०१ अभिगमनम्

सर्वकर्मसाधारणानि अङ्गानि

अत्र यदुक्तं भगवद्-यामुनाचार्यैश् श्रीमद्-गीतार्थसङ्ग्रहे -

ज्ञानी तु परमैकान्ती
तद्-आयत्तात्म-जीवनः ।
तत्-संश्लेष-वियोगैक-
सुख-दुःखस् तद्-एक-धीः ॥
भगवद्-ध्यान-योगोक्ति-
वन्दन-स्तुति-कीर्तनैः ।
लब्धात्मा तद्-गत-प्राण-
मनो-बुद्धीन्द्रिय-क्रियः ॥30॥ निजकर्मादि भक्त्य्-अन्तं
कुर्यात् प्रीत्यैव कारितः ।
उपायतां परित्यज्य
न्यस्येद् देवे तु ताम् अभीः ॥31॥

इति +इदं तावद्
आ प्रबोधात् [आ प्रभातात् क] आनिशान्तम् अनुष्ठीयमानेषु कर्मसु [सर्वेषु कर्मसु च]
न विस्मर्तव्यं,
समयाचारनियमाध्याय-श्रीवैष्णव-धर्म-शास्त्रादि-कथितं
परमैकान्तिनां विशेषकर्तव्यं च
सर्वं यथावद् अधिगन्तव्यम्
सर्वेषु च कर्मारम्भेषु भगवच्-छास्त्राद्य्-उक्तस् तत्-तन्-मन्त्रः, भगवानेवेत्य्-आदिकं भाष्यकारनित्योक्तं च वाक्यं पठितव्यम्
अन्ते च स्वनियाम्येत्यादिक्रमेण समन्त्रकं भगवति समर्पणीयम् । [न चतदखिलमुपासनाधिकार्यन्तरं क ख ग च
झ] न चैतदखिलमपि उपासनोपायाधिकार्यन्तरमात्रविषयमिति
भ्रमितव्यम् [मन्तव्यम् ख ग] तथा सति
तत्सहपठितगुरुभजननिर्माल्यभक्षणनिषेधादेरपि
तावन्मात्रविषयकत्वप्रसङ्गेनालेपकवादावतरप्रसङ्गात् । प्रपञ्चितं
चैतत् पूर्वस्मिन्नधिकारे निक्षेपरक्षादिषु च ।

ब्राह्म-मुहूर्तकर्तव्यानाम् उपक्रमः

तत्र भाष्यकारोक्त-नित्यानुष्ठान-निष्ठस्य
ब्राह्म-मुहूर्तादि-प्राप्तौ
यत् कर्तव्यं तत् तावत्
तच्-छिष्य-प्रशिष्य-ग्रन्थ–
तन्-मूल-भूत-संहिताद्य्-अनुसारेण सङ्गृह्यते।

पूर्वमेव यथाकालं विश्रान्ते निद्रां निर्विश्य प्राप्ते
यामिन्याः पश्चिमे यामे सावधानेन निद्रा परित्याज्याः यामद्वयं
शयानस्तु युक्तस्वप्नावबोधस्य इत्यादिषु स्मरणात् । येषु च योगग्रन्थेषु
कृत्स्नायां रात्रौ निश्चिद्रयोगार्थं
स्वप्नसमयसम्भावितेन्द्रियक्षोभादिपरिहाराय च जागरः प्रतिपाद्यते ते[
स तु क ख ग झ]
विश्रमनिरपेक्षयोगदशापन्नपूर्णारोग्यपुरुषविशेषविषया [विषयः क
ख ग झ] । तत्तत्पुरुषशक्त्यनुसारेणैव हि नित्यनैमित्तिककाम्यविषयाणां
सर्वेषां शास्त्राणां प्रवृत्तिः । अत एव हि धर्मसाधनेषु प्रधानतमं
शरीरं प्रवृत्ते ब्रह्मा स्मृत्वायुषो वेदमुपवेदमथर्वणाम्
इत्यथर्वणवेदोपवेदभूतायुर्वेदे ब्राह्मे मुहूर्त उत्तिष्ठेज्जीर्णाजीर्णे
निरूपयन् इत्यभिदाय अजीर्णे पुनरा सन्ध्यागमात् स्वापो विधीयते ।
ईदृशसर्व[पुरुषश्चब्दः घ पुस्तक एव
दृश्यते]पुरुषक्रोडीकारेण हि युक्तस्वप्नावबोधस्य इति गीतम् । तस्मात्
सर्वेषु मानवेषु प्रायिकतयौत्सर्गिकौ निद्राप्रबोधकालौ यामद्वयं
शयानः इत्यादिभिरुपदिश्यत् [उच्यत् इति घ] इति विषयव्यवस्था ।

ब्राह्ममुहूर्तप्रबोधः तत्फलं च

एवं प्राप्तकालमपनीतनिद्रातमस्कत्वेन सत्त्वस्थः प्रसन्नधीश्च भवति ।
तेन पूरव्यामानुसंहितमन्तःकरणचित्रभित्तिगतं
विचित्रशुभाश्रयविशिष्टं ध्येयं निद्रातमोऽन्तरितमपि
तत्कालसमुन्मुषितसत्त्वसन्धुक्षितसात्त्विकज्ञानरूपप्रदीपप्रकाशेन
सम्यगवलोक्येत् [अवलोक्यते घ] । तत [स एव छ]एव
चापररात्रयोगो निष्पद्यते य एष सात्त्वतादिषु ब्राह्ममुहूर्तात् पूर्वमेव
कर्तव्यत्वेन प्रपँच्यते -

समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ।
कमण्डलुस्थितेनैव समाचम्य तु वारिणा ।
गुरून् देवं नमस्कृत्य ह्युपविश्याजिनासने ॥

इत्यादिना । एतत्संहितानिष्ठानामेष योगकालनियमः [एष कालनियमः क
ख ग झ] । निःशब्दे सर्वसुषुप्तिकाले च ऐकाग्र्यातिशयसम्भावनया च
तद्विधिः । तत्तत्पुरुषशक्त्याद्यनुसाराच्च तत्तत्कालविधेरविरोध इत्युक्तम् ।

अत्र-

निद्रान्ताचमनादिकम्

वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥

इद्यादिभिः मन्वाद्युपदिष्टसोदककमण्डलुधाराणादिकं
भगवद्योगिनोऽप्यनपोदितमिति ज्ञापनाय कमण्डलुस्थितेनैव इत्युक्तम् ।
निद्रान्तनिमित्ततया [तोयाभाव क ख ग च झ] उत्तरकर्माङ्गतया
चात्र तन्त्रेणाचमनम् । तुशब्देन स्वशास्त्रोक्तविशेषः [तोयाभाव क ख
ग च झ] तोयालाभदशायां दक्षिणश्रवणस्पर्शश्च व्यज्यते । स्मरन्ति
हि -

सम्यगाचमनाशक्तावलाभे [शक्तावभावे क ख ग च झ] सलिलस्य
च ।
पूर्वोक्तेषु निमित्तेषु दक्षिणं श्रवणं स्पृशेत् ॥

इति । अत्र मन्त्रचतुष्कादिव्यतिरिक्तं सर्वं संहितान्तरनिष्ठानमपि साधारणम्
। अजिनासने इति चेलाजिनकुशोत्तरम् इति गीते प्रधानांशग्रहनं ।
ततस्त्वभिमतेनैव [अभिमतेनैव तिष्ठेत् क ख ग च झ] त्वास्ते
पद्मासनादिना इति जितासनगतत्वं विधीयते ।

अपररात्रयोगः

यच्च समं कायशिरोग्रीवं धारयन्नचलं स्थिरम् इत्यादिना योग
दशापेक्षितं गीतं तदपि सर्वमिह सविशेषमुपदिश्यते [समं
कायेत्यारभ्य उपदिश्यते इति यावत् घ ङ् कोशयोरन्यत्र न दृश्यते]-

समं कायशिरोग्रीवं सन्धाय सह वक्षसा ।
दृङ् नासाग्रगता कार्या विनिमीलितलक्षणा ॥

जिह्वा तालुतलस्था च सान्तरे दशनावली ।
ईषदोष्ठपुटौ लग्नौ धार्यौ द्वौ बाहुकूर्परौ ॥

ऊरुमध्यप्रदेशे तु हस्तौ नाभेरधो [नामावधः घ ङ् छ] न्यसेत्

अधरोत्तरयोगेन वामदक्षिणतः क्रमात् ॥

अचलं योगपट्टेन त्वेवं सढार्य विग्रहम् ।
सङ्कोच्यापानदेशात्तु ह्युपरिष्टात् तमेव हि ॥

विकास्य वर्णहीनेन[विकास्यावर्णहार्णेन घ ङ् छ]
हार्देनालक्ष्यमूर्तिना ।
विषयान्तर्निविष्टं तु क्रमाच्चित्तं समाहरेत् ॥

कुर्याद्वै बुद्धिलीनं तु तां च कुर्यात् स्वगोचरे ।
समाधायात्मनात्मानं सह मन्त्रैस्ततः [मन्त्रैः स्वतः क झ]
क्रमात् ॥

इति ।

योगे तादात्म्यभावनस्य उपपत्तिः

यत् पुनरिह योग-दशायां तादात्म्य-भावनम् उपदिश्यते -

ततो जाग्रत्पदस्थं चाप्यनिरुद्धं च मन्त्रपम् ।
परावर्त्य शतं बुद्द्या तदभिन्नेन चेतसा ॥

तन्मन्त्रजपसामर्थ्यात् तादात्म्यस्थितिबन्धनात् ।
महिमा तु सविज्ञानस्तदीयस्तस्य जायते ॥

अभ्यासाद्वत्सरान्ते तु तदद्वैतसमन्वितः ।
अथ प्रद्युम्नमन्त्रं तु परावर्त्य शतद्वयम् ॥

योऽयं सोऽहमनेनैवाप्यद्वैतेन सदैव हि ।
एवमेव समभ्यासान्मतिमांश्च्छिन्नसंशयः ॥

तत्प्रभावाच्च तेनैव तथा कालेन जायते ।
अनेन क्रमयोगेन जपध्यानान्वितेन तु ॥

निखिलं [निखिलं वापि क ख झ] चाप्यधिकुर्यानमन्त्रबृन्दं
पुरोदितम् ।
यावदाभाति भगवान् स्थाने पूर्वोक्तलक्षणे ॥

