०२ उपादानम्

अथोपादानं व्याख्यास्यामः । तच्चैवं सङ्गृहीतं
वङ्गिवंशेश्वरैः-

प्राप्तेऽथाह्नो द्वितीयेंऽशे स्वास्त्रमन्त्रेण धर्मतः ।
आर्जयितार्चनाद्रव्यमशेषं च यथोदितम् ॥

इति । तद् एतद्-व्याख्यातं नारायण-मुनिभिः-

उपादानार्हाणि तद्-अनर्हाणि च द्रव्याणि

अह्नो द्वितीय-भागेन
??क्षृणाराधन-तत्-परः ।
द्रव्याण्य् आराधनार्थानि
शास्त्रीयाणि समार्जयेत्

प्रभूतानि विशुद्धानि
शुद्ध-देशोद्भवानि च ।
अरौद्राण्य् अनिषिद्धानि
सङ्गृहीतानि वैष्णवैः ॥

सुगन्धीनि मनोज्ञानि
पुष्पाण्य् अभिमुखानि च ।
[वासांसि इत्यारभ्य देवभोग्यानि यानि अ इति यावत् क ख ग झ कोशेषु
नास्ति]
वासांसि धनधान्यानि
चन्दनाद्य्-अनुलेपनम्
[चन्दनान्यनुलेपनम् ङ् च छ] ॥

अन्यानि हरिवर्थानि+++(=??)+++
तानि मूल-फलानि च ।
सङ्क्षालितानि बहुशो
देव-भोग्यानि यानि च ॥

दधिक्षिराज्य-मुख्यानि
द्रव्याणि च विशेषतः ।
उत्तमान् उपदंशांश् च
मुद्ग-माषादिकान्य् अपि ॥

ताम्बुलादीनि चान्यानि
सर्वाण्य् आदाय सादरम् ।
यथार्हं तानि संस्कृत्य
प्रक्रमेतार्चनं ततः ॥

इति ।

यत्तूक्तं श्रीसात्त्वते -

प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् यत्नतः सदा ॥

यायादरण्यमथवा निर्बाधं हि तदार्जयेत् ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि ॥

हृद्याः सुगन्धाः कर्मण्या ग्राह्याः सर्वे सितादयः ।
उग्रगन्धास्त्वकर्मण्यास्त्वप्रसिद्धस्तथैव च ॥

चतुष्पथशिवावासश्मशानावनिमध्यजाः ।
क्षता अशनिपाताद्यैः क्रिमिकीटसमावृताः ॥

वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः ।
अम्बुजानि सुगन्धीनि सितरक्तानि कानिचित् ॥

योक्तव्यानि पवित्राणि नित्यमाराधने तु वै ।
साङ्कुराणि च पत्राणि भूगतान्येवमेव हि ॥

विहितान्यर्चने नित्यं यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् ॥

विशेषतः सकामस्य सिद्धिभूतियुतस्य च ।
अतोऽन्यथा न दोषोऽस्ति दोष उन्मत्तकादिभिः ॥

सद्यो हृतानां विहितं त्वम्लानानां यथाक्रमम् [यथाक्रियम् घ;
यथाक्रियः ङ् छ] ।
प्रदानमम्बुसिक्तानां तेषां कार्यं न चान्यथा ॥

निर्दोषतां प्रयान्त्याशु मन्त्रिणामवलोकनात् ।
भवन्ति भक्तिपूतानि हृन्मन्त्रनिरतात्मनाम् ॥

