेषलिप्साया
अनन्यप्रयोजनतां प्रतिपाद्य तत्प्राप्तये च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न
मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः
इत्यनन्योपायतानुसन्धानमभिदाय तस्यैव भगवतः इत्यादिना
महाविभूतेः श्रीमतः इत्यन्तेन शरण्यत्वाद्युपयुक्ताकारानभिदाय
चरणारविन्दयुगलमनन्यात्मसञ्जीवनेन तद्गतसर्वभावेन
शरणमनुव्रजेत् इति शरणवरणमेव मोक्षोपायत्वेन [मोक्षोपायत्वेनापि
घ] विधाय ततश्च प्रत्यहमात्ञ्ज्जीवनायैवमनुस्मरेत् इति
स्वतन्त्रप्रपत्तिनिष्ठस्यैव प्रत्यहं [प्राणरक्षणार्थं इति
घकोशादन्यत्र पाथः] प्राणरक्षणार्थभोजनादिन्यायेन
आत्मोज्जिवनार्थमनुस्मरणविशेषं विधाय विस्तरेण प्राप्यान्तर्गतं
परमपदं वर्णयित्वा महति दिव्ययोगपर्यङ्केऽनन्तभोगिनि
श्रीमद्वैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या
शेषशेषाशनादिकं सर्वं परिजनं
भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या
शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनम् इत्यादिना भगवन्तं
नारायणं ध्यानयोगेन दृष्ट्वा इत्यन्तेन परिपुर्णध्यानमुक्त्वा पुनः
भगवतः इत्यारभ्य भगवत्परिचर्यायामाशां वर्धयित्वा इत्यन्तेन मां
नयेद्यदि काकुत्स्थस्तत् तस्य सदृशं भवेत् कदा द्रक्ष्यति मां पतिः इतादिवत्
पुरुषार्थप्राप्तिमनोरथप्रकारान् प्रतिपाद्य तयैवाशया
तत्प्रसादोपबृंहितया भगवदभिगमनं दूरात् सपरिवारस्य भगवतो
नारायणस्य समस्तपरिवाराय इत्यादिना मन्त्रेणप्रणम्य उत्थाय पुनः पुनः
प्रणामं चाभिद्याय [अनन्तरमेव क झ]
अनन्तरमेवमनुसन्धानमुक्तम् अत्यन्तसाध्वसविनयावनतो भूत्वा
भगवर्पार्षदगणनायकैर्द्वारपालकैः कृपया स्नेहगर्भया
दृशावलोकितः सम्यगभिवन्दिततस्तैस्तैरेवानुमतो भगवन्तमुपेत्य
श्रीमता मूलन्त्रेण मामैकान्तिकात्यन्तिकप्रिचर्याकरणाय परिगृह्णीप्ष्व इति
याचमानः प्रणम्य आत्मानं भगवते निवेदयेत् । ततो भगवता
अमर्यादशीलवता [अमर्यादाशीलवता क ख ग च छ झ]
अतिप्रेमान्वितेनावलोकनेन सर्वदेशसर्वकालसर्वावस्थोचितान्त्यशेषभावाय
स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वसविनयावनतः किङ्कुर्वाणः
कृताञ्जलिपुटो भगवन्तौपासीत । ततश्चानुभूयमानभावविशेषो
निरतिशयप्रीत्या अन्यत् किञ्चित् कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि
शेषभावमेव याचमानो
भगवन्तमेवाविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन्नसीत । ततो भगवता
स्वयमेवात्मसञ्जीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्।एशापहं