प्रलीनमूर्तिरमलोऽप्यनन्तस्तेजसां निधिः ।
चिदानन्दघनः शान्तोऽप्यनौपम्यो ह्यनाकुलः ॥

समाधायात्मनात्मानं तत्र त्यक्त्वा जपक्रियाम् ।
ध्यातृध्येयाविभागेन यावत् तन्मयतां व्रजेत् ॥

यदा संवेद्यनिर्मुक्ते समाधौ लभते स्थितिम् ।
अभ्यासाद्भगवद्योगी ब्रह्म सम्पद्यते तदा ॥

इति अत्र न स्वरूपैक्यादिकं विवक्षितं शरीरशरीरिणोर्जीवात्मपरमात्मनोः
शारीरकसमर्थितप्रकारेणाविरूद्धस्य अस्पृष्टलक्षणादोषस्य
अशेषशास्त्राणुगुणस्य अनुकूलतर्कशालिनः तत्स्थत्वादनुपश्यन्ति ह्येक एवेति
साधवः [तन्मयत्वेन साधवः च] [इत्याद्युपबृंहण
घ] इत्युपबृंहणशतसुस्थितस्य अवस्थितेरिति काशकृत्ष्न्यः इति सूत्रितस्य
पूर्वापरग्रन्थसंहितान्तरानुगुणस्य विशिष्टाद्वैतस्य विवक्षितत्वात् ।
ध्यातृध्येयाविभागेन इत्यादिना च निर्विकल्पकसमाध्यवस्थोच्यते । ब्रह्म
सम्पद्यते तदा इति च परमसाम्यरूपफलप्रतिपादनम् । उक्तं च ब्रह्मैव
भवति इत्यादिवाक्यान्यधिकृत्य भाष्यकारैः प्रकारैक्ये च तत्त्वव्यवहारो
मुख्य एव यथा सेयं गौरिति इति । अन्यथा निरञ्जनः परमं साम्यमुपैति
मम साधर्म्यमागताः इति श्रुतिस्मृतिभ्यां विरोधः । तथा च श्रुत्यन्तरम्
यथोदकं शुद्धे शुद्धमासिकं तादृगेव भवति एवं मुनेर्विजानत आत्मा
भवति गौतम इति । साम्ये च स एवेति व्यपदेशः श्रुतावेव दृश्यते वैष्णवं
वामनमालभेत् स्पर्धमानो विष्णुरेव भूत्वा इमान् लोकानभिजयति इति । एवं च
सति [एवं सति घ] महिमा तु सविज्ञानस्तदीयस्तस्य जायते
इत्यादिप्राकरणिकग्रन्थसामञ्जस्यं भवति । शारीरके च फलपादे
मुक्तस्याविर्भूतस्वरूपस्य गुणाष्टकविशिष्टस्य जगद्व्यापारव्यतिरिक्तं
भोगमात्रसाम्यं च सूत्रितम्- जगद्व्यापारवर्जं
प्रकर्णादसन्निहितत्वाच्च भोगमात्रसाम्यलिङ्गाच्च इति । अत उपायदशायां
फलदशायं च विशिष्टैवयानुसन्धानमेवात्र विवक्षितम् ।

एतेन लाञ्छनन्यासाद्यनन्तरं मुद्रां बद्ध्वा [स्मरेद्ध्यानं क ख
ग घ झ] स्मरेद्देवं देवोऽहमिति भावयेत् इति
समाराधनारम्भग्रण्थोऽपि [समाराधनग्रन्थोऽपि ङ् छ]
निर्व्यूढः । बद्ध्वा मूलादिकां मुद्रां देवोऽहमिति भावयेत् [इति
समाराधन इत्यारभ्य भावयेत् इत्यन्तं क ख ग च झ कोशेषु नास्ति]
इत्यादिष्विवेतिकरणादिवशात् दृष्टिविधित्वं सुस्पष्टम् । अत एव हि
तथा-विध-भावनया ऽप्य् अनन्तरं योग्यतापादन-मात्रम् उक्तम् -

न्यासेन देवमन्त्राणां देवतादात्म्यभावनात् ।
अप्राकृताङ्गकरणात् पूजामर्हति साधकः ॥

इति । अन्यथा

देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः ।
अप्राकृताङ्गकरणात् पूजामर्हति साधकः ॥

इति । अन्यथा

देवतारूपमात्मानमर्चयेदर्घ्यधूपकैः ।
धूपावसानिकैर्भोगैर्ध्यात्वा नारायणं हृदि ॥

योगस्वरूपे शाण्डिल्यस्मृतिः श्रीकृष्णमुनिश्च

इति समनन्तरकर्तव्यं कथं सङ्गच्छते । न हि स्वरूपैक्यभावनायां
हृदि पुनर्नारायणध्यानमिति किञ्चित् स्यात् । न च शेषवृत्तौ प्रवर्तमानस्य
स्वरूपैक्यभावनं जाघटीति । अतो दृष्टिविधिपक्षोऽत्र स्वीकार्यः । यद्वा
गत्यन्तरे सम्भवति दृष्टिविधिविवक्षा च न युक्ता । अतस्तच्छरीरतया
ताधधीन्यादिभिः सर्वानुवृत्तस्तद्व्यपदेशः । तदभिप्रायेण च
स्वनियाम्येत्यादिकं वक्ष्यति भाष्यकारः । योगे च भिन्नलक्षणयोः
परमात्मप्रत्यगात्मनोः सम्बन्धानुसन्धानमेवेति
शाण्डिल्यस्मृतिवाक्येन स्थापितं पूर्वाधिकारे । उक्तं च विप्रकीर्णं सात्त्वते
नित्यं सङ्गृह्यान्ते श्रीकृष्णमुनिभिः स्वरूपैक्यादिबुद्धेरवैदिकत्वम्-

चेतनस्त्वेक एवेति मतिर्या केवला क्रिया ।
फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
स एनं प्रीतः प्रीणाति ब्राह्मणस्यानुगे न ते ॥

इति ।

योगमध्ये श्रान्तौ चिश्रमाभ्यनुज्ञा

एवं यथावदनुष्ठितयोगस्य श्रान्तिसम्भावनायां ब्राह्ममुहूर्तात्
पुनर्विश्रमोऽनुज्ञाप्यते -

ततः श्रमजयं कुर्यात् तक्त्वा ध्यानासने क्रमात् ।
समासीत् शयानश्च [समास्ते शयनस्थश्च घ; समप्ते शयनस्थश्च ङ्
च छ] कालं रात्रिक्षयावधि ॥

इति ।

ब्राह्ममुहूर्ते विशेषकर्तव्यानि हरिकीर्तनं च

तत्र [अत्र क ख ग च झ] ब्राह्ममुहुर्तप्रभृतिविशेषकर्तव्ये
[कर्तव्यं क झ] दिङमात्रं दर्शितम्-

ब्राह्मे मुहूर्ते सम्प्राप्त उत्थाय शयनात्ततः ।
स्नात्वाब्यर्च्य जगन्नथं समिदाधानमाचरेत् ॥

इत्यादिना । तदिदं संहितान्तरेषु विस्तृतम् । अत्र हरिर्हरिर्हरिरिति मुहुः
सङ्कीर्तयन् हरिमेव चिन्तयन्नुत्तिष्ठेत् । अत्र हरिशब्दसङ्कीर्तनं सप्तकृत्य इति
श्रीमद्गृध्रसरोमुनिभिर्नित्यक्रमसङ्ग्रहे[नित्यकर्मसङ्ग्रहे क ख ग
च झ] निबद्धम् । उत्तिष्ठातश्च हरिशब्दपूर्वकभगवदनुस्मरणं
श्रीविष्णुधर्मे भगवता शौनकेनोक्तम् -

उत्तिष्ठंश्चिन्तय हरिं ब्रजंश्चिन्तय केशवम् ।
भुञ्जंश्चिन्तय गोविन्दं स्वपंश्चिन्तय माधवम् ॥

इति । सर्वकर्मारम्भावसानेषु च हरिसंस्मरणं तेनैव स्वकीयसूत्रेऽप्युक्तम्
हरिमेव स्मरेन्नित्यं कर्मपूर्वापरेषु च इति । स च निद्रानन्तरमनुस्मर्तव्यो
हरिः नरो नारायणश्चैव हरिः कृष्णस्तथैव च इति धर्मदेवतात्मजत्वेन
[धर्मदेवतात्मकत्वेन क झ] स्मर्यकाणेषु भगवदवतारेषु
तिऋतीय इति सम्प्रदायः गजेन्द्रमोक्षकश्चैव-

ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन्
व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः ।
आबिर्भाणोओ रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ
हस्तैः कौमोदकिमप्यवतु हरिरसावंहसां संहतेर्नः ॥

इति । स खलु तमोमयग्राहग्रस्तस्वाश्रितगजेन्द्रमोचकः
सुषुप्तिरूपस्वेतरदुर्निवारतमोग्राहग्रस्तजन्तुजालमोचकत्वेनानुसन्धीयते ।
तमधिकृत्यैव पौराणिकोपजप्यं प्रातः स्मरामि इत्यादि"लोकत्रयं प्रभाते
सर्वैः पठ्यते । तत्फलश्रुतौ च हरिरित्येन भगवान्निर्दिष्टः-

श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् ।
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ॥

इति । [पापं तद्विकाररूपं क; पापं तद्विपाकरूपं ङ् च झ]
सर्वमनिष्टं हरतीति [हरतीत्यत्र क ख ग ध च झ] हरिश्चब्दः ।

ब्रह्माणमिन्द्रं रुद्रं च यम वरुणमेव च ।
प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते ॥