इति ।

तदिदं नियमपरिच्छेदानुशिष्टत्वात् विषर्ययानर्हमवधातव्यम् ।
शक्तमधिकृत्य चात्र स्वारसिकं स्वयम्प्रवृत्त्यादिकमुपदिश्यते
पक्षान्तरस्याप्यन्यत्रनुज्ञानात् । अत्र वैशेषिकार्चनादिषु कदाचित्
प्रतःशब्दस्य मुख्यार्थता अन्यथा र्वभिगमनविधिना प्रातःकालोपरोधात्
अन्येषु च सर्वेषु शास्त्रेषु द्विदीयकाल एव द्रव्यार्जनविधानात् । प्रातःशब्देन
सन्निकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते । सायं
प्रातर्द्विजातीनामशनं श्रुतिचोदितम् इतिवत् । अत एवात्रत्यमुत्थानं च न
स्वापानन्तरभावि । अपितु ततः [पुष्पकुशादीनां घ ङ् छ]
पुष्पफलादीनामुत्थायार्जनमाचरेत् इति जयाख्यसंहितोक्तमभिगमनान्तरं
देवसन्निधेरुत्थानम् । इह च श्रीवैष्णवधर्मशास्त्रोक्तपुष्पनियमः
पूर्वाधिकारे प्रसङ्गात् दर्शितः । पाद्म्ये त्वेवं विचित्रद्रव्योपादानमुक्तम्
[द्र्वयोपार्जनमुक्तम् क ख ग झ]

[उपादद्याद्यथापुर्वं क झ; उपादद्याद्यथापूजा ख ग
च]उपादद्यात्तथा पूज्सासाधनानि यथातथम् ।
पुष्पाणि फलमुलानि विविधान्योषधीरपि ॥

दध्यादि च हविर्योग्यतण्डुलानि [तण्डुलादि घ] गुडानि च ।
स्नानीयान्यपि वस्त्राणि स्वादूनि सलिलानि च ॥

दर्भान् पत्राणि [पर्णानि घ ङ् च छ ज] समिधो यथाशक्ति यथावसु

आहृत्य याञ्चयार्थैवा [याञ्चयाप्तैर्वा क झ; याञ्चया तैर्वा ख
ग] पूजास्थाने निवेश्ययेत् ।
नीत्वोपादानसमयमित्थं तदनु पूजयेत् ॥

इति ।

अस्यां संहितायां संहितान्तरेषु पुष्पप्रकरणहविष्पाकप्रकरणादिषु
[हविःप्रकरणादिषु क ख ग च झ] च
हेयापादेयसमस्तद्रव्यविभागो द्रष्टव्यः । अत्र याञ्चयेत्युक्तोऽ[अयं इति
शब्दः घ ङ् छ कोशेषु न दृश्यते]यमधमाधमपक्षः

स्वप्रयत्नकृतं शस्तं
मध्यमं वन्यम् उच्यते ।
अधमं तु क्रयक्रीतं याचितं [पारक्यं क ख ग च झ]
त्वधमाधमम् ॥

इति पुष्पप्रकरणोक्तस्य सर्वेषु द्रव्येष्वविशेषेण सञ्चरणात् ।

पुष्पेषु वर्ज्यानि अवर्ज्यानि च

भोजराजस्त्वेवं पुष्पेषु राजसतामसादिविभागं
पुष्पाङ्कुरपत्रमूलधूपवर्ज्यावर्ज्यविभागं च [घ कोश एव च कारो
दृश्यते] सञ्जग्राह अथ पुष्पाणि त्रिविधानि सात्त्विकानि राजसानि तामसानीति
। शुक्लानि सात्त्विकानि । रक्तानि राजसानि । कृष्णानि तामसानीति । शुक्लानि
द्विविधानि शुक्लवर्णं वलर्क्षमिति । रक्तम् अरुणमिति [अरुणं चेति क ख ग
च झ] । रक्तं तपाकुसुमादिवर्णम् । अरुणं किंशुकदिवर्णम् । पीतं
द्विविधम् पीतं हरितमिति । कृष्णं द्विविधम् नीलं [श्यामलं क ङ्
च]श्याममिति । नीलं तापिञ्छादि [नीलं तापिञ्छदि ख ग् च कोशेषु
नास्ति] । [कृष्णश्यामं च] श्यामं विष्णुक्रान्तादि ।
फलमेषां भित्यते सात्त्विकादर्धफलानि राजसानि तस्मादर्धफलानि
[राजसादर्धफलानि क ख ग च झ] तामसानि इति । एतानि
स्वारामोत्पादितानि [स्वारामोत्पनानि क झ; स्वारामोत्पन्नादीनि च]
आरण्यानि क्रीतानि प्रतिग्रहावल्लब्धानि याचितानि [अयाचितानि ख ग घ ङ् च
छ] ग्राह्याणि पुष्पाणि । तत्र स्वारामजमुत्तमम् । आरण्यं मध्यमम् ।
[क्रयक्रीतं घ]क्रीतमधमम् । [अयाचितं घ]
याचितमधमाधमम् [याचितमधमाधमम् क ख ग झ कोशेषु
नास्ति] । प्रतिग्रपुष्पे दातुरेव फलम् । कर्तुः किञ्चिद्भवेन्न वा । तस्मात्
प्रतिग्रहलब्धैः पुष्पैर्नार्चयेत् ।

