अथ स्वाद्यायं व्याख्यास्यामः । चतुर्थे काले सम्प्राप्ते
स्वावगतवेदवाक्यार्थव्यक्तीकरणाय विदितसकलवेदतदर्थानां
स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां
मनुपराशरपाराशर्यशुकशौनकादीनां महर्षीणां प्रबन्धान्
[महर्षीणां प्रबन्धान् इत्यस्य स्थाने वेदोपबृंहणानि इति पदं ख ग
च झ कोशेषु दृश्यते] श्रवणमननजपादिभिरभ्यसेत् । तदिदमुक्तं
व्यासेन तत्कालकृत्यम्- इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् इति ।
दक्षेण तु इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् इति । एवम्
भुक्त्वोपस्त्याय चादित्यं पुराणानि सदा पठेत् इत्यादिकं च द्रष्टव्यम् । झ
कोशेषु दृश्यते] श्रवणमननजपादिभिरभ्यसेत् । तदिदमुक्तं व्यासेन
तत्कालकृत्यम्- इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् इति । दक्षेण
तु इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् इति । एवम् भुक्त्वोपस्त्याय
चादित्यं पुराणानि सदा पठेत् इत्यादिकं च द्रष्टव्यम् ।
उपबृंहणनिरपेक्षस्य उपबृंहणीयवेदभागजप एव युक्तः । तत्रापि
साक्षाद्भगवत्प्रतिपादक एव भागो जप्य इति श्रीशाण्डिल्यस्मृत्यादिषूक्तम् ।
सङ्ग्रह-रुचीनां महामन्त्र-सक्तानां च
सर्व-सार-भूत-व्यापक-मन्त्र-जपोपदेशः ।
जपादिकालेऽपि गुर्वादिषु मौनवर्जनं सर्वत्रोक्तम् । आह चैवं चोधायनः ##-
स्वाध्यायमध्ये गुर्वादिपुरस्कारः
जपमध्ये गुरुर्वापि वैष्णवो यः समागतः ।
सम्भाषणादिपूजां तु तस्य कृत्वानुमान्य च ॥
अनुश्राव्य ततः कुर्याज्जपशेषं समाहितः ।
सर्वस्य प्रभवो यस्माद्विष्णुपादाश्रया नराः ॥
तन्मूलतः क्रियाः सर्वाः सफलास्तु भवन्ति हि ॥
इति । तत्र मौनमन्त्रार्थचिन्तनादयो नियमास्त्रत्र तत्र ग्राह्याः ।
शिष्यगुरुसब्रह्मचारिभिः श्रेयोऽर्थिभिरनसूयुभिः वीतरागैः सह वादः
बोधयन्तः प्रस्परम् इत्युक्तसंवादोऽपि तत्त्वनिर्णयफलत्वाविशेषात्
इतिहासपुराणादिवत् स्वाध्यायकाल एव प्रवर्तनीयः । स्मरन्ति चाभिगमनान्तः
पातिनि पूर्वयामस्वाध्याये जपेदध्यापयेच्छिप्यान् धारयेच्च विचारयेत् इति ।
विचारोऽभ्यसनं जपः इति च [च कोशादन्यत्र चकारो न विद्यते] । उक्तं
चानुयागविधानानन्तरं श्रीसात्त्वते समाचम्य पुनर्यात् प्रयतो
भगवद्गृहम् इत्युक्त्वा
मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ।
[कूर्मवदित्याद्युत्तरार्धं घ ङ् छ कोशेषु नास्ति] कूर्मवच्चतुरः
पादान् शिरस्तत्रिव पञ्चनम् ॥
इत्याष्टाङ्गप्रणामं[इत्यादिना साष्टाङ्गप्रणामं घ ङ् छ] च
विधाय
अष्टाङ्गेन नमस्कृत्य ह्युपविश्यात्रतो हरेः [विभोः घ ङ् छ] ।
आगमाद्ययनं कुर्यात् तद्वाक्यार्थविचारणम् [विचारणात् ङ् छ] ॥
इति । तदिह
भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादी
नां श्रवणमननप्रवचनजपादयो वादसंवादादयश्च
यौगिकज्ञानप्रदीपस्नेहायमानाः
पारुष्यमनृतं प्सिशुन्यं चैव सर्वशः ।
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥
इत्यादिनिदर्शितविविधवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा
यथासम्भवं सम्भूय पृथग्भूय वा स्वाध्यायीभवन्ति ।
शमाद्युपयुक्तशब्दशीलनं कुर्यादिति स्वाध्यायसारः । उक्तं हि
महाभारते -
यच्छृउतं न विरागाय न धर्माय न शान्तये ।
सुबद्धमपि शब्देन काकवाशितमेव तत् ॥
इति न शब्दशास्त्राभिरतस्य मोक्षः इत्यादि च [इति च क ख ग च] ।
सायंसन्ध्यादिकम्
अथ लोहितायति भास्करे अथासूत्रं सायंसन्धोपासनं सायंहोमः
पुनर्यथाशक्ति [भगवदभिगमनं क ख ग च झ]
भगवदभिगमनहविर्निवेदनपूर्वकं भोजनम् । केनचिन्निमित्तेन विलुप्ते
भोजने प्राणाग्निहोत्रमन्त्रजपः । ततश्च रात्रियोग्यस्वाध्यायो योगश्चेति
क्रमः । तत्र प्रमाणानि -
उभे सन्ध्ये भगवानभिगन्तव्यः
नानिवेद्य हरेः किञ्चित् समश्नीआत्तु पावनम्
सायं प्रातर्द्विजातीनामश्नं श्रुतिचोदितम् ।
नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥
प्राणाग्निहोत्रमन्त्रांश्च विलुप्ते भोजने जपेत्
प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत्
तत्पूर्वापररात्रेषु युञ्जानः
इत्यादीनि ।
महाप्रदोषे मौनाचरणम्
[अनन्यप्रयोजनाधिकारिकर्तव्यपूर्वयाम् क अ झ]
अनन्यप्रयोजनाधिकर्तव्यः पूर्वयामस्वाध्यायश्च त्रयोदश्यां
प्रदोषाख्यकाले [कालांशे घ] वर्जनीयः । यथा सङ्गृहीतं
कालविधाने-
विषुवायनद्वितयपञ्चदशीप्रथमाष्टमीषु कलिनाथतिथौ ।
रजनीमुखे च मदनाधिपतेर्विधिराह नाध्ययनकर्म नृणाम् ॥
इति । स्मृत्यर्णए चैतदुपात्तम् -
मितसन्ध्यस्त्रयोदश्यां संस्मर[त्रयोदश्यामस्मरन् क ख ग झ;
त्रयोदश्यां च स्मरन् घ]न्नात्मनो हितम् ।
अह्वोऽष्टांशेन संयुक्तं रात्र्यर्धं मौनमाचरेत् ॥
इति ।
एवं तत्कालनियतसावित्रीहोमादिव्यतिरिक्तदशायां प्रदोषाख्यकाले
मौनविधानात् मन्त्रजपादिकमपि वर्जनीयम् । यथोक्तं कृष्णमन्त्रकल्पे ##-
स्वाध्यायजपमात्रं निषिध्यते । मन्त्रजपादिकं तु विधीयते । उक्तं
चाष्टाक्षरजपस्य नित्यत्वं बोधायनेन -
एवं गुरोः [गुरुः घ] समारभ्य मन्त्रानुष्ठानमाचरेत् ।
अष्टाक्षरं जपेद्विद्वान्नित्यमष्टसहस्रकम् ॥
अजप्त्वास्टाक्षरं मन्त्रं नाहमश्नामि किञ्चन ।
यावज्जिवं जपामीति पश्चादहरहर्जपेत् ॥
अष्टाक्षरजपो यस्य नित्यो नैमित्तिकोऽपि वा ।
काम्यो वापि भवेत् तस्य नित्या देवार्चना [नित्यदेवार्चना क ख च झ]
स्मृता ॥
इति । न चात्र मौनविधिकाले भगव्द्धर्मविच्छेदः तदानीं यधाविधि
मौनानुष्ठानस्यैव [यघाविहितमौनानुष्ठानस्यैव क ख ङ् च छ