इत्यादिभिस्तस्यैव निखिलजगदुदयविभवलयलीलस्य निरङ्कुशस्वातन्त्र्यं
चानुसन्धेयम् ।

निर्वेदः

एवम् उत्थाय
निद्रान्ताचमनं मुख्यं दक्षिण-श्रवण-स्पर्शरूपं वा तदानीं शक्यं विधाय
तस्मिन्न् एव शयने समासीनः
प्रतिसंहित-योगो योगशास्त्रोक्ते यतमानव्यतिरेकैकेन्द्रियवशीकाराख्ये क्रमभाविनि
सञ्ज्ञाचतुष्टये द्वितीयावस्थारूपव्यतिरेकसञ्ज्ञान्यायेन
भूतभाविदशाविशेषपरामर्शाय कृताकृतप्रत्यवेक्ष्णाय च
नियतेन्द्रियस् समाहितो
ऽतिक्रान्तम् अनन्तं कालं निरर्थकम् अवलोक्य
निर्वेदं परं गच्छेत् -
निर्वेदप्रकाराश्च विविधास् तत्-तत्-संहिताविशेषेष्व् अनुसन्धेयाः ।

तदित्थं सङ्गृहीतं नारायण-मुनिभिः -

ब्राह्मे मुहूर्ते सत्त्व-स्थो
हरिर् हरिर् इति ब्रुवन्
उत्थाय शयने तत्र
समासीनस् समाहितः ॥
व्यर्थं वीक्ष्य गतं कालं
निर्विद्याहम् इतः परम् ।

विस्तरेणोद्धृतं चैतद्वङ्गिवंशेश्वरैः -

ब्राह्मे मुहूर्ते सम्प्राप्ते
निद्रां त्यक्त्वा प्रसन्नधिः ।
हरिर्हरिर्हरिरिति
व्याहरेद् वैष्णवः पुमान् ॥

उत्थाय शयने तस्मिन्न्
आसीनो नियतेन्द्रियः ।
त्रस्तनिर्विण्णहृदयो
व्यर्थं वीक्ष्य गतं वयः ॥

इत्यादिभिः दुस्तरां दुर्दशामेतां कधयिष्यामि कस्य वा
इत्यन्तैरधिकविंशैः श्लोकैः ।

यद्यपि मुमुक्षोः

परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान् - नास्त्यकृतः कृतेन, तद्विज्ञानार्थं स गुरुम् एवाभिगच्छेत्
+++(मुण्डके-१-२-१२)+++

इति प्राथमिक-गुरूपसत्ति-कालात् पूर्वम् एव
तृणीकृत-हिरण्य-गर्भादि-भोगः
परिपूर्णो निर्वेदस् संवृत्तः
तथापि विषम-विपाक-विशेष-गुण-त्रयाश्रय-भूत-
प्रकृति-सम्बद्धतया
सम्भावित-विषय-सङ्गादि-दोष-परिहाराय
तथाविध एव निर्वेदो ऽनुवर्तनीयः

अगीयत चास्य नित्यानुवर्तनीयत्वं - अमानित्वादि-गुण-गण-मध्ये -

जन्म-मृत्यु-जरा-व्याधि-दुःख-दोषाऽनुदर्शनम्

इति।
अतः सिद्धोपायस्यापि
पराङ्कुश-परकालादीनाम् इव
भगवद्-अनुभव-च्छेदकतया
हेयतम-रजस्-तमोमय-निद्रादि-प्रतिकूल-वर्ग-प्रवाहानुवृत्ति-दर्शनेन
संसार-वैराग्योपचर्यार्थम्
अहर्-अहस् तद्-उचितावसरेषु
निर्वेदः कर्तव्य एव ।

सात्त्विकधृत्यवलम्बनम्

एवं सति विवेक-विमोकादि-
सप्तकान्यतम-भूतानवसाद-विरुद्धावसाद-वशाद्
उत्तर-कैङ्कर्य-प्रवृत्तेर् अनिष्पत्तिः स्याद् इति
तत्-परिहारायानन्तरम् उच्यते -

इति निर्विद्य तदनु
धृतिमालम्ब्य सात्त्विकीम् ।
विधूय चेमं निर्वेदं
सर्वकार्यावसादकम् ॥

इत्यादिना गत-जल-सेतु-बन्धनाभिलाष-तुल्यानुताप-प्रशमन-पूर्वकं
सात्त्विक-धृत्य्-अवलम्बनात्मकागामि-काल-शक्य-कैङ्कर्य-निश्चयः ।
सात्त्विकधृतिस्वरूपं चैवं [चेदं क ख ग ङ् च छ झ]
भगवता गीतम् -

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥

इति ।

सात्त्विकधृतिप्रकारः

स च निश्चयप्रकार एवं तत्कालोचितकर्तव्यविभागेन सङ्गृहीतः -

इत ऊर्ध्वमहं तावद्
यावज्जिवं श्रियः श्रियः ।
पदयोर् अर्चनं कर्तुं
यतमानः समाहितः ॥

अभिगच्छन् हरिं प्रातः
पश्चाद् द्रव्याणि चार्जयन् ।
अर्चयांश् च ततो देवं
ततो मन्त्रान् जपन्न् अपि ॥

ध्यायन्न् अपि परं देवं
कालेषूक्तेषु पञ्चसु ।
वर्तमानः सदा चैवं
पाञ्चकालिकवर्त्मना ॥

स्वार्जितैर्गन्धपुष्पाद्यैः शुभैः शक्त्यनुरूपतः ।
आराधयन् हरिं भक्त्या गमयिष्यामि वासरान् ॥

इति । अत्र इत ऊर्ध्वम् यावज्जिवम् सदा इत्यादयः शब्दाः कैङ्कर्यप्रारम्भदिवसे
तावत् स्वरसवाहिनः । उत्तरोत्तरदिवसेष्वपि निरुपाधिककैङ्कर्योपचसिद्ध्यर्थे
निर्वेदविषयतयानुवर्तमानानां भगवदासक्तिविरोधिनामान्तराणाम्
अष्टादशचण्डालषड्वृषलादिशब्दव्यपदेश्यानां दोषविशेषाणां
निःशेषनिवृत्तिलक्षणवैशिष्ट्यलाभार्थं
प्राज्ञप्रज्ञापहारकप्रबलतर[प्रबलतर क ख ग च झ कोशेषु
नास्ति]विषयेन्द्रियादिमूलसम्भावितपाक्षिक[मूलभूतपाक्षिक घ ङ्
छ]कैङ्कर्यविच्छेदपरिहारार्थं चेदम्प्रथमं प्रवर्तमानेनैवं
[इदम्प्रथमप्रवर्तनेनैवं क ख ग च झ; इदं प्रथमं
प्रवर्तमानेनैव तथैव घ] मनोरथानुवर्तनं कार्यमेव । अत एव
नारायणमुनिभिरपि-

भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् ।
एकान्तिभिरनुष्ठेयं नित्यं समभिदध्महे ॥

इति नित्यकर्तव्यं प्रक्रम्य उक्तम् -

व्यर्थं वीक्ष्य गतं कालं निर्विद्याहमितः परम् ।
आराधयेयं ध्यायेयं भजेयं पुरुषोत्तमम् ॥

कीर्तयेयं नमस्येयं चिन्तयेयमनारतम् ।
व्रजेयं शरणं चेति निश्चित्य मनसा स्वयम् ॥

पाञ्चकालिकधर्माणां स्वयम्प्रयोजनत्वम्

इति । अत्र [तत्र क च झ] गमयिष्यामि वासरान् इत्यनेन प्रकृतस्य
परमैकान्तिनः प्रकारान्तरेण कालयापनमशक्यमिति अच्छिद्रकैङ्कर्यस्य
स्वयम्प्रयोजनत्वं व्यज्यते । तदेव हि कण्ठोक्तं नारायण-मुनिभिः -

किं किं न साध्यं भगवद्-
आराधनपरैर् नरैः ।
वैष्णवानां विशेषेण
स्वयम् एतत् प्रयोजनम् ॥

इति ।

यदत्र धर्मार्थचिन्तनं तदुपायभूतकायक्लेशचिन्तनं च स्मर्यते तत्र
कैङ्कर्यरूपो धर्मः तच्छेषभूतोअऋथः
[कैङ्कर्यरूपधर्मशेषभूतः घ “अ छ]
तयोर्गुरुलघूप्सायविवेकार्थं कायक्लेशचिन्तनम् । तत्र न
पूर्वाह्णमध्यन्दिनापराह्णानफलान् कुर्यात् यथाशक्ति
धर्मार्थकामेभ्यः तेषु च धर्मोत्तरः स्यात्
इत्यादिभिर्गौतमाद्युक्त[कामोपाधिक क ख ग
झ]कामौपायिकप्रवृत्त्यंशोऽपि धर्माविरुद्धो भूतेषु कामोऽस्ति
भरतर्षभ इत्युक्तसत्सन्तानोत्पादनादिमात्रार्थशास्त्रीयकामविषयतया
गृहस्थस्य कैङ्कर्यपक्षे निक्षिप्यते ।

निर्विघ्नकैङ्कर्यसिद्धिप्रार्थनम्

[यदथं क ख ग झ]
तदयमपवर्गाङ्कुरभूतस्वयम्प्रयोजनस्वामिकैङ्करियमहानन्दलाभः
विध्नायुतेन गोविन्दे नृणां भक्तिर्निवार्यते इति कथं भविष्यतीति भयात्
अनन्तरं प्रतिबन्धकनिवृत्तिः प्रार्थ्यते [कथ्यते क ख ग झ] -

एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥

स्वयैव कृपया देवो विनाश्यास्मन्मनोरथान् ।
पूरयत्विति सम्प्रार्थ्य मन्त्रमेतमुदीरयेत् ॥

इति ।

स च प्रार्थनामन्त्रः “त्वय्य् आराधन-कामो ऽयम्” इत्यादिकः यथान्यायं देशिक-सकाशाद् अधीत्यात्रान्वहं प्रयोक्तव्यः ।
एवम् एव सर्वेषां मन्त्राणां समाधिः ।
विपर्यये नैष्फल्यम् । दृष्टादृष्ट-प्रत्यवायश् च
तेषु तेषु शास्त्रेषु पठ्यते ।+++(5)+++

यदृच्छया श्रुतो मन्त्रश्
छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थस् स्यात्
प्रत्युतानर्थदो भवेत् ॥