निरतिशयसुख्हवहमात्मीयं श्रीमत्पादारविन्दयुगलं शिरसि कृतं
ध्यात्वा अमृतसागरान्तरिमग्नसर्वावयवः सुखमासीत इति ।
योगे गद्यत्रयस्य प्रत्येकमुपयोगविशेषः
अपि चात्र द्वयव्याख्यानरूपे गद्यत्रये निर्वेदभूयस्तया
कैङ्कर्यत्वरातिशयाच्च प्राभातिकेऽभिगमने मितगद्यानुसन्धानमुचितम् ।
बृहद्गद्यं तु समाराधनकाले विशेषतोऽनुसन्धेयानां
स्वरूपरूपगुणविभूतिदेवीभुषणायुधपरिजनपरिच्छदद्वारपालपार्षदादी
नां यथावदनुसन्धानहेतुतया [अनुसन्धेयतया क ख ग झ]
यथवस्थितस्वरूपरूपगुणविभूतिलिलोपकरणविस्तारमनुसन्धाय तमेव
शरणमुपगच्छेत् अखिलेत्यादिना इति समाराधनस्यादौ [समाराधनादौ
इति घ कोशादन्यत्र पाठः] अन्ते च भाष्यकारैरेव विनियुक्तम् ।
श्रीवैकुण्ठगद्यं तु
यामुनार्यसुधाम्भोधिमवगाह्य यथामति ।
आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥
इति प्रारम्भात् पश्चादपि ध्यानयोगेन दृष्ट्वा इत्यभिधानात्
फलरूपविलक्षणानुसन्धानभेदानां विधानात्
अविच्छिन्नस्रोतोरूपेणावलोकनेनावलोकयन्नसीत इति कण्ठोक्तेश्च योगार्थकल्पिते
काले [योगार्थसङ्कल्पकाले क ख ग च झ] विशेषतोऽनुसन्धेयमिति
भाष्यकाराशयः प्रतीयते ।
प्रपन्ननामपि योगानुष्ठानम्
न च भक्तियोगाख्यं रत्नम् इति प्रारम्भात्
मुपायभूतभक्तिविषयोऽयं प्रबन्ध इति भ्रमितव्यम् अनन्यगतिकस्य
प्रपत्तेरवात्रोपायत्वेनोपदेशात्; उपायभूते फलभूते चानुसन्धानविशेषे
भक्तियोगशब्दप्रवृत्त्यविरोधाच्च । ततः सिद्धोपायैरप्ययं योगः स्वकाले
निवेशनीयः । योगकालानियमादैकाग्र्यानुरूपै कालान्तरेऽपि
[अनुरूपकालान्तरे क ख ग च झ] कदाचिद्भवति । यामिन्यां
भवद्ध्यानस्य तु पावनत्वातिशयः स्मर्यते -
उपपातकयुक्तोऽपि महापातकवानपि ।
यामिन्याः पादमेकं तु ब्रह्मध्यानं समाचरेत् ॥
इति ।
योगस्य पञ्च-प्रकार-भगवद्-रूप-विषयत्वम्
ततश्च
परस्मिन् व्यूहाख्ये विभवनिवहेऽर्चावतरणे
[तथाप्यन्तर्यन्तर्यजहत् क ख ग झ]
तथान्तर्यन्तर्यप्यजहदधिकारादिनियमाः ।
निरुध्य स्वं चित्तं निरवधिमहानन्तजलधौ
निरस्तान्यापेक्षा नयत सफलं कालमखिलम् ॥
एषु च [चकारः क ख ग झ किशेषु नास्ति] परव्यूहप्रभृतिषु
चित्तलम्बनेषु प्रपत्त्येकनिष्ठा नाथमुनिप्रभुतयः सुलभतमत्वेन
परिपूर्णत्वाविशेषाच्च समाहितचितानामप्यनुसन्धेयमर्चावतारमेव
चेतसः शुभाश्रयमालम्बन्त । तत्र यद्यपि शीघ्रसाक्षात्कारहेतुभूतो
मन्त्रविशेष उच्छिन्नसम्प्रदाय इति वृद्धा विदामासुः तथापि
स्वावगतैर्मन्त्रविशेषैरमन्त्रकं वा यथासम्भवं यथासम्प्रदायं
तदनुसन्धानमस्याप्यवर्जनीयमेव [तदनुसन्धानमप्यवर्जनीयमेव
क ङ् च छ झ; तथानुसन्धानमप्यवर्जनीयमेव ख] । सर्वातिशायि
षाड्गुण्यं संस्थितं मन्त्रबिम्बयोः इत्यादिना तस्य पूर्णत्वं सिद्धम् ।
श्रीवैखानसेऽपि तदनुसन्धानस्यैव मुख्यत्वं प्रतिपादितम् । यथोक्तं
क्रियाधिकारे मानसी होमपूजा च बेरपूजेति सा त्रिधा इत्युपक्रम्य [इति
प्रक्रम्य घ ङ् छ]-
योगे प्रपन्नस्य अर्चावतारानुसन्धानं मुख्यम्
यथोपयोगशक्यत्वात् कर्तुं पुष्पादिपूजनम् ।
चक्षुषः प्रीतिकरणान्मनसोऽपि तथैव च [मनसो हृदयस्य च इति घ
कोशादन्यत्र पाठः] ॥
प्रीत्या सञ्जायते भक्तिर्भक्तस्य सुलभो हरिः ।
तस्मात् त्रयाणामेतेषां बेरपूजा विशिष्यते ॥
इति । आह च भगवान् शौनकः
सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् ।
दृत्वात्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥
तामर्चयेत् तां प्रणमेत् वा यजेत् तां विचिन्तयेत् ।
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ॥
इति । अतो यत्र द्वचित् भगवद्रूपे यथाशक्ति [यथाशक्ति क ख ग झ कोशेषु
नास्ति; अतः द्वचित् भगवद्रूपनिरन्तरानुसन्धानं ख]
निरन्तरानुसन्धानं नाधमुनिप्रभृतिवत् सिद्धोपायैरपि निर्वेशनीयम्
[निवेशनीयम् क ख ग झ] ।
सात्त्वताद्युक्तं सायंसन्ध्यादिकम्
एवं तु सात्त्वतोक्दः सन्ध्यादिनिद्रान्तकर्मसङ्ग्रहः -
प्राप्तेऽथ सन्ध्यासमये स्नात्वा वा जघनावधि [स्नात्वा च जघनावधि
ख] ।
क्षालयित्वा ततः कुर्याद्वाससां परिवर्तनम् ॥
[अर्चयित्वार्ध्यपूजाधैः क ख ग झ]
अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत्तथा ।
यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ॥
समाधाय बहिर्देवं निरालम्बपदे स्थितम् [स्थितः ङ् च छ] ।
अप्रमत्तेन [अप्रयत्नेन ग घ ङ् छ] वै तावदनिरुद्धेन चेतसा ॥
सह तेनैव वै निद्रा यादवभ्येति साम्प्रतम् ॥
इति । पाद्मे त्वेवमुक्तम्-
ततः पश्चिमसन्ध्यायां प्राप्तायां तत्र चोदितम् ।
जपहोमादिकं सर्वं कृत्वा परमपुरुषम् ॥
अर्चयित्वा यथान्यायं यथापूर्वमशेषतः ।
भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥
आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् ।
योगासने समासीनो युञ्जीतात्मानमात्मनि ॥
यथोक्तेन प्रकारेण यथाशक्ति चतुर्मुख ।
संहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् ॥
आत्मानं चापि हृत्पद्मे परमात्मनि विष्ठिते ।
संहरेदुत्थितो योगात् स्वापं क्लेशापहं व्रजेत् ॥
इत्येष कथितो ब्रह्मन् योगकालश्च पञ्चमः ॥
इति ।
योगस्य यथाशक्त्यनुष्ठेयत्वम्
न चैतन्निरन्तरभगवदनुसन्धानं
सनकादिसाध्यमस्मदादिभिर्दुऽशकमिति मत्वोदासितव्यम् यथारोग्यं
भोजनवत् यथाशक्ति तदास्वादस्यापरित्याज्यत्वात् । उक्तं व [च शब्दो घ
कोशे नास्ति] श्रीमत्प्रह्लादेन -
आयासः स्मरणे कोऽस्य स्मृतो यच्छति शोभनम् ।
पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥
इति । अतो यथा वा [वा शब्दः घ ङ् छ कोशेषु नास्ति] -
द्रष्टुमिच्छामि ते रूपमैश्वरं परमेश्वर ।
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥
भगवत्-कैङ्कर्य-रूप-निद्रानुभव-प्रकारः
इत्येतावद्वादिनोऽर्जुनस्य भगवान् विश्वरूपं स्वात्मानं दर्शयामास
एवमत्रापि स्वानुभवसापेक्षान् [स्वानुभवतापेक्षाणां ङ् च छ; घ
कोशोऽत्र शिथिलः] यथामनोरथं परमोदारो भगवानेव
स्वात्मानमनुभावयति । अतो निर्यत्नलब्धेन भगवदनुभवानन्दसन्दोहेन
कृतार्थोऽस्मीति मन्यमानः करणकलेबरानुगुण्यावधि सुखमासीनो
विविधव्यापारायस्तस्य [व्यापारायत्तस्य क ख ङ् च छ झ;
व्यापारायासितस्य ग] करिष्यमाणयोगोपकरणभूतस्य करणवर्गस्य
विश्रान्तये स्वयमुपनमन्तीं निद्रां न निवारयेत् युक्तस्वप्नावबोधस्य इति
स्मरणात् । निद्रैव तदा कैङ्कर्यम् । सुषुप्तौ च तद्भावो नाडीषु
तच्छ्रुतेरात्मनि च इति शारीरकसुत्रोक्तेन प्रासादखट्वापर्यङ्कय्नायेन
[प्रासादखट्वाङ्गपर्यङ्कन्यायेन ग] नाडीपुरीतद्ब्रह्मसु
[ब्रह्मणि ख ग घ ङ् छ] स्वात्मनः शयनमनुसन्धाय
लक्ष्मीपरिष्वङ्गव्यञ्जकेन माधवशब्देन भगवन्तं सङ्कीर्तयन् यथा
प्रियया सम्परिष्वक्तः इत्यारभ्य प्राज्ञात्मना सम्परिष्वक्तो न बाह्यं
किञ्चन वेद नान्तरम् इत्याम्नातप्रक्रियया [इत्यादिप्रक्रियया क ख ग च
झ] [परमात्मनि परिस्वङ्ग इति घ कोशादन्यत्र पाठः]
परमात्मपरिष्वङ्गविशेषं च परामृश्य यत् करोषि इत्यादिप्रस्थानेन
निद्रामपि समाराधनत्वेन मन्यमानः संशुद्धशुस्कपादः
शास्त्रोक्तप्रकारेण समुचिते स्थाने शास्त्रीये शयनीये चोदितदिक्छिराः
शुद्धत्वानग्नत्वादिनियमयुक्तः [शुद्धत्वादिनियमयुक्तः घ]
श्रीशाण्डिल्यस्मृत्याद्युक्तप्रकारेण स्वाराध्यस्य
भगवतश्चरणारविन्दयोर्विन्यस्तशिरस्कः शयनासनयानादौ इत्यादिविधानात्
तमेव माधवं हृदये [हृदयेऽपि घ] ध्यायन् तमेव कीर्तयन्
सुखं शयीत । यदा यदा च [च शब्दः घ कोशादन्यत्र नास्ति]
निद्राविच्छेदस्तदा तदा तमेव ध्यायेत् । सङ्कोर्तयेच्च तानि नामानि पुनरा
निद्रागमात् । सोऽयं प्रदोषप्रभृति ब्राह्ममुहूर्तावधि
[मुहूर्तपर्यन्तं ङ् छ] सारस्वतस्रोतस [स्रोत इव क ख च
झ] इव विश्रमान्तरितस्य योगस्यावसरः अवसरान्तरेऽप्यैकाग्र्यसम्भवे
कर्मान्तरसङ्कोचेन स्वीकार्य इति [स्वीकार्यमिति ख ग घ ङ् छ]
प्रागेवोक्तम् ॥
इति योगः