०३ इज्या

सव्यं पादं प्रसार्य श्रितदुरितहरं दक्षिणं कुञ्चयित्वा
जानुन्याधाय सव्येतरभुजमपरं [सव्येतरभुजं क ख ग च झ]
नागभोगे निधाय ।
पश्चाद्बाहुद्वयेन प्रतिभटशमने धारयन् शङ्खचक्रे
देवीभूषादिजुष्ठो [जनयतु जगतां शर्मवैकुण्ठनाथः ङ् अयमेव
पाठः पाञ्चरात्ररक्षाहृदये आदृतः] नवजलदनिभः पातु दिव्यः
परओ नः ॥

अथेदाअनीं मन्त्रसिद्धन्तोपास्यपरूपविषयां भोगार्चनमयीमिज्यां
भाष्यकारप्रणीतनित्यग्रन्थविवरणमुखेन व्याख्यातमः -

मन्त्रसिद्धन्ते परिवारभेदस्तु [गूणभूत ङ् च]
गुणीभूतमूर्त्यन्तरयोर्वैकल्पिकः ।

तत्र प्रथममधिकारिविशेषे वृत्तवर्तिष्यमाणयोः सङ्गतिं दर्शयन्

कर्मारम्भेण मन्त्रेण प्राप्तं कालमनुस्मरेत् ।
इज्यामेवाभिसन्दध्यात् सा योनिः सर्वकर्मणाम् ॥

इति प्रशंसितं चिकीर्षितग्रन्थैषयभूतमहोरात्रकृत्ये प्रधानांशं
दर्शयति -

नित्यग्रन्थस्थस्य +अथशब्दस्य विवरणम्

अथशब्दस्य प्रसिद्धिप्रकर्षसिद्धनन्तर्ये सम्भवति,
अर्थान्तरतात्पर्यपरिग्रहोऽनुपपन्न इति भाष्यादिषु स्थापितम् । अथ गद्यैः
[वक्ष्य इत्यादि क ख ग च झ] यथावत् प्रपत्तिप्रतिपादनानन्तरम् तत
एव तन्निष्ठाधिकारिविशेषसिद्धिसमनन्तरं वा [वा शब्दः क ख ग झ
कोशेषु नास्ति] ।
यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय तमेव
शरणमुपगच्छेदखिलेत्यादिना इति वक्ष्यमाणानुसाराच्च अत्र
तथाविधशरणागतिविषयगद्यग्रन्थस्य [विषयग्रन्थस्य क च झ]
पूर्ववृत्तत्वं विवक्षितमिति ज्ञायते । न च तत्र अखिलजगदाधार
इत्यादिवक्ष्यमाणमात्रपङ्क्तिर्विवक्षिता तस्याः प्रपत्तिकरणत्वादर्शनात्
यथावस्थितस्वरूपरूपगुणविभूत्यादीनां च गद्य एव प्रपञ्चनात्
अनन्यशरणस्त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये इति च तत्र
कण्ठोक्तेः । तस्माद्यथोक्त एवात्र [अत्र इति पदं क ख ग झ कोशेषु
नास्ति] अथशब्दार्थः ।

परमैकान्तिशब्दार्थः

परमश्चासौ एकान्तश्चेति परमैकान्तः । सोऽस्यास्तीति परमैकान्ती । एकत्र अन्तो
निश्चयः प्राप्यतया प्रापकया च । तदुभयं सम्भूय परमैकान्तः ।
परमश्चासौ एकान्ती च इति वा समासः ।
तत्राप्यनन्योपायत्वानन्यप्रयोजनत्वयोः समुच्चयात् पारम्यम् ।
अनन्योपायत्वं च अनन्यदेवताकत्वपर्यन्तम् । यथोक्तम् -

चतुर्विधा मम जना भक्ता एव हि ते श्रुताः ।
तेषामेकान्तिनः श्रेष्ठास्ते चैवानन्यदेवताः ॥

इति । अनन्यप्रयोजनत्वं च आत्मानुभवानन्दनैरपेक्ष्यपर्यन्तम् । तदप्युक्तम् -

ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ॥

इति । एतेन तुल्यन्यायतया भगवदनुभवानन्देऽपि [एतेन भगवदानन्देऽपि
क ख ग झ] फलित्वाभिप्रायो निरस्तः मुक्तानन्दस्यापि
सार्वभौमन्तःपुरशुकक्षीरास्वादनसुखवत् स्वतन्त्रेण परेणैव
स्वप्रीत्यर्थमुपपादितत्वात् । एवंविधं च परमैकान्तित्वं
मन्त्रसिद्धान्तादिनिष्ठे।वपि सम्भवतीति पूर्वाधिकारे स्धापितम् । दृश्यते च
सदाचार्यसकाशात् यथावस्थितगद्यत्रयादिश्राविणामिदानीमपि तत्सम्भवः ।
तत्र हि यथावत् पारावर्यनिश्चयादन्यभवत्युन्मूलनेन
अनन्यदेवताकत्वादिकं च [च इति पदं घ कोशेषु न दृश्यते]
सिध्यति । तां चावस्थां स्वयमेवाह भगवान् [आह च स्वयमेव भगवान्
क ख ग झ] -

अनन्यदेवताभक्ता ये मद्भक्तजनप्रियाः ।
मामेव शरणं प्राप्तास्ते मद्भक्ताः प्रकीर्तिताः ॥

इति । निरतिशयभोग्यभगवत्स्वरूपादिनिश्चयेन विषयान्तरवैमुख्यात्
अनन्यप्रयोजनत्वमपि तत्रैव सिध्यति यस्यां दशायां भगवानत्यन्तासनः
सुहृदादिवत् स्वच्छन्दारावनयोग्यो भवति । यथोक्तं भगवता शौनकेन -

पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् ।
तेषां तत्परमं ब्रह्म दूराद् दूरतरे स्थितम् ॥

तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः ।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥

इति ।

परमैकान्तिनां देवतान्तरवर्जनम्

एवं परिमितविषयत्यागिनां परिमितदेवतान्तरत्यागो नियमो भवति

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।
प्रतिबुद्ध न सेवन्ते यस्मात् परिमितं फलम् ॥

इति परिमितफलसङ्गतदभावाभ्यां [फलसङ्गसदसद्भावाभ्यां
घ] देवतासम्बन्धासम्बन्धप्रतिपादनात् । अतो यथा -

परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि ।
सर्वेषणाविनिर्मुक्तः स भैक्षं भोक्तुमर्हति ॥

इति प्रतिपादितस्य परमात्मेतरसर्वविषयविरक्तस्य प्रव्रजिताधिकारिणो
देवतान्तरवर्जनम् तथा त्रिष्वप्याश्रमान्तरेषु प्रतिबुद्धाधिकारिणः ।
स्मर्यते च प्रव्रजितानां देवतान्तरार्चनत्यागः । अत्रिः -

त्रैकाल्यमर्चनं विष्णोर्देवतानां तदात्मनाम् ।
नमस्कारार्चनदीनि कुर्यान्नान्यस्य कस्यचित् ॥

इति । क्रतुः -

ईश्वरो भगवान् विष्णुः परमात्मा महानजः ।
शास्ता चराचरस्यैको यतीनां परमा गतिः ॥

इति । पुनः स एवाह -

ध्यायतेऽर्चयते योऽन्यं विष्णुलिङ्गमुपाश्रितः ।
कल्पकोटिशतैश्चापि गतिस्तस्य न विद्यते ॥

इति । एवं प्रतिबुद्धानां सर्वेषां देवतान्तरवर्जनं प्रागेव दर्शितम् । एतेन -

देवताप्रतिमां दृष्ट्वा यतिं चैव त्रिदण्डिनम् ।
नमस्कारं न कुर्याच्चेदुपवासेन शुध्यति ॥

इत्यादिकमपि प्रतिबुद्धेतरविषयं मन्तव्यम् । प्रतिबुद्धस्यापि
स्वनमस्कारयोग्यभगवत्तत्परिवारादिप्रतिमासु लब्धावकाशमेतत् ।

निषिद्धनुवर्तने समाराधनानर्हत्वम्

एवं परेमैकान्तिशब्देनाधिकारिविशेष उक्तः । तस्य च

परदारस्तश्चैव परद्रव्यापहारकः ।
न स्पृशेन्मामनादृत्य स्पृष्ट्वा च पतितो भवेत् ॥

इत्यादिभिरनर्हतापादकानि सर्वाणि [सर्वाणि क ख ग च झ कोशेषु
नास्ति] तत्र तत्र द्रष्टव्यानि । सङ्गृहीतं च
समाराथनोपयुक्तसर्वद्रव्यसाधारण्येन वङ्गिवंशेश्वरैः -

निषेधाविषयीभावादृते नैवापरो गुणः ।
प्रीतिहेदुः परेशस्य स्वार्चनाङ्गेषु वस्तुषु ॥

इति । आराधकस्यापि हि अर्चनाङ्गवस्तुत्वमविशिष्टम् । यथा च प्रशस्तजातिष्वेव
तुलस्यादिपत्रपद्मादिपुष्परम्भादिफलगङ्गातोयादिषु
तैस्तैरुपहतिनिमित्तैर्निषेधविषयता एवमाराधकेऽपि यतः कुतश्चिदुपघातादा
प्रायश्चित्तादनर्हतया निषेधविषयत्वं भवति अन्यथा नाविरतो दुश्चरितात्
इत्यादिश्रुतिकोपप्रसङ्गात् उपहतिविषयस्पृष्टबिम्बादिषु च
प्रायश्चित्तविधानात् । ब्रह्मविदोऽपि ह्युत्तराघाश्लेषवचनं
[प्रामादिकादिविषयं घ] प्रामादिकविषयमिति स्थापितं भाष्यादिषु ।
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् इत्यादिभिश्च सूत्रैरयमर्थः
सिद्धः । अपि च राजवदुपचारो ह्यत्र विधीयते ।
राजोपचारवृत्तिश्चापचारपरिहारप्रधाना तद्वदिहापि । यथा च गुणवति
राजनि सेवकानां सापराधानामपि क्षामणमात्रेण निरपराधता तथेहापीति
तल्लाभः [इति लाभः घ ङ् छ] । इदमपि सङ्गृहीतम् -

अज्ञानादथवा ज्ञानादपराधेषु सत्स्वपि ।
प्रापश्चित्तं क्षमस्वेति प्रार्थनैकैव केवलम् ॥

इति । यत्त्वनन्त्रमुक्तम् -

अर्चनादिष्वनर्हत्वान्न कश्चिन्नापराध्यति ।
अतोऽनन्ङ्गिकृताशेषकर्तृदोषविमर्शया ।
कृपयैवास्य देवस्य सर्वोऽप्यर्हति तत्क्रियाम् ॥

इति एतदपि क्षामणयोग्यताख्यापकम् अन्यथा क्षमस्वेति
प्रार्थनाविधानानुपपत्तेः [प्रार्थनानुपपत्तेः क ख ग झ] । न
चैतावता कृतापराधेन [कृतापराधेन क ख ग च झ कोशेषु
नास्ति] निर्भयेन भवितव्यम् प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं
वरम् इति न्यायात् ।

अकर्मण्यतापादका दोषाः

अत्र चाकर्मण्यताहेतूनपराधानेवमाह [अपराधानाह क ख ग च
झ] भगवान्

शृणु सुन्दरि तत्त्वेन आहारस्य विनिर्णयम् ।
आहारो यस्त्वनाहारस्तच्छृणुष्व वस्।उन्धरे ॥

भोजनं यस्तु भुञ्जीत मम योगाय माधवि ।
अशुभं कर्म कृत्वापि पुरुषो धर्मसंश्रितं ॥

आहारं चैव कर्मण्यमुपयुञ्जीत नित्यशः ।
[सर्वे चात्रैव कर्मण्या व्रीहयः शालयस्तथा । इति
वराहपुराणपाथः] सर्वेषां च ततः कर्म प्रवृत्तेः प्राणधारणम् ॥

अकर्मण्यानि वक्ष्यामि यरिन तुष्यामि सम्प्रति ।
राजान्नं च न भोक्तव्यं मम भक्तैः कदाचन ॥

राजान्नेन तु भुक्तेन त्वपराधो महान् भवेत् ।
द्वात्रिंशदपराधांस्तु न सेवेत मम प्रिये ॥

भोज्यान्नपानाहारेषु ये मया परिकीर्तिताः ।
दन्दकाष्ठमखादित्वा यस्तु मामुपसर्पति ॥

द्वितीयमपराधं तु धर्मविन्न प्रवर्तते ।
गत्वा मैथुनसङ्गं तु यस्तु मां स्पृशते नरः ॥

तृतीयमपराधं तु कल्पयामि वसुन्धरे ।
दृष्ट्वा तु मृतकं देवि यस्तु मामुपसर्पति ॥

चतुर्थमपराधं तु न क्षमामि वसुन्धरे ।
स्पृष्ट्वा [दृष्ट्वा क ख ग च झ] रजस्वलां नारीं यस्तु
मामुपसर्पति ॥

पञ्चमं त्वपराधं च दृष्ट्वा वै न क्षमाम्यहम् ।
पृष्ट्वा तु मृतकं चैव संस्कारं मृतकस्य वै ॥

अपराधमिमं षष्थं न क्षमामि वसुन्धरे ।
म्मार्चनविधौ काले वातं मुञ्चति निर्घृणः ॥

सप्तमश्चापराधोऽयं मम देवि न रोचते ।
ममैवार्चनकाले तु पुरीषं यस्तु मुञ्चति ॥

अष्टमश्चापराधोऽयं ममात्र तु न रोचते ।
मदीयार्चनकाले तु यो हि वाचा प्रभाषते ॥

नवमं चापराथं तु न क्षमामि वसुन्धरे ।
यस्तु नीलेन वस्त्रेण प्रावृतो मां प्रपश्यति ॥

दशमश्चापराधोऽयं मम देवि न रोचते ।
परिधायैकवस्त्रं च यस्तु वै मां प्रपद्यते [प्रपश्यति क ख ग च
झ] ॥

एकादशापराधस्तु मम विप्रियकारणम् ।
क्रुद्धस्तु यश्च कर्माणि कुरुते कर्मकारकः ॥

द्वादशं चापराधं तु कल्पयामि वसुन्धरे ।
अकर्मण्यपि पुष्पाणि यस्तु मामुषकल्पयेत् ॥

त्रयोदशापराधं तु न वक्ष्यामि वसुन्धरे ।
यस्तु रक्तेन वस्त्रेण कौसुम्भेनाधिगच्छति ॥

चतुर्दशापाराधं तु न क्षमामि वसुन्धरे ।
अन्धकारे तु मां देवि यः स्पृशेत्तु कदाचन ॥

पञ्चदशापराधं तं कल्पयामि वसुन्धरे ।
यस्तु कृष्णेन वस्त्रेण मम कर्माणि कारयेत् ॥

षोडशं चापराधं तं कल्पयामि न संशयः ।
वासः समवधून्वन् वै यस्तु मय्युपकल्पयेत् ॥

सप्तदशापराधं तं कल्पयामि न संशयः ।
वाराहं यस्तु मांसं वै भक्षयित्वा प्रपद्यते ॥

एकोनविंशापराधं प्रतिजानाति माधवि ।
जालपादं [जालघातं क ङ् च] समश्नन् वै यस्तु मामुपसर्पति ॥

अपराधं विंशमिमं कल्पयामि वसुन्धरे ।
स्पृष्ट्वा वै दीपकं यस्तु मोहात् स्पृशति माधवि ॥

एकविंशापराधं तं कल्पयामि वसुन्धरे ।
श्मशानं यस्तु वै गत्वा मम चैवाभिगच्छति ॥

द्वाविंशापराधं तु तमहं चोपकल्पये ।
पिण्याकं भक्षयित्वा तु मम चैवोपसङ्क्रमेत् [च कोशादन्यत्र
उपचक्रमेत् इति पाथः] ॥

त्रयोवि।शापाराधं तं नरो मम च कल्पयेत् ।
मज्जनानवजानन् यो मां तु पश्यति माधवि ॥

चतुर्विंशापराधं तं कल्पयामि वसुन्धरे ।
एकहस्तप्रणामं च यः करोति च मामिनि ॥

पञ्चवि।शापराधं तं न क्षमामि वसुन्धरे ।
परप्रापणकेनैव यस्तु मामभिगच्छति ॥

सप्तविंशापराधं तं न क्षमामि वसुन्धरे ।
नवाग्रं ये तु ब्रीहीणामदत्त्वापीह भुञ्जते ॥

अष्टाविंशापराधं तं कल्पयामि वसुन्धरे ।
अदत्त्वा सुमनो यो वै धूपं मे दातुमिच्छति ॥

एकोनत्रिंशापराधं कल्पयामि वसुन्धरे ।
लोपानत्कस्तु यो मर्त्यो मामेवमुपसर्पति ॥

अपराधमिमं ग्रिंशं कल्पयामि वसुन्धरे ।
भेरीमताडयित्वा तु यस्तु मां प्रतिबोधति ॥

एकत्रिंशापराधं तु कल्पयामि वसुन्धरे ।
अजीर्णरसमाविष्टो यस्तु मामुपसर्पति ।
महापराधं तद्विद्याद् द्वात्रिंशमिह चोत्तमम् ॥

इति । एवमेतान्यन्यानि चानर्हतानिमित्तानि परिहरतः सम्भवे च सानुतापं
यथोचितं प्रायश्चित्तमनुतिष्ठत इह समाराधनाधिकारित्वम् ।

जात्यादिनिबन्धनोऽप्यधिकारविशेषः

एवं जात्यादिनिबन्धनाधिकारविशेषोऽपि शास्त्रेषु श्रूयते । यथोक्तं
श्रीसात्त्वते -

अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् ।
योगिनामधिकारः स्यादेकस्मिन् गृदयेशये ॥

व्यामिश्रयागमुक्तानां विप्राणां वेदवेदिनाम् [वेदवादिनाम् ख ङ्
छ] ।
समन्त्रे तु चतुर्व्यूहे त्वधिकारो [मन्त्रे तु चातुर्व्यूहे तु अधिकारो क ख ग
ङ् च झ] न चान्यथा ॥

त्रयाणां क्षत्रियादीनां प्रपन्नानां च तत्त्वतः ।
अमन्त्रमधिकारस्तु चातुर्व्यूहक्रियाक्रमे ॥

सक्रिये मन्त्रचक्रे तु वैभवीये विवेकिनाम् ।
ममतासन्निरस्तानां स्वकर्मनिरतात्मनाम् ॥

कर्मवाङ्मनसैः सम्यग्भक्तानां परमेश्वरे ।
चतुर्णामधिकारो वै वृत्ते [प्राप्ते क च झ] दीक्षाक्रमे सति ॥

एवं सम्प्रतिपन्नानां मन्त्रपूर्वं यथास्थितम् ।
विधानमेकमुर्तीयं समानकर्णस्य साम्प्रतम् ॥

इति । जयादिषु चाप्तादिभेदो द्रष्त्व्यः । सर्वेषामन्ततो भगवत्प्राप्तिः समाना ।
विकलानामपि भागवतानम्* [*ङप् इन् अल्ल् ंष्ष्। अन्द् प्रिन्तेद्
एदितिओन्स्]

इति इज्या