इति ।

अस्यैव श्लोकस्यान्यत्र तम् जपेद्यद्यनर्थकृत् इति चतुर्थपादस्य पाठः ।

एवंविधनिर्विघ्नकैङ्कर्यसिद्धिरपि

निर्विघ्नकैङ्कर्यसिद्धये गुरुपरम्पराप्रपत्तिपूर्वकहरिध्यानम्

सङ्कल्पादेव भगवांस्तत्त्वतो भावितात्मनाम् ।
व्रतान्तमखिलं कालं सेचयत्यमृतेन तु ॥

इति श्रीसात्त्वतादिकथितप्रकारेण भगवत्प्रासादेव भविष्यतीति तत्सिद्ध्यर्थमपि
पर्थमं हरेरेव ध्यानमुच्यते - इति सम्प्रार्थ्य तत्सिद्ध्यै संस्मरेत्
प्रथमं हरिम् इत्यादिना ।

अत्र गुरूपरम्पराप्रपत्तिपूर्वकमिदं द्यानं विवक्षिताम्

गुरून् प्रपद्य प्रथमं
तद्-गुरूंश् च ततो हरिम्

इति तस्मिन्नवसरे नित्यान्तरोक्तेः । उक्तं च
श्रीसात्त्वते अपररात्रयोगारम्भे

गुरून् देवं नमस्कृत्य
ह्युपविश्याजिनासने

इत्यादि ।
सर्वत्र च शास्त्रीयकर्मारम्भे
स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरु-पङ्क्ति-प्रपदनं
निश्रेयसाय भवति ।
उक्तं च रहस्याम्नाय-ब्राह्मणे

स चाचार्यवंशो ज्ञेयो भवति,
आचार्याणाम् असाव् असाव् इत्य् आ भगवत्तः

इति । देवगुरुभक्तिरेव
सर्वतन्त्त्वप्रकाशकारणमिति कठवल्ल्यां श्रूयते -

यस्य देवे परा भक्तिर्
यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः
प्रकाशन्ते महात्मनः ॥

इति ।
[उक्तं क ख ग ङ् च झ]
स्मर्यते चापस्तम्बादिभिः

देवम् इवाचार्यम् उपासीत

इत्यादि ।

योगान्तं ध्यानम्

एवं मनोरथसिद्ध्यै गुरूपसत्तिपूर्वकं भगवन्तं प्रपद्य
भगवच्छास्त्रतदुपबृंहणनित्यगद्यस्तोत्रादिषु विप्रकीर्णोक्तध्यानं
यथावगमं समाहृत्यानुतिष्ठेत् । गुणोपसंहारपादोक्तन्यायेन
ध्येयरूपादिषु साधारणमसाधारणं च सर्वं
तत्तत्संहितादिविशेषानुसारेणावगन्तव्यम् ।

सप्रणवं व्यूहादिनामसङ्कीर्तनम्

एवं परिपूर्णं भगवन्तमनुसन्धाय ततो
वासुदेवादिव्यूहनामचन्तुष्टयं केशवादिव्यूहान्तरमानामानि
मत्स्यादिदशावतारनामानि अन्यान्यप्यधिगतानि पृथग्भूतानि
स्तोत्रनिबद्धनि देव्यादिनामानि च प्रहर्षजनकेनोच्चैःशब्देन सङ्कीर्तयेत् ।
तत्कालचिदितं समुचितं भगवन्मन्त्रं जपेत् । वेदाभ्यासं च
[तत्कालचोदितं भगवन्मन्त्रं वेदाभ्यासं च क; कालोचितं समिदितं
भगवन्मन्त्रजपवेदाभ्यासं च ख ग; तत्कालचोदितं
समुचितभगवन्मन्त्रजपं वेदाभ्यासं च घ च झ; तत्काले चोदितं ङ्
छ] यथाबलमाचरेत् ।

तत्र वासुदेवादि-कल्कि-पर्यन्त-सङ्कीर्तनं
प्रणवपूर्वकं मन्त्रात्मकं
पारमेश्वरे प्रोक्तम्

सम्प्रबुद्धः प्रभाते तु
उत्थाय शयने स्थितः ।
नाम्नां सङ्कीर्तनं कुर्यात्
षोडशानां प्रयत्नतः ॥

यथास्थितक्रमेणैव भेदांस्त्वेतान् [भेदास्त्वेते ङ् छ] हरेर्विभोः ।
नमस्कुर्यात् प्रभाते तु योगान्ते तु दिनक्षये ॥

शब्देनोच्चतरेणैव संहृष्टिजनकेन तु ।
स्तोत्राणि चाथ मन्त्राणि [मन्त्राणि इति नपुंसकान्तत्वेनैव सर्वेषु कोशेषु
दृश्यते] उदीर्यान्यानि वै ततः ॥

इति । एवं च सङ्गृहीतं वङ्गिवंशेश्वरैः -

चिकीर्षनीप्सितं कर्म तन्नामान्यनुकीर्तयेत् ।
चतुर्भिर्वासुदेवादैर्नामभिः सह संयतः ॥

जपेद् द्वादशनामानि केशवादीनि चादरात् ।
दशावतारनामानि मत्स्यकूर्मादिकान्यपि ।
जपन्नुत्थाय शयनादर्चयिष्यन् सदा हरिम् ॥

इति ।

सन्ध्यापूर्व्कालकर्तव्यक्रमः

एवमुच्चैस्तरेण [उच्चैःस्वरेण च] शृण्वतामपि सकलदुरितहारिणा
[दुष्कृतहारिणा घ] हरिसङ्कीर्तनेन संहृष्टमानसः
सन्ध्यायामासन्नायां सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितं
भगवन्तमुपासितुं जिगमिषुः

[हरिं ब्रवम्स्तल्पदुत्थाय क च झ] हरिर्हरिर्ब्रुवंस्तल्पादुत्थाय
भुवि विन्यसेत् ।
नमः क्षितिधरायोक्त्वा वामं पादं महामते ॥

इति पारमेश्वरादिपठितेन नमःपूर्वेण क्षितिधरलिङ्गेन मन्त्रेण
महावराहं क्षितिधरमनुध्यायन् वामपादं भूमौ विन्यस्येत् । ततो
भूधरमन्त्रेण वामपादं भुवि इत्यपि स एव मन्त्र उच्यते । तत्र
क्षितिधरणसाम्यात् कूर्मादिरूपान्तरशङ्कादासाय श्रीमद्वाराहमन्त्रेण
न्यस्येद्वामपदं भुवि इति विशेषशब्देन व्याचख्युः । महावराहमहिप्या
भुवः प्रपदनं चात्र महाभारतादिषु समन्त्रकमुपदिश्यते नमोऽस्तु
प्रियदत्तायै तुभ्यं देवि वसुन्धरे इति । पृथिव्याः प्रियदत्तेति कीर्तनं च
विष्णोः ब्रह्मण्यदेवेति कीर्तनवत् अनवसादहेतुत्वेन स्मर्यते -

पृठिव्यां प्रियदत्तेति गायन् सर्वंसहेति वै ।
विष्णुऽम् ब्रह्मण्यदेवेति [किर्तनवत् इत्यारभ्य ब्रह्मण्यदेवेति इति यावत् क
ख ग झ कोशेषु नास्ति] कीर्तयन्नावसीदति ॥

इति ।

ततः पदक्रमान् कुर्वन् विष्णुक्रमणमन्त्रेण पादेन्द्रियाधिदैवतं
त्रिविक्रमं विष्णु ध्यायेत् । क्रान्ते विष्णु बले हरिम् इति पदविक्षेपे
विष्णोरनुध्येयतोक्तेः तदनुसन्धानस्य च
तत्तदुचितशास्त्रीयप्रकाशकसापेक्षत्वात् । इति सन्ध्यापूर्वकालकर्तव्यक्रमः ।

स्नानाय निर्गमनं देशवध्यानं च

ततः स्नानीयदर्भतिलवस्त्रादिकं दृष्टादृष्टार्थं स्नानोपकरणं
सर्वं समाहृत्य तमस्तिरोहितदुष्टजन्तुपलायनार्थं निर्गममार्गं
सञ्चालयेत् । यथोक्तं पारमेश्वरे बहिर्निर्गममार्गं तु सञ्चाल्य इत्यादि । ततो
गृहान्निर्गच्छन् केशवमनुध्यायेत् व्रजंश्चिन्तय केशवम् इति स्मरणात् ।
केशशब्देन अंशवो ये प्रकाशन्ते यदादित्यगजं तेजः इत्याद्युक्तांशव
उच्यन्ते तद्व्त्त्वात् केशवः । गच्छतो मार्गादिप्रकाशनार्थं
दिङ्मोहाद्यान्तरतमोनिरासार्थम्

क इति ब्रह्मणो नाम् ईशोऽहं सर्वदेहिनाम् ।
आवां तवाङ्गे सम्भूतौ तस्मात् देशवनामवान् ॥

इति ब्रह्मरुद्रोपलक्षितविश्वसृष्टिरक्षाहेतुत्वात्
केशिवधोपलक्षितसर्वदुष्टदमनस्वभावत्वाच्च असहायदशासाहाय्यार्थं
च [च इति क ख ग कोशेषु नास्ति] तदा तच्चिन्तनम् ।

विण्मूत्रविसर्तजन्ं शौछविधिश्च

ततः स्वाश्रमादिभ्यो बहिः नैऋत्यां दिशि द्वेत्रेषुपातप्रमितां
भुवमतिक्रम्य शुद्धदेशे निक्षिप्तस्नानोपकरणो
यथोक्तनियमैर्विण्मूत्रविसर्जनं कृत्वा
स्ववर्णाश्रमावस्थाद्यनुगुणादृष्तार्थमृत्सङ्ख्यावर्णपरिमाणादिनिय
मवद्गन्वलेपक्षयकरम् अर्शःपीडादिरहितं शौचं कुर्यात् । अत्र
मूत्रपुरीषयोरेकस्य प्रवृत्तौ तस्यैव शुद्धिः । क्रमेणोभयप्रवृत्तौ
यथाक्रमम् । युगपत्प्रवृत्तौ पुरीषशुद्धिः प्रथममिति निषकर्षः
[निष्कर्षकाः घ ङ् छ] -

तत्र पाद्मे [तत्रैव पात्मे क ख ग च झ] उपवीतं कर्णदेशे विद्याय
च तृणादिना इत्यादिना विण्मूत्रविसर्जनप्रकारमुक्त्वा [अनन्तरमेव क च
झ] अनन्तरमेवं शौचविधिरुक्तः -

दक्षिणेतरहस्तेन गृहीत्वा मेहनं ततः ।
दक्षिणे मृत्तिकां हस्ते समुत्थाय जलाशयम् ॥

प्रागुदीच्यामुदीच्यां वा गत्वा शौचं समाचरेत् ।
मृत्तिकाभिर्द्वादशभिर्गुदं षड्भिश्च मेहनम् ॥

अन्तरा चान्तरा वामं करं प्रक्षाल्य वारिभिः ।
तन्मात्राभिस्तदन्ते द्वौ करौ द्वादशसङ्ख्यया ॥

संशोध्य च करौ जङ्घे कटिं चोरू च वारिभिः ।
प्रत्येकं मृत्तिकामात्राचतुष्केण विशोधयेत् ॥

इति । पितामहस्तु सनत्कुमाराय एवमाह -

ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत् ।
उदीचीं प्रागुदीचीं वा शौचाचारक्षमां दिशम् ॥
यत्रोदकं प्रभूतं तु तद्गत्वा शौचमाचरेत् ॥

इति । स्मरन्ति च देशादिभिन्नं शौचम् -

देशं कालं [तथा ज्ञानं क ख च] तथात्मानं द्रव्यं
द्रव्यप्रयोजनम् ।
उपपत्तिमवस्थां च ज्ञात्वा शौचं समाचरेत् ॥

इति । दिवसादिभेदेनापि शौचतारतम्यं स्मर्यते -

अह्नि यच्छौचमुद्दिष्टं निश्यर्धं तु ततो भवेत् ।
पथि पादस्ततः प्रोक्तो यथाशक्त्यातुरस्य तु ॥

इति । पारमेश्वरे तु प्रावृडादिकालभेदेनापि
मृत्सङ्ख्याभेदादिकमुक्तम्-

अस्पृष्टतीर्थः [शौचाद्यं घ ङ् छ; शौचार्थं क ख ग झ] ।
गन्धलेपक्सयकरं शौचं कुर्यादतन्द्रितः ॥

तिस्रो लिङ्गे मृदो देया एकैकान्तरमृत्तिकाः ।
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुधये ॥

मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ।
अर्थप्रसृतिमात्रं तु प्रथमा मृत्तिका स्मृता ॥

द्वितीया च तृतीया च तदर्घं [तदर्धा ख ग घ ङ् छ] परिकीर्तिता ।
बिडालापदमात्रं तु तदूर्ध्वं परिकीर्तिता ॥

पञ्चापाने मृत्तिकाः स्युस्तथैवान्तरमृत्तिकाः ।
दश वामकरे देयाः सप्त तूभयहस्तयोः ॥

पादाभ्यां तिल्सृभिः शुद्धिर्जङ्घाशुद्धिश्च पञ्चभिः ।
नियोजयेत्ततो विप्रः [विप्र क ख] कट्यां वै सप्त मृत्तिकाः ॥

स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ।
भक्तानां शोत्रियाणां च वर्षास्वेवं निरूपितम् ॥

प्रावृट्सुक्तासु वै तस्मादेकमृद्व्यापनोदनम् ।
शरद्ग्रीष्मवसन्तेषु नित्यं कार्यं क्रियापरैः ॥

[एकस्मात् क ख ग च झ] एतस्मादपि चैकैका परिलुप्या [परिपाल्या
घ कोशादन्यत्र] तु मृत्तिका ।
हेमन्तशिशिरे विप्रैः [विप्र घ ङ् छ] शोत्रियैः संयमस्थितैः ॥

पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ।
गन्धलेपमपास्यैवं [अपास्यैव क ख ग च झ] मनःशुद्ध्या
विशुध्यति ॥

विहिताः पादशौचे तु बिडालपदसम्मिताः ।
मृदश्चतुर्द्विजेन्द्राणां त्रिर्द्विरेका क्रमात् ततः ॥

वर्णानां शुद्रनिष्ठानां कटिशौचे तथैव हि ।
सप्त सप्त उभाभ्यां तु कराभ्यां त्रितयं पुनः ॥

सर्वेषामेव सामान्यं पाणिशौचमुदाहृतम् ।
अन्तर्जानुगतं कृत्वा भुजयुग्मं द्विजोत्तमः ॥

चतुर्धा मणिबन्धस्थं तोयं कृत्वा सुनिर्मलम् ।
बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः ॥

एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ।
पाणिना क्षालितेनैव पुनराचामयेद्बुधः ॥

इति ।

आचमनं दन्तधावनं च

आचमनप्रकाराश्च बहुधा धर्मशास्त्रेषु भगवच्छस्त्रेषु च प्रतिपादिताः ।
तत्र स्वसूत्रोक्तमन्यद्वा यथाधिगममाचमनं [यथाशक्त्यधिगमं
छ ज] कुर्यात् । आचमनोक्त्यनन्तरं च पारमेश्वरे
दन्तधावनमुखशोधनप्रकार उक्तः -

एव प्रक्षाल्य विधिवदाचम्य प्रयतः शुचिः ।
प्राङ्मुखोदङ्मुखो वापि उपविश्यासने ततः ॥

अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ।
प्रातर्हृत्वा च मृद्वग्रं कषायकटुतिक्तकम् ॥

भक्षयेद्दन्तकाष्ठं च दन्तमांसान्यबाधायन् ।
द्वादशाङ्गुलमात्रं तु वक्रग्रन्थिविवर्जितम् ॥

पयोभिः सह तर्जन्या ब्रह्मन् द्वादशसङ्ख्यया ।
काष्ठलाभे तु रोगे वा कर्तव्यं दन्तधावनम् ॥

षोडशाङ्गुलदीर्धैष्तु वक्रग्रन्थिविवर्जितैः ।
हेमादिनिर्मितैर्वापि कुशदर्भादिभिस्तथा ॥

जिह्वानिर्लेखनं चैव गण्डुषमुखधावनम् ।
कुर्यादाचमनं विप्रः[विप्र घ] शुचिना [शुद्धेन घ ङ्
छ] सलिलेन च ॥

इति ।

अत्र अर्कादिभिरित्युक्तं तत्रैव विवृतम् -

अर्कन्यग्रोधखदिरकरञ्जककुभादिकम् ।
शरजोदुम्बराश्वत्थप्लक्षदर्भांश्च वैणवान् ॥

आम्राङ्कुरमपामार्गमर्जुनं धातकीं शमीम् ।
अन्यानि च पवित्राणि तेषु सम्पन्नमाहरेत् ॥

इति । अत्राभक्षणीयस्यापि काष्ठस्य भक्षणोक्तिः
भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था । पाद्मेऽप्येवं
दन्तधावनमुक्तम्-

आचम्य प्राङ्मुखो भूत्वा दन्तधावनमाचरेत् ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षाम्रार्जुनधातकी ॥

पलाशवेणुखदिरशमीदारूणि धावने ।
तन्दानामुदितान्येकादश चाम्भोरुहासन ॥

दन्तधावनकाष्ठं च द्वादशाङ्गुलमायतम् ।
ब्राह्मणक्षत्रियविशां क्रमेणैतदुदाहृतम् ॥

इति । अत्र [सर्वत्र प्रतिषिद्धानां घ ङ् छ] सर्वप्रतिषिद्धानां
वर्जनं [सर्वत्र विहितानां घ ङ् छ] सर्वविहितानामुपादानं च ।
द्वचिद्विहितानां द्वचिच्च प्रतिषिद्धनां गत्यभावे ग्रहणमिति निष्कर्षः । एवं
सर्वत्र भाव्यम् ।

यथोक्तलक्षणं च दन्तकाष्ठं समन्त्रकं गृहीत्वा आयुर्बलम्
इत्यादिस्मार्तमन्त्रपूर्वकं प्रादैषिण्येन प्रथममधरतो दन्तधावनं
कुर्यात् । काष्ठालाभादिसशासु तत्ततरुपर्णैस्तृणैर्वा तेषामप्यभावे
द्वादशगण्डुषैर्मुखशुद्धिः । उक्तं चैवं नारायण-मुनिभिः-

तीर्थं संशोध्य, सङ्क्षाल्य
पादाव् आचम्य वाग्-यतः
तृणैर् वा शास्त्र-संसिद्धैर्
वटार्क-र्खदिरादिभिः ।
दन्तान् संशोध्य निर्लिख्य
जिह्वां गण्डुषयेन् मुहुः ॥

इति । स्मरन्ति च-

अलाभे दन्त्काष्ठानां प्रतिषिद्धदिनेष्वपि ।
अपां द्वादशगण्डुषैर्मुखशुद्धिर्भविष्यति ॥

इति । अत्र

प्रतिपत्पर्वषष्ठीषु चतुर्दश्यष्टमीषु च ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥

अष्टम्यां च चगुर्श्यां पञ्चदश्यां त्रिजन्मसु ।
तैलं मांसं व्ययायं च दन्तकाष्ठं च वर्जयेत् ॥

इत्यादिभिः प्रतिषिद्धदिनानि ग्राह्याणि । दन्तशुद्ध्यनन्तरं दन्तकाष्ठं
क्षालयित्वा भङ्क्त्वा शुद्धस्थले प्रक्षिपेत् ।

स्नानार्हतीर्थम्

तत्र यच्छुद्धेः पुर्वं जलाशयगमनमुक्तं तत्र भागवतं
भागवताश्रितं च तीर्थं विवक्षितं । यथाहुः- तीर्थं भागवतं
शुद्धमुपगच्छेन्मनोहरम् इति । ततस्तीर्थं समाश्रित्य शुद्धं
भागवताश्रितम् इति च । स्मरन्ति च-

जलं शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः ।
विष्णुगङ्गासमं तीर्थं महापातकनाशनम् ॥

भवद्विधा भागवतीस्तीर्थभूताः स्वयं प्रभो [विभो घ] ।
तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदाभृता ॥