करवीरौ पद्मौ [केतकीजाति क ख ग च झ] जातिमाल्लिकोत्पलानि
तिन्त्रिणा[त्रीणि घ] तगर् चम्पक श्वेतार्क कुटज बकुल [कदली क
ख ग ङ् च छ झ] कन्दली तुलसी तमाल वनमाल[वनमाली घ ङ्
छ] मरुवक शमी सिन्दुवार पलाश सहदेवी फणिज्जक पुन्नाग
वंशपुन्नाग क्षुद्रपुन्नाग मालती श्वेतकुमुद कन्दल पद्म महापुष्प
नाग सदाभद्रा प्रियङ्गु बिल्व वनमल्लिका यक्ष्म्यगस्त्यद्वयं
[अतसीद्वयं छ] वैष्णवी कर्णिका(रो) द्वावशोकौ
कुटजस्था[लक्ष्म्यगस्त्यद्वयवैष्णवीकर्णिकाराशोककुटजास्तथा क ख ग
च झ] कारण्ड नन्द्यावर्तद्वयक्षुद्रकेतक्य इत्यादीनि पुष्पाणि । एतानि च
तिथिभेदेन ग्रहण अयन सङ्क्रान्ति व्यतीपात विषुवादिभेदात्
सङ्गवादिकालविशेषाच्च समग्रफलानि भवन्ति । तत्र तिथिम्पुष्पाणि वैष्णवी
कन्दल [वैष्णवये कदली क ग च झ; वैष्णव्ये कन्दल घ ङ् छ]
पद्म लक्ष्मी सिन्दुवार द्रोण प्रियङ्गु मालती पाटल केतकी जातिमल्लिका महाजाति
पलाशाश्वत्थपत्राणि तिथीनामानुपूर्व्येण पुष्पाणि गृह्णीयात् ।
नन्द्यावर्तकैः सङ्क्रान्त्यां भगवन्तं पूजयेत् । उपनन्द्यावर्तकैरयने ।
विषुवे तुलसीभिः । व्यतीपाते फणिज्जकैः । ग्रहणे [मकरन्दैः ङ् छ;
मन्दरकैः मकरन्दैः घ] मरन्दैः पूजयेत् । सङ्गवे [तत्तिथि ग
घ] तत्तत्तिथिचिदितं पुष्पं गृह्णीयात् । समे पद्मैः धर्मे कुमुदैः
करवीरैर्विष्णुप्रिये बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् ।

अत्र सङ्गवादयः काला अहरहः प्रवर्तन्ते । सङ्गवः समो विष्णुप्रियो धर्मो
विराग इति पञ्च काला अद्यात्मविद्भिरुपदिष्टाः । उदयात् पञ्चनाडीभ्यः
[नाड्यः क ख ग च झ] सङ्गव उक्तः । तस्मात्
द्विगुणमात्रात्[द्विगुणमत्रः क च झ] सम उपदिश्यते । तावता
विष्णुप्रियः । तावता धर्मः । तावता विराग इति । तत्र पूर्वापरौ
भूत्वा[भूत्वा इत्येव सर्वत्र पाठः] नाडीद्वयतः सङ्गवादयो
मुहूर्ता उक्ताः । तत्र सङ्गवे वैकुण्ठस्य प्रीतिः । समेऽनिरुद्धस्य । विष्णुप्रिये
शिंशुमारस्य । धर्मे बडवामुखाग्नेः । विरागे कपिलस्य । इत्येवं
पञ्चानां पञ्च प्रीतिकालाविशेषाः । दिवापुष्पैर्दिवापूजा मुख्या ।
रात्रिपुष्पैर्निशि । विहितेष्वपि सच्छिद्रं मुकुलं जीर्णं पर्युषितं भुक्तशेषं
घ्रातं परिम्लानमस्पृष्टं जन्तुभिर्भक्षितं [जन्तुभिर्भक्षितं क ख
ग घ झ कोशेषु नास्ति] जन्तुभिरधिष्ठितमशुभदेशे पुष्पितमापद्यपि
न गृह्णीयात् ।

पाणी प्रक्षाल्य पात्रे पुष्पाणि गृह्णीयात् । पिधाय स्थापयेदनातपे
[अप्रतापे क झ ग च झ] प्रदेशे यथा न परिम्लायते ।
केवलपुष्पनिवेदनात् माला वरा । मालायाः स्रक् वरा । एकगुणा माला । बहुगुणा
स्रक् । तत्र सूत्रैः पुष्पाणि न ग्रन्थीयात् निर्माल्यसमानि भवन्तीति ।
देवोद्दिष्टानां निन्दां न कुर्यात् प्रशंसामेव सर्वदा कुर्यात् । देवोद्दिष्ठं
मनुष्यो न गृह्णीयात् देवस्वं भवतीति । यत्किञ्चित् पीतवर्णं पुष्पं जलजं
स्थलजं वा तदापदि सङ्ग्राह्यम् । अनुक्तमपि नान्यत्र [अनुक्तमप्यन्यत्र
क ख ग झ] । तत्रापि वर्जनीयानि विशेषेण वर्जयेत् ।

कराण्डं [कोरण्डं ग घ ङ् छ ञ्] कृष्णवर्णं कपित्थं
गिरिकर्णिकाम्र विभीतक शिरीष मदयन्ती निर्गुण्डि सिन्दुवार किंशुक शल्मली
जपा अर्क कनकोन्मत्त कारञ्ज विषपादपबन्धूक माधवी नीप अर्जुन पाटलि
चिञ्चा कोशातकी अलाबु शिग्रू [शिग्रुः क ङ् च] इत्येतानि वृक्ष्ऽवल्लिषु
विशेषेण [विशेषेण इति पदं घ कोश एव दृश्यते] वर्जयेत् । यव
मुद्ग प्रियङ्गु निष्पाव शण दूर्वा भूतृण माषाणामेवाङ्कुराणि
गृह्णीयात् । अन्येषामङ्कुराणि निर्माल्यसमानि भवन्तीति । अपामार्ग
सदाभद्रा तुलसी बिल्व अश्वत्थ पलाश धातकी तमाल गन्धपूर्ण कृष्णा
ब्राह्मी शमीवृक्षाणामेव पर्णानि गृह्णीयात् । उत्पलान्येनामेव मुकुलं
गृह्णीयात् । पद्मोत्पलादीनां जलजानां दिनद्वयादूर्ध्वं पर्युषितत्वम् ।
सर्वेषां मूलानामुशीरमूलमेव विशिष्टम् । देवदारुकृतं धूपं
चन्दनागरुमिश्रितं [विधूमाङ्गारेत्यारभ्य कृष्णागरुमिश्रितं इति
यावत् ङ् छ कोशयोः न् दृश्यते] विधूमाङ्गारसम्भवं शस्तम् ।
सालसर्ज्जरसं कृष्णागरुमिश्रितं प्राण्यङ्गवर्जितमन्यं वा धूपं
निवेदयेत् । पात्रे गव्येन सर्पिषा दिव्येन [दिव्येन इति पदं घ कोशे
नास्ति] तैलेनापि कृतं सूत्रवर्तियुतं सुखानिलदीपितो दीपो भवेत् । दुकूलं
क्षौमं नेत्रम् सूत्रं वा कार्पासिकं सुगन्धधूपितं नवं वस्त्रं भवेत् ।
हेमरत्नमयमाभरणं दद्यात् । दोषयुक्तं भुक्तपूर्वं वा
मनुष्यैर्नाभरणं भवेत् इति ।

तदेतन्ननासंहितापरामर्शसमुद्धृतसारभूतस्य [सारम् क ख घ
ङ्] । अन्यदपि सर्वं तत्तत्संहितासु विस्तरेण द्रष्टव्यम् ।
श्रीशण्डिल्यस्मृतौ च काष्ठपर्यन्तवर्ज्यावर्ज्यद्रव्यविभागः कृतः ।
श्रीविष्णुस्मृत्यादिषु प्राण्यङ्गसुगन्धेषु
कस्तूरीमृगमदयोरङ्गरागतया परिग्रहः । अर्चायां
शुक्लाम्बरसमर्पणं पद्मकल्हारेतररक्तपुष्पवर्जनमित्याद्यपि ग्राह्यम् ।
योगक्षेमार्थेश्वराभिगमनादिस्वरूपशोधनं च पूर्वाधिकारसिद्धं न
विस्मर्तव्यम् ।

उपादाने प्रतिग्रहनियमः

एवं द्रव्याण्यार्जनः प्रतिग्रहनियमश्च तत्र तत्र सङ्क्षिप्तः । यथोक्तं
श्रीशाण्डैल्यस्मृतौ -

कुलटाषण्डपतितवैरिभ्यः काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन ॥

इति [इत्यादि घ] । उक्तं च श्रीसात्त्वते -

तस्करात् पतितात् [चण्डात् सात्त्वतसंहितापाठः]
षण्डाड्डम्भलोभमदान्वितात् । मात्रावित्तं न
गृह्णीयादभक्तादुपचारतः [व्पचारतः क झ] ॥

इति ।

स्मर्यते च

केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥

इति । अत्र[तत्र क ख ग च झ] पद्वमन्नमपकं वा
केशवार्चनरुप[नित्यकर्म क च झ]नित्यधर्मरहिते गृहे न
प्रतिग्राह्यम् उभयत्रान्नशब्दप्रयोगात् अन्यथा पक्वान्नमिति विशेषेण
प्रयोगानुपपत्तेः । प्रतिग्रगुणदोषविस्तरश्च धर्मशास्त्रेषु पठितव्यः ।
सर्वेषु चापदनापद्द्शाभाविषु प्रतिग्रहेषु यमोपदिष्टं मन्त्रविशेषं
भगवान् शौनकः स्मरति-

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।
प्रतिग्रहीतृभिश्चैव न ते मद्विषयोपगाः ॥

इति । तथा बलादिमन्त्रान्तरैरपि तत्तन्निष्ठानां प्रतिग्रहादिः ।
यद्यप्यस्त्रमन्त्रेण सामान्यतः सर्वपुष्पादिग्रहणमुपदिष्टं तथापि
तुलस्या मन्त्रविशेषास्तत्तत्कल्पेषुपदिश्यन्ते- तुलस्यमृतजन्मासि
इग्यादयः ।

प्रतिग्रहोपायनियमाः

एवं वृत्त्यर्थतयानुज्ञातैरध्यापनयाजनादिभिरपि यथाशास्त्रं
प्रयुक्तैः समुचितानि समाराधनोपकरणानि सम्पादयेत् ।
पूर्वनिष्पन्नसम्पूर्णद्रव्यस्तु न प्रतिग्रहादिषु प्रवर्तेत । आपत्स्वनन्तरा
वृत्तिः इत्यनुज्ञागेष्वपि वृत्तिं प्राप्य विरमेत् इति स्मारणात् न नित्यं
प्रवर्तेत । कृषि वाणिज्ये च स्वयं कृते कुसीदं चैवमाद्यपि
गत्यन्तरासम्भवे । सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः
इत्याद्युक्तनन्दनवनकर्णादियतनमपि पुष्पफलादिपूजोपकरणार्थतया
उपादानकोटौ निविशते । अत्र परिव्राजकानां न स्वयं पुष्पापचयादि कर्तव्यम्
[कर्तव्यम् घ कोशे नास्ति] । यथोक्तं यतिधर्मसमुच्चये
फलपुष्पोत्पाटने प्रायश्चित्तविधानादद्भिः कर्तव्यमन्याहृतैर्वा इति । एषा
च वृद्धवसिष्ठस्मृतिस्तत्रोपाता जले मत्स्यादीनां स्थले
पशुमृगसरीसृपादीनां सर्वप्राणिनामभयं दत्वा
पुष्पमूलफलोपादानच्छेदनमधुमांसानृतवचनदानानि वर्जयेत् इति ।
इतरेषां तु स्वयं परतो वा अन्यारामादिसम्भूतानामदत्तानां ग्रहणे
तस्करत्वमपि स्यात् । इति तत्र तत्र द्रष्टव्यम् । स्मर्यते च
द्रव्यगृहदारादिनियमो मन्वादिभिः

यानशय्यासनान्यस्य कूपारामगृहाणि च ।
अदत्तान्युपभुज्ञ्जान एनसः स्यात्तुरीयकभाक् ॥

अदतानामुपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥

इत्यादिना । तदिह साक्षाद्वा परम्परया वा
समाराधनोपकरणभूतशास्त्रीयसमस्तद्रव्योपादानेषु[द्रव्योपायेषु क
ख घ च] स्वशक्येषु ध्यानादिविरोधिकायक्लेशकरबह्वायासरहितेषु
न्यायतः प्रवर्तेत । इत्युपादानसङ्ग्रहः ।

पूर्वसिद्धद्रव्यस्य आन्तरगुणोपादानम्

प्रभूतायासवर्जनमपि हि [हि शब्दः ग च छ कोशेषु नास्ति]
मुमुक्षूणामवश्यम्भावित्वेन परिगणितेष्वष्टसु गुणेषु गौतमः पठति
[प्रभूतायासेत्यारभ्य पठति इति पर्यन्तं ख कोशे विसृष्टम्] दया
सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति
यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं
सालोक्यं च गच्छति यस्य तु खलु संस्काराणामेकदेशोऽपि अष्टावात्मगुणा
अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति इति । एवं सति
बाह्यद्रव्यार्जनवत् सम्प्रीणनेषु प्रधानदमानाममानित्वादिगुणानां
सदाचार्यसेवा सत्सम्भाषणादिभिर्ज्ञानबृद्धिहेतुभिः न्यायतः
प्रवृतैः[प्रवृत्तैः इति पदं घ ङ् छ कोशे।वेव विद्यते]
सम्यगुपार्जनमपि पूर्वसिद्धपरिपूर्णबाह्यपूजोपकरणस्य उपादानकौटौ
[उपादानकाले घ ङ् च छ] निवेशनीयम् बाह्यद्रष्टव्याभाव इव
गुणाभावेऽपि
महाभारताद्युष्टाक्दशचण्डालषड्वृषलसञ्ज्ञितहेयगुणयोगेन
अनन्तरभावीज्यानर्हत्वप्रसङ्गात् । अत एव हि तन्निर्बन्धः [अत एव
श्रुतिनिबन्धः क ग च; अत एव हि श्रुतिनिर्बन्धः ख; अत एव हि श्रुतेर्निर्बन्ध
ङ् छ] क्रियते श्रुतादन्यत्र सन्तुष्टस्तत्रैव च कुतूहली इति । तस्मात्
समराधनोपयुक्तं [समाराधनोपकरणं क ख ग च झ]
बाह्यान्तरं च सर्वं यथार्हमुपादद्यात् । इति व्याख्यातमुपादानम् ॥

इति उपादानम्