झ] भगवत्सेवारूपत्वात् । प्रवृत्तिविषया निवृत्तिविषया वा
भगवदाज्ञैव सर्वदानुवर्तनीयेत्यच्छिद्रानुष्ठानसिद्धिः । यद्यपि च
अतत्क्रियस्य प्रदोषे हरिदर्शनादिकं प्रदिषिध्यते तच्चानुपालितं
परमैकान्तिभिर्भाष्यकारादिभिः तथापि [स्वगृहार्चायाः
इत्यत्रस्वशब्दः घ ङ् छ कोशेषु न दृश्यते]
स्वगृहार्चायास्तत्क्रियत्वात्तदनुज्ञा [तत्क्रियत्वात् इति बहुषु कोशेषु
पाठः क झ कोशयोः परं तत्क्रियात्वात् इति वर्तते] । उक्तं चैवं
बोधायनीये पुराणसारसमुच्चये -
आस्थानस्थः सदा सेव्यो विमानस्थस्तु कालतः ।
स्वगृहे सर्वदा सेव्यो मध्यरात्रं विना प्रभुः ॥
इति । मध्यरात्रेऽप्युपरागादिनिमित्तविशेषसम्भवे
स्नानादिपूर्वकभगवत्सेवाजपादिकमवश्यकर्तव्यतया विधीयत इति न
विरोधः ।
स्वाध्याययोगयोः अनुयागात् पूर्वमेव समाहृत्यानुष्ठानं केषाञ्चिन्मते
एतौ च स्वाध्याययोगौ अह्निकानुयागात् पूर्वमेव कुषुचित् संहिताविशेषेषु
समाहृत्योपदिश्यते ।
यथा सङ्गृहीतं नारायण-मुनिभिः -
पुनः प्रणम्य देवेशम्
अह्नो भागे तुरीयके ।
द्वि-षड्–अष्ट-षड्-अर्णादि-
मन्त्रेषु स्वानुसंहितम् ॥विशेषेण जपेन् मन्त्रम्
अष्टोत्तर-सहस्रकम् ।
अष्टोत्तर-शतं वापि
यथा-शक्ति दशावरम् ॥गुर्वादींश् च नमस् कृत्य
बीज-शक्त्य्-आदिकं तथा ।
मन्त्र-नाथं प्रणम्येशम्
आपादाद् अवलोकयन्
[आपादादवलोकयन् इत्यारभ्य “स्वधाम नीत्वा देवेशं” इति यावत् ख ग कोशयोः नास्ति] ॥जप्त्वा च सुचिरं योगम्
आस्थाय प्रणमेद् धरिम् ।
स्व-धाम नीत्वा देवेशं
[स्वधा मनसा देवेशं इति क कोशे]
प्रह्वः स-परिवारकम् ॥तत्रार्घ्यादिभिर् अभ्यर्च्य
रक्षां कृत्वास्त्र-नायकैः ।
पुनः पुनः प्रणम्याथ
होमाद्यं संविधाय च ।
अनुयागं ततः कृत्वा
कृत-कृत्यो भवेन् नरः ॥
इति ।
अयम् एव क्रमो विस्तरेणोक्तस्
तद्-गुरुभिर्वङ्गिवंशेश्वरैः । तथाहि -
प्राप्तमह्नश्चतुर्थांशं स्वाध्यायार्थमुदीरितम् ।
विज्ञाप्य विष्णवे तस्मै लब्धानुज्ञस्ततोऽपि च ॥
बाह्यार्थादखिलाच्चेतः स्माहृत्येन्द्रियैः सह ।
जपन्नस्टाक्षरं मन्त्रं प्राणायामपुरःसरम् ।
प्रयतः परया भवत्या पूर्वमेव समाहितः ॥
कराङ्गुलिशरीरेषु न्यासान् कृत्वा यथोदितान् ।
गुरून् मन्त्रमृषिं छन्दो देवताश्च [ऋषिच्छन्दोदेवताश्च छ]
यथाक्रमम् ॥
शक्तिं बीजं च शिरसा प्रणमेदेवमादृतः [प्रणमेद्देवमादितः क
झ; प्रणमेदेवमादितः ख ग] ।
इदं गुरुभ्यः सर्वेभ्यः [पूर्वेभ्यः क च झ] क्रियते शिरसा नमः ॥
मन्त्रज्ञानप्रदातृभ्यस्तद्गुरुभ्योऽपि साम्प्रतम् ।
नमस्ते मन्त्रराजाय नमस्तेऽस्टाक्षरात्मने ॥
नमस्ते चेतनाधार परभ्रह्माभिधायिने ।
स्थित्वान्तर्हृदये सर्वानात्मनः सन्नियच्छते ॥
ऋषयेऽष्टाक्षरस्यान्तर्यामिने हरये नमः ।
अष्टाक्षरमहामन्त्रवर्णसङ्ख्याभिमानिनीम् [सङ्ख्याभिद्यायिनीम् क
ख ङ् च झ] ॥
छन्दश्च देवीं गायत्रीं शिरसा प्रणमामहम् ।
मन्त्रशक्तिः स्थिता यस्मिन्नाश्रितेष्टार्थदायिनि [इष्टार्थसाधिनि ख ग;
इष्टार्थदायिनी च] ॥
पदं नारायणायेति शक्तिं तां प्रणतोऽस्म्यहम् [प्रणमाम्यहम्
मुद्रितकारिकापाठः] ।
अकारादुत्थितं बीजं वासुदेवाभिवायिनः [वासुदेवभिधयिनम् ङ्
छ] ॥
तद्बीजमस्य प्रभवं प्रणवं प्रणतोऽस्म्यहम् ।
[मन्त्रस्य देवतां इत्यारभ्य शिरसा हरिम् इति यावत् मन्त्र शक्तिः इति श्लोकात्
पूर्वं क ख ग च झ कोशेषु पठ्यते] मन्त्रस्य देवतां आपि
परमात्मानमव्ययम् ॥
नारायणं परं ब्रह्म नतोऽस्मि शिरसा हरिम् ।
प्रणम्य चैवं गुरादीन् गन्धाद्यैरभिपूज्य च ॥
अनिशं भगवद्बिम्बमापीठादवलोकयन् [अवलोकयेत् क ख ग च झ] ।
जपेदष्टाक्षरं मन्त्रं तदर्थमनुचिन्तयन् ॥
अष्टोत्तरसहस्रं वा शतं वा दश वोत्सुकः ।
जपान्ते मनसा ध्यात्वा यथोक्ताकृतिमच्युतम् ॥
सप्त्नीकं सनुयात्रं सद्वारपगणेश्वरम् ।
कृत्वैवं मनसा योगं सुचिरं हृष्टमानसः ॥
उत्थाय च ततो योगाद् दण्डवत् प्रणिपत्य च ।
स्तुत्वा च बहुभिः स्तोत्रैः दृत्वा चापि प्रदक्षिणम् ॥
स्तित्वाग्रे देवदेवस्य कृत्वा मूर्ध्निं स्वमञ्जलिम् [स्वमँज्नलिम्
इत्यनन्तरं जितन्त इति मन्त्रेण तं देवं शरणं व्रजेत् इति मुद्रितकारिकायां
श्लोकार्धम् अधिकं दृश्यते] ।
ततः स्वस्मै प्रपन्नाय [तस्मै प्रसन्नय क ख ग ङ् च छ झ; स्वस्मै
प्रसन्नाय घ] दत्ते तेनाभये सति ॥
निर्भयः सर्वभूतेभ्यो भवेन्निर्वृतमानसः ।
कर्मण्यवसिते तस्मिन् तुर्लभे दुष्करेऽपि च ॥
अर्घ्यं दत्त्वा यथापुर्वं स्वमात्मानं[स्वं चात्मानं क ख ग घ ङ्
च झ] निवेद्य च ।
स्वनिवेदनमन्त्रेण दासशिष्यात्मजात्मनः ॥
सादरः स्वेन [स्वोदकं स्वेन क ख च झ; सोदकं स्वेन ग ङ् छ]
परात्मने ।
निदध्यात् स्वं च कर्तृत्वं तस्मिन्नेव परात्मनि ॥
क्षामयेच्चापराधान् स्वान् ज्ञानाज्ञानोपपादितान् ।
असङ्ख्यानविषह्यांश्च [असह्यानविषह्यांश्च क ख घ च झ;
असङ्ख्यानपि सङ्ङ्ख्यांश्च ग] क्रियमाणानहर्निशम् ॥
अज्ञानतोऽप्यशक्त्या वाप्यायस्याद् दुष्टभावतः ।
कृतापराधं कृपया क्षन्तुमर्हसि मां विभो ॥
अज्ञानादथवा ज्ञानादशुभं यत् कृतं मया ।
क्षन्तव्यं तदशेषेण दास्येन च गृहाण माम् ॥
उपचारापदेशेन कृतानहरहर्मया ।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥
शिरसा प्रार्थितेनैवं प्रसन्नेन परात्मना ।
क्षान्तसर्वापचारेण करुणामृतवर्षिणा ॥
वात्सल्यौदार्यसौशील्याद्यनन्तगुणराशिना [गुणशालिना घ ङ् छ] ॥
अशरण्यशरण्येन कृपया परया स्वया ।
सस्मितालोकमधुरमाहूयाद्भुतया गिरा ॥
दत्तं तत्पदयोर्युग्मं स्वयमेव स्वमूर्धनि ।
वहंस्तच्चरणस्पर्शनिहताशेषकल्मषः ॥
आसित्वा सुचिरं तस्य पुरतः परया मुदा ।
समुत्थाय ततस्तस्मै भूयो भूयः प्रणम्य च ॥
स्मारयित्वा स्वकं धाम तद्यानाय प्रणम्य च ।
दत्त्वाथ पादुकायुग्मं तत्र देवं समानयेत् [समापयेत् घ ङ् छ]
॥
सप्त्नीकं सानुयात्रं सद्वारपगणेश्वरम् ।
ततस्तदर्हविन्यासं सूपधानं स्वलङ्कृतम् ॥
अनन्तभोगशयनमधिरू।घे परात्मनि ।
आसीनयोस्तथा [तदा क ख ग च झ] देव्योर्देवपार्श्वे यथायथम् ॥
आसीनेषु यथाभागं सेनान्यादिषु सर्वतः ।
अथार्घ्यपाद्याचमनताम्बूलादि यथोचितम् ॥
देवाय देवीयुक्ताय सानुगाय निवेद्य च ।
प्रणम्य दण्डवद्भूम्यां भूयो भूयः पुरो हरेः ॥
अनुयागादिकं चाथ चिकीर्षनाह्निकं विधिम् ।
दत्तनुज्ञः परेणापि गमनायात्मनो बहिः ॥
निर्गन्दुकामो निक्षिप्य देवं दौवारिकादिषु ।
समयः सनुतापश्च चण्डादीन दारपालकान् ॥
कुमुदादीन् गणेशांश्च चक्रादीन्यायुधान्यपि ।
गरुडं च विशेषेण शेषं शेषाशनं तथा ॥
प्रणम्य स्मारयेद्देवं सस्नेहादरसाध्वसम् [साध्वसः क ख च
झ] ।
निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् ॥
निधित्सन्निव चक्षुः स्वमर्पयन्निव कल्पकम् ।
सर्वे भवन्तः सगणाः सन्नद्धः सर्वदिक्ष्वपि ॥
सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ।
मम नाथं मम गुरुं पितरं मातरं च मे ॥
हरिं श्रियं भुवं चापि तान् पालयत सर्वतः ।
यथानिक्षिप्तरूपं मे सन्दर्शयत सर्वदा ॥
भवतः शरणं गत्वा व्रजामि गतसद्वसः ।
इति विज्ञाप्य तान् पश्चात् प्रार्थयेत् हरिं गिरा ॥
ननु देव त्वमेवैकः सस्थावरचरं जगत् ।
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च ॥
संहरिश्यसि चाप्यन्ते रूपैः स्वैः स्वैर्यथेप्सितैः ।
केन त्वं पाल्यसे देव केन वा त्वं विहिंस्यसे [विहन्यसे क च झ] ॥
अत्स्त्वमेव त्वां देवयु चन्डादीन पालकानपि ।
मां च मामकमप्येतत् सर्वं गृहमशेषतः ॥
पालयित्वा स्वसङ्कल्पमात्रेण मधुसूदन ।
त्वां मया त्वयि निक्षिप्तं विश्वस्तेनार्थिकल्पक ॥
आगताय यथाकालं सर्वं मे दातुमर्हसि ।
इति विज्ञाप्य पुरतो दण्डवत् प्रणिपत्य च ॥
होमं पितृक्रियां पशादनुयागादिकं च यत् ।
सर्वमावेद्य तेनैव नियुक्तस्तच्चिकीर्षया ॥
वीक्षमाणस्तमेवैकं चक्षुषा स्निग्धपक्ष्मणा ।
मुर्ध्नि न्यस्ताञ्जलिपुटो विनिष्क्रम्य शनैः शनैः ॥
बद्ध्वा कवाटयुगलं रक्षां कृत्वा प्रणम्य च ।
होमाद्यमनुयागान्तं वैधं कर्म स्माचरेत् ॥
इति । एवमष्टाङ्गयजनमध्ये स्वाध्याययोगयोः समाहृत्योपदेशात्
तत्तद्देशकालावस्थाभेदेन यथाक्रमानुष्ठानाशक्तौ इज्यादेरपि
यथोचितकालान्तरे समाहरणं रहस्याम्नायादिषु प्रपञ्चितमिहाविरुद्धमिति
सूचितम् । स्वाध्याययोगयोश्च यथावसरं मात्रया सर्वत्रानुप्रवेशः
प्रागेव दर्शित इति व्याख्यातः स्वाध्यायः ।
इति स्वाध्यायः