ये भजन्ति जगद्योनिं वासुदेवमनीश्वरम् ।
न तेभ्यो विद्यते तीर्थमधिकं राजसत्तम् ॥

यत्र भागवताः स्नानं कुर्वन्ति विमलाशयाः ।
तत्तिर्थमधिकं विद्धि सर्वपापप्रणाशनम् ॥

इति ।

स्नानविधिः तत्र द्रष्टव्यम्

एवं गृहीतस्नानोपकरणस्तीर्थमासाद्य मुखशोधनपर्यन्तं कृत्वा
वक्ष्यमाणक्रमेण तीर्थावगाहनादिपूर्वकं सर्वक्रियामूलभूतं
स्नानमाचरेत् । प्रातःस्नानस्य नित्यत्वं प्रभावश्च तत्र तत्र [अत्र घ;
तत्र तत्र क ख ग ङ् च झ] वर्णभेदेन स्नाननियमं स्मरन्ति
पितामहादयः -

अपोऽवगाहनं स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत् प्रोक्षणं चापि द्विजातीनां विशिष्यते ॥

इति । तत्र शक्तस्य वारुणमेव स्नानम् । तदशक्तस्य तु-

गौणस्नानानि

न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि ।
न चान्यवस्त्रमाच्छाद्य नाविज्ञाते जलाशये ॥

इत्यादिभिस्तत्प्रतिषेधात् स्नानान्तराणि भवन्ति । तेषु च
वारुणानन्तरमाकण्ठस्नानम् अशक्तावशिरस्कं वा इति स्मराणात् ।
तत्राप्यशक्तस्य [असमर्थस्य घ] कापिलम् । तस्मिन्नप्यशक्तस्य
तत्तच्छास्त्रोदितेषु पार्थिवाग्नेयवायव्यदिव्य[पार्थिववायव्यमान्त्र क
झ]
मान्त्रमानसात्मध्यानपञ्चाङ्गपुरुषान्तरकृतस्पर्शपूर्वका[स्पृ
ष्टिपूर्व्व्क घ ङ् छ]वगानरूपेषु स्नानान्तरेषु तत्कालसम्भावितम् ।
तत्रापि स्वशक्यं कुर्यात् । आह चैवं क्रतुः -

प्राक्छौचं स्नानमादेयं ब्राह्मं वा स्नानमिष्यते ।
वृद्धातुराणामुष्णाद्भिर्योगाङ्गैर्वा यमादिभिः ॥

इति । अत्र यधाधिकारमिति विवक्षा । एवं चोक्तं पारमेश्वरे -

विना विविधसम्पर्करिः पञ्चाङ्गं स्नानमाचरेत् ।
मुखं करद्वयोपेतं पादौ कटितटावधि ।
स्त्रीसङ्गाद्युपघातेषु स्नानं कुर्याद्यथाविधि ॥

इति । शीतोदकस्नानासमर्थस्य उष्णोदकस्नानम् । तच्चनुपहतस्याप्रतिषिद्धेषु
दिवसेष्वेव । एवं शक्त्याद्यनुगुणं स्नानं कुर्यात् । बलानुरूपं च स्नानं
प्रत्येकं समुदितं वा सञ्जगृहुः -

दिव्याप्यमान्त्रवायव्यभौमतैजसमानसैः ।
एतैः समस्तैर्यस्तैर्वा कृतशुद्धिर्यथाबलम् ॥

इति । अन्यथा त्वकर्मण्यो भवति स्नामुलाः क्रियाः सर्वाः इति विधानात् । अत्रिश्च
स्नानजपहोमदानानां नित्यत्वमाह -

अस्नाताशी मलं भुङ्क्ते अजपः पूयशोणितम् ।
अहुताग्निः कृमिं भुङ्क्ते अदाता कीटमश्नुते ॥

इति ।

सन्ध्योपासनम् अर्घ्यदानं च

एवं स्नातः कृतोर्धपुण्ड्रः स्नानाङ्गं
भगवदात्मकदेवर्षिपितृतर्पणं कृत्वा आचम्य
मन्त्रप्रोक्षणमन्त्राचमनपुनःप्रोक्षणस्वात्मपरिषेचनानि
स्वसूत्रसंहितोक्तप्रकारेण कृत्वा [कृत्वा इति पदं घ कोशादन्यत्र न
दृश्यते] गायत्र्याभिमन्त्रितजलमादित्यान्तःस्थिताय
परमात्मनेऽर्घ्यरूपं दद्यात् । अत्र जलाञ्जलिप्रक्षेपस्त्रिरिति सनत्कुमाराय
पितामहः प्राह -

उभाभ्यां तोयमादाय गस्ताभ्यां सुसमाहितः ।
गायत्र्या चाभिमन्व्यापस्तारव्याहृतिपूर्वया ।
रवेरभिमुखस्तिष्ठन्नुर्ध्वं त्रिः सन्ध्ययोः क्षिपेत् ॥

इति । ततो वज्रीभूततज्जलनिहतमन्देहाख्यरक्षोनिरसनपाप्मावधूननार्थं
प्रदक्षिणं प्रक्रम्य [परिक्रम्य क च झ] मार्गशीर्षादिमासेशान्
केशवादीन् [देशवादीन् इति पदं घ कोश एव विद्यते] गायत्रीमावाह्य
अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरां वा
[अष्टोत्तर्सहस्रमष्टोत्तरशतं गायत्रीं ख;
अष्टोत्तरसहस्रमष्टोत्तरशतं वा गायत्रीं ग;
अष्टोत्तरसहस्रमष्टोत्तरशतं यथाशक्ति दशावरं वा गायत्रीं घ;
अष्टोत्तरसहस्रमष्टोत्तरशतं वा यथाशक्ति गायत्रीं इति
निक्षेपचिन्तामणौ] गायरीं जपेत् ।

न चङ्क्रमन्न च हसन्न पार्श्वमवलोकयन् ।
न पदा पादमाक्रम्य न चैव हि तथा करौ ॥

इत्यादयश्च जपकालनियमाः ।

अष्टाक्षरजपः

मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः ।
मद्याजिनो मन्नियमास्तान् प्रयत्नेन पूजयेत् ॥

तेषां तु पावनायाहं नित्यमेव हुधिष्ठिर ।
उभे सन्ध्येऽधिष्ठामि ह्यस्कन्नं तद् व्रतं मम ॥

तस्मादष्टाक्षरं मन्त्रं [अत्र च मन्त्रशब्दः सर्वेषु कोशेषु च
नपुंसकान्तत्वेन दृश्यते] मद्भक्तैर्वीतकल्मशैः ।
सन्ध्याकालेषु तप्तव्यं सततं चात्मशुद्धये ॥

इति श्रीवष्णवधर्मशास्त्रोक्तशीमदष्टावक्षरजपोऽपि यथाशक्ति
सन्ध्यायामवसरे कार्यः [सढ्यायामेव कार्यः इति च कोशे
पाठान्तरतया निर्दिष्टम्]
प्राणायामेन शत-कृत्वः
प्रणव-व्याहृति-सम्भेद-विशेषेण दशकृत्वो [वा]
गायत्रीजपं सहस्रतुल्यं
बोधायनादयः स्मरन्ति च फलतारतम्यं स्मर्यते ।
तत्रैषा काष्ठा-
अनन्तं विष्णुसन्निधौ इति ।

गणनायां च कराक्षसूत्रयोर्
यथाशक्ति विकल्पतः करणत्वम् ।
उक्तं च जयाख्य-संहितायां,

जपन्तु द्विविधं कुर्याद्
अक्षसूत्र-करार्पितम् ।

इति ।
अक्षसूत्रार्पितं करार्पिर्तं वेत्यर्थः ।

तदेव च विशेषितं श्रीसात्त्वते -

स्फाटिकेनाक्षसूत्रेण
स्वकैर्वा करपर्वभिः

इति । अत्र
स्फाटिकेनेत्य्-अक्षमाला-वर्गोदाहरणं,
शास्त्रान्तरे पद्माक्ष-मालादीनाम् आधिक्य-स्मरणात् ।
फल-विशेषार्थं तु मणि-मुक्तामयाद्य्-अक्षमाला-भेदाः ।
प्रतिष्ठा-विशेषादि-नियमाश् च तत्र तत्र प्रपञ्च्यन्ते,
करेऽपि शङ्ख-पद्मादि-मुद्रा-भेदाश्च ।
[शङ्खपद्ममुद्राश्च ङ् छ] ।
तत्रैष सारः

कनिष्ठामूलम् आरभ्य
प्रादक्षिण्यक्रमेण तु ।
अनामिकान्तं देवेश
जपेत् कोटिसहस्रकम् ॥ [देवेशि घ ङ् छ]

इति । बोधायनीये तु श्रीमद्-अष्टाक्षर-विधाव् एवमुक्तम् –

क्रिया-यागाच् छतगुणो
जप-यज्ञः प्रकीर्तितः ।
उच्चाच् छतगुणो ज्ञेयः
उपांशुश् चेत् स्मृतस्सदा ।
उपांशोर् मानसः प्रोक्तः
सहस्रं गुणतोऽधिकः ॥

इति । अन्यद् अपि तत्रोक्तम् —

जपमध्ये गुरुर् वापि
वैष्णवो यस् समागतः ।
सम्भाषणादि-पूजान् तु
तस्य कृत्वानुमान्य च ।
अनुज्ञाप्य ततः कृत्वा
जपशेषं समाहितः ।

सर्वस्य प्रभवो यस्मात्
विष्णुपादाश्रया नराः ।
तन्-मूलतः क्रियास् सर्वाः
सफलास्तु भवन्ति हि ॥

इति ।

नारदीये श्रीमद्-अष्टाक्षर-ब्रह्म-विद्यायां

सर्वस् सप्रणवो जप्यः
जपाद् अप्रणवाद् अपि ।
सहस्र इति विज्ञेयं
प्रणवो ह्य् अक्षरं परम् ॥
असङ्ख्याताच् च सङ्ख्यातः
सहस्रगुण उच्यते ।
सङ्ख्याताद् अपि साहस्रः
सोर्ध्वपुण्ड्रतनोर् जपः ॥

इत्युक्तम् ।

एवम्

विधियज्ञाज् जपयज्ञो
विशिष्टो दशभिर्गुणैः ।
उपांशुः स्याच् छतगुणः
सहस्रो मानसः स्मृतः ।

उच्चैर् जपाद् उपांशुः स्याद्
विशिष्टो दशभिर्गुणैः ।
जिह्वाजपः शतगुणः
सहस्रो मानसः स्मृतः ॥

इत्य्-आदिकम् अपि द्रष्टव्यम् ।

सूर्योपस्थानम्

एवमा सूर्योदयात् पूर्वोत्तराशाभिमुखस्त्वपरोत्तरदिङ्मुखः
इत्यादिस्मृत्यनुसारेण प्राङ्मुखः प्रागुदङ्मुखो वा तिष्ठन्
गायत्रीमावर्त्य पूर्ववत् कृतप्राणायामत्रयः
सन्ध्योपस्थानसङ्कल्पपूर्वकम् उत्तमे शिखरे इति मन्त्रेण
गायत्रीमनुज्ञाप्य स्वसूत्रोक्तैर्मन्त्रैरादित्यमण्डलान्तःस्थितं
भगवन्तमुपस्थाय सप्रदक्षिणं
भगवदात्मकसन्ध्यादिपञ्चकनमस्कारं कृत्वा

स यश्चायं पुरुषे यश् चासाव् आदित्ये स एकः

इत्यधीतं हृदयान्तःस्थितं परमात्मानम्
अभिवाद्य प्रणम्य
[दिगादिनमस्कारमपि पूर्वपूर्वोपदेश
क ख ग च झ]
दिग्-आदि-नमस्काराणाम् अपि
स्व-पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यम् अस्ति चेत्
तत्रापि भगवद्-आत्मकत्व-ध्यान-पूर्वकं प्रणमेत् ।+++(4)+++

एवं तु उपस्थानप्रकारं
पितामहः सनत्कुमारायाह-

एताभिः प्राञ्जलिर्नित्यं विस्पष्टोदितमण्डलम् ।
सहस्ररश्मिं भर्गं [भगवन्तं क ख ग] तमुपतिष्ठेद्दिवाकरम्

ततस्तस्मै नमस्कृत्वा
सन्ध्यायाः पञ्च देवताः ।
प्रदक्षिणनमस्कारैर्
दिशश्चैवोपतिष्ठते ।
परमात्मानमात्मानं
भावयित्वा द्विजोत्तमः [द्विजोत्तम ख ग घ] ॥

इति ।

आधारशक्त्यादितर्पणम्

तत आधारशक्त्यादिपारिषदान्तान् देवर्षिपितॄंश्च भगवदात्मकान् ध्यात्वा
प्रणवपूर्वकैस्तत्तनामभिः सन्तर्प्य शुचौ [देशे क ख ग] स्थले
स्नानवस्त्रं निष्पीड्य आचम्य आवाहिततीर्थं मन्त्रांश्च स्वात्मनि समाहरेत् ।

यद्य् अप्य् आर्षी वैष्णवी प्राजापत्येति त्रिधा सन्ध्योपास्ति-भेदाः
[आत्मनि क च झ]
तत्तत्संहितासूच्यन्ते तथापि तासां संहितानां
लुप्तप्रायत्वेन तत्तत्प्रकाराणां दुर्ज्ञानत्वात् पारमेश्वरपरमसंहितादिषु
परि[परिदृश्यमान क ख ग च झ]
पूर्णदृश्यमानसन्ध्योपासनप्रकारभेदानामपि
यथावदुपदेशानुष्ठानपारम्पर्यासिद्धेः भगवच्छास्त्रसंहितास्वेव
[स्वसूत्रसंहिताचार क ख ग च झ]
स्वसूत्रोक्तसंस्काराचाराभ्यनुज्ञानात् प्रथम-परिगृहीत-परित्यागे निर्बन्धाभावात्
यथा-सूत्रम् अनुष्ठानेऽपि भगवत्-समाराधन-रूपत्व-सिद्धेः
स्वसूत्र-विहितम् एव सन्ध्योपासनादिकं कर्तुम् उचितम्
[सन्ध्योपासनादिकं क झ;
सन्ध्योपस्थानादिकं ख ग च]। +++(5)+++

उक्तं हि नारदीये
स्वसूत्रविहितान् वापि विषेकादीन् समाचरेत् इत्यादि ।
पाद्मे च शौचाचमन-दन्त-धावन-स्नानानि यथा-क्रमं विधायानन्तरम् एवं सन्ध्योपासनम् उक्तम् -

आचम्य प्रोक्षयेद् दर्भ-
वारिभिर् मन्त्रवत् तनुम् ।
ॐपूर्वया च गायत्र्या
वारिभिश् चाभिमन्त्रितैः ॥

आत्मानं परिषिच्योर्धमुत्क्षिपेत् सलिलाञ्जलिम् ।
योद्धुकामानि रक्षांसि सन्ध्ययोरुभयोरपि ॥

शाम्यन्ति तैर्वज्रभूतैर्हतानि प्रेरितैर्जलैः ।
प्रायश्चित्तं तु हिंसायाः परिक्रम्य प्रदक्षिणम् ॥

तर्पयेद् उपविश्याथ
स्वशाखोक्तैर् मन्त्रैर् ध्येयं हृदि स्थितम् ।
अभिवाद्य गुरून् वृद्धांस्
तथा भागवतान् क्रमात् ॥

इति । अत एव हि श्रीमद्भट्टारकैरुक्तम् -

प्रातरुत्थाय संस्मृत्य हरिं तच्चरणोत्थिताम् ।
गङ्गां विभाव्य [विगाह्य क च] तीर्थाम्भस्ततस्तदवगाह्य च ॥

श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मनः ।
आराधनर्वेनापाद्य सोर्ध्वपुण्ड्रश्च तर्पयेत् ॥

इति । तद्गुरुभिः श्रीवत्साङ्कमिश्रैरपि वटुकपूर्णाभ्यर्थनया
अभिगमनसारमुपदिशद्भिरादावुक्तम् प्रातरुत्थाय स्वगुरोश्चरणारविन्दे
स्वात्मानं समर्प्य कृतार्थं निर्भरं स्वात्मानमनुसन्धाय
स्नानादिकं स्वकर्म कृत्वा शुचौ देशे आसीनः इत्यादि ।
वङ्गिवंशेश्वरैश्च -

धृतोर्ध्व-पुण्ड्रो देव-र्षीन्
पितॄन् सन्तर्प्य मन्त्रतः ।
प्रयतः परया भक्त्या
स्व-कर्माराध्यम् अच्युतम् ॥ 73 [प्रपन्नः परया क च झ; प्रपत्तिपरया ख ग ङ् छ;
प्रपत्तिफलया घ; प्रयतः परया इति वङ्गीशकारिकापाठः]

आदित्य-मण्डलान्तःस्थं
प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां
सन्ध्येति परिकीर्तितम् ॥

श्रुतिस्मृत्युदितं कर्म
[श्रुतिस्मृत्युदितं सम्यक् घ;
श्रुतिस्मृत्युदितं सर्वम् इति कारिकापाठः]
स्ववर्ण-स्वाश्रमोचितम् ।
फलाभि-सन्धि-रहितं
परब्रह्मार्चनात्मकम् ॥

न्यस्य कर्तृत्वभोक्तृत्वे
स्वामित्वं च परात्मनि ।
नित्य-नैमित्तिकैः काम्यैः
कर्मभिश्च समन्वितः ॥

गायत्री-जप-पर्यन्तं
मन्त्राचमन-पूर्वकम् ।
सान्ध्यं कर्माखिलं साधु
समाप्य च यथाविधि ॥

ततः स्व-कर्म-भोक्तारम्
आदित्यान्तर्-अवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैर्
नारायणम् अतन्द्रितः ॥

इत्यादि ।

सन्ध्यर्घ्ये भगवद्-अर्घ्यत्व-भावनम्

अत्र गायत्र्यभिमन्त्रिजलाञ्जलिप्रक्षेपे भगवदर्थ्यरूपत्वमपि भावनीयतया
सङ्गृहीतं नारायण-मुनिभिः -

“आपो ही"त्य्-आदिभिर् मन्त्रैर्
वाचकैः परमात्मनः ।
सम्प्रोक्ष्य मन्त्राचमनं
मन्त्रैस् तत्-प्रतिपादकैः ॥

आदित्यान्तः-स्थितस्यार्घ्यं
वितीर्य परमात्मनः ।
प्रतिपादिकया विष्णोः
सावित्र्या तं जपेद् +धरिम् ॥

ध्यायन् जप्त्वोपतिष्ठेत
तम् एव पुरुषोत्तमम् ।
नारायणात्मकान् देवान्
ऋषीन् सन्तर्पयेत् पितॄन् ॥

तत आधार-शक्त्य्-आदीन्
सर्वान् पारिषदान्तकान् ।
सम्पीड्य तीरे तद्-वस्त्रं
पुनर् आचम्य वाग्-यतः
पाषण्डादिभिर् आलाप-
दर्शनादीनि वर्जयेत्

इति ।

सन्ध्यानादरे दोषः

यथोपदिष्टसन्ध्यानादरे च दोषं स्मरन्ति -

अनागतां तु ये पूर्वामनतीतां तु पश्चिमाम् ।
सन्ध्यां नोपासते विप्राः कथं ते ब्राह्मणः स्मृताः ॥

सायं प्रातः सदा सन्ध्यां ये न विप्रा उपासते ।
कामं तान् धार्मिको राजा हीनमर्मसु [शुद्रकर्मसु घ ङ् छ]
योजयेत् ॥

इति । स एष सन्ध्याक्रमः ।

ब्रह्मयज्ञः

अथ ब्रह्मयज्ञं प्रत्यक्षतैत्तिरीयश्रुत्याद्यनुसारेण उदित आदित्ये कुर्यात्
माध्यन्दिनानन्तरं वा भोजनात् पूर्वमेव[माध्यन्दिनान्तरमेव वा
भोजनात् पूर्वं क ख झ] वा यत्र द्वचिदवसरे वा ।

तीर्थासन्नभगवदालयप्रणामः

तीर्थस्नानसमनन्तरं महाभारतोक्तप्रकारेण तीर्थासन्नविष्ण्वायतनं च
नमस्कुर्यात् । भगवन्मन्दिरप्रवेशदशायां कर्तव्यस्य दिङ्मात्रं
दर्शितं श्रीसात्त्वते -

प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ।
अश्वत्थं च वटं धेनुं सत्समुहं गुरोर्गृहम् ॥

दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः ।
दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् ॥

न यानपादुकारुढो न सोपानत्कपादभृत् ।
न विक्षिप्तमना भूत्वा संविशेद्भगवद्गृहम् ॥

इति ।

तत्र च प्रदक्षिणानि प्रणामाश्च युग्मान् कुर्यात् एकत्रिपञ्चसप्तादिगणना
विषमं हि यत् इति विषमप्रतिषेधात् । प्रवेशे निर्गमे चैव विष्वक्सेननतिं चरेत्
इति विधानात् विष्वक्सेनं तत्तद्द्वारपालांश्च प्रणम्यानुज्ञाप्य तत्र तत्र
प्रविशेत् [तत्र प्रविशेत् क ख ग झ] ।

चक्रवद् भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ।
पश्चाद्भागेन निर्गच्छेद् देवतासन्निधौ सुधिः ॥

इति । प्रविष्टश्चाष्टाङ्गेन तत्तद्देशकालशक्येन
मस्तिष्कसम्पुटप्रह्वाङ्गपञ्चाङ्गदण्डादिषु अन्यतमेन वा प्रणमेत् ।
तत्राष्टाङ्गप्रणामं

प्रणामप्रकाराः

मनोबुध्यभिमानेन सह न्याय धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥

इति सात्त्वतोक्तमुदाहरिष्यति भाष्यकारः । मस्तिष्कादिपञ्चकं तु
श्रीवैखानसशास्त्रे पठितम् -

स मस्तिष्कप्रणामः स्यादञ्जलिं मस्तके न्यसेत् ।
प्रणामः सम्पुटः स स्याद्धृदयेऽञ्जलिमर्पयेत् ॥

प्रल्हादः सम्पुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ।
पादाङ्गुलिभ्यां जानुभ्यां शिरसा चावनिं स्पृशन् ॥

बद्धञ्जलिर्नमस्कुर्यात् स पञ्चाङ्ग उदाहृतः [उदीर्यते घ ङ्
छ] ।
पादौ हस्तौ प्रसार्यैव शेते भुमौ च दण्डवत् ।
स दन्ण्डाङ्गप्रणामः स्यात् प्रणामानेवमाचरेत् ॥

इति । सङ्कर्षणसंहितायां सुकृतप्रणामप्रकरणे त्वेवं प्रणाम उक्तः ##-

लल्लटेदरजान्वङ्ध्रियुगाग्रानूर्ध्वगौ करौ ।
भुमौ सन्धाय मनसा वासुदेवमनुस्मरन् ॥

इति । एवं चाष्टाङ्गप्रणामः स्मर्यते -

उरसा शिरसा वाचा मनसा च कपोलतः ।
पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग उच्यते ॥

इति । रहस्याम्नायब्राह्मणे च नमस्कारप्रकरणे जानुभ्यां पाणिभ्यां
शिरसा च नन्तव्यं भवति इत्यादिना पूर्णनमस्कारस्वरूपादिकमुपदिश्य
तत्फलं चोक्तम्- सर्वैः करणैर्नमन् समग्रो नमति । समग्रो नमन्
आप्तकारि भवति । आप्तकारि भगवन्तमाप्नोति इति । एवं
द्वादशाङ्गप्रणामादिकं तत्र तत्र द्रष्टव्यम् । एकहस्तेन नमनं तु
श्रीभागवत् प्रतिषिद्धम् -

एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् ।
न्याय्यस्तस्य करच्छेद इति धर्मविदो विदुः ॥

इति । अञ्जलित्वमपि ह्यस्य [अञ्जलित्वमप्यस्य क ख ग च झ] नास्ति तौ
युवतावञ्जलिः पुमान् इति नैघण्टुकपाठात् । चामरग्राहिणीप्रभृतीनां तु
व्यापृतान्यहस्ततया एकहस्तनमनाभ्यनुज्ञा ।
अतोऽवज्ञादिमुलैककरनमने करच्छेददण्डानुशासनमिति यथा तथा वापि
सकृत् कृतोऽञ्जलिः इत्यादीनामविरोधः [इत्यादीनामप्यविरोधः घ] ।
योग्यतायां सत्यां द्वाभ्यां पाणिभ्यां प्रणमतोऽपि ऊनत्वमामनन्ति यथा
ह्ययम् देवलपाणिभ्यामेव नमति न जानुभ्यां न शिरसा एकेन ज्ञानेन
नमति स्पर्शविशेषज्ञानेन [स्पर्शविषयविशेष छ] हीयते । इतराणि
ज्ञानानि कर्मणः । एकेन नमन् ऊनो नमति । ऊनो नमन् अनाप्तकारि भवति ।
अनाप्तकारी न भगवन्तमाप्नोति इति । आवार्यनामग्रहणे [आचार्यदर्शने क
ख ग ङ् च छ झ] भगवन्नमग्रहणे [भगवतो नामग्रहणे
घ] च अञ्जलिबन्धादिकं तत्र तत्र ग्राह्यम् । दर्शितश्चायमाचारः
सम्भवपर्वणि व्यासप्रस्तावे महर्षेः कीर्तनात् तस्य भीष्मः प्राञ्जलिरब्रवीत्
इति ।

भगवत्सेवाप्रकारः

एवं यथारं प्रणम्योत्थितश्च [चकारः क च झ कोशेषु नास्ति]
भगवतः पुरस्ताद् दक्षिणतोऽवस्थाय गुरुपरम्परया भगवन्तं
शरणमुपगम्य पावनमनोहरतद्दर्शनानन्दबृंहितसर्वाङ्गः
प्रीतिपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् ।
भगवदर्चावतारदर्शनमाहात्म्यं [माहात्म्यशब्दो घ कोशादन्यत्र
नास्ति] चैवमुक्तं श्रीपौष्करे -

इति । अन्यत्र तु महतामपि पातकानां प्रायश्चित्ततया विधीयते - अहरेकं
हरेर्बिम्बमापीठादवलोकयेत् इति ।

आ पीठान्मौलिपर्यन्तं पश्यतः पुरुषोत्तमम् ।
पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥

इत्यादि च । स्तुतिसङ्कीर्तनादेश्च प्रभावः -

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥

कलौ सङ्कीर्त्य केशवम्

कलेर्दोषनिधे राजन्नस्ति ह्येको महान् गुणः ।
कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत् ॥

इत्यादिषु ग्राह्यः ।

भगवत्प्रसादस्वीकारप्रक्रिया

अत्र भगवत्प्रसादलब्धं तुलसीपादोदकादिकं यत्किञ्चिदपि
प्रणिपात्पुरःसरं हर्षोत्फुल्लकपोलः शिरसा सम्भाव्यः यथर्हमुपयुञ्जीत
। अत्र प्रतापभूपरचितस्तथाचमननिर्णयः इत्यादौ शिष्टाः पठन्ति -

[आम्रेक्षुखण्ड घ ङ् छ] आम्रेक्षुदण्डताम्बूलचर्वणे
सोमपानके ।
विष्ण्वङ्घ्रितोयपाने च नाद्यन्ताचमनं स्मृतं ॥

इति । तन्-मूलभूता चाथर्वण-श्रुतिर्
नारायण-मुनिभिः सङ्गृहीता

भगवान् पवित्रं, वासुदेवः पवित्रं, तत्-पादौ पवित्रं, [तत्पादौ पवित्रं क झ कोशयोः नास्ति]
तत्-पादोदकं पवित्रं, न तत्-पान आचमनं
यथा हि सोमे

इति ।

एवं भगवत्-सेवया ऽऽत्मानं कृतार्थं मन्यमानो भगवदनुज्ञया
द्वचिन्निभृतमुपविश्य जपादिभिरुपासीत ।

भगवन्मन्तिरे च तत्तच्छास्त्रोदितान् अपचारान् परिहरेत् । एवं तु श्रीवाराहे
पुराणे द्वात्रिंशदपचाराः पठिताः -

द्वात्रिंशदपचाराः

श्रीधरण्युवाच-

देवदेव जगन्नथ श्रुतं त्वत्तो मयाखिलम् ।
यान् कृत्वायोग्यतां यान्ति तव वेश्मप्रवेशने ।
तान् ब्रूहि देवदेवेश भक्तवत्सल माधव ॥

श्रीभगवानुवाच-

अपचारानह वक्ष्ये तच्छृणुष्व वसुढरे ॥

गीतवादित्रनृत्तदिपुण्याख्यानकथाश्च ये ।
लोपयन्त्यश्च पारुष्यैर्मम वेश्मसु मानवाः ॥

ते यान्ति वसुधे पापा नरकानेकविंशतिम् ।
ततस्तेऽपि महाभागे गार्दभीं योनिमाश्रिताः ॥

वर्तन्ते तत्र वै देवि सप्त जन्मानि सौकरीम् ।
वस्त्रेणाच्छाद्य देहं तु यो नरः प्रणमेत्तु माम् ॥

श्वित्री च जायते मूर्खस्त्रीणि जन्मानि भामिनि ।
कृष्णकम्बलसंवीतो यो नरः प्रणमेत्तु माम् ॥

चण्डालयोनितां याति जन्मानि [भुवि घ] नव पञ्च च ।
तैलेनाभ्यक्तसर्वाङ्ग उपानद्गूढपादकः ॥

यो नरः प्रविशेद् गेहं मम भूतधरे शुभे ।
स याति गृहपालानां योनौ [गृहजालानां योनिं घ ङ् छ]
जन्मत्रयं शुभे ॥

नखरोमाणि यश्चैव केशास्थीनि तथैव च ।
यः क्षिपेन्मम गेहेषु तस्य पापफलं शृणु ॥

माक्षिकीं योनिमाश्रित्य नखरोमचितस्तथा ।
सप्त जन्मानि तत्रैव नरकानेकविंशतिम् ॥

ताम्बूलं चर्वितं यस्तु प्रक्षिपेन्मम मन्दिरे ।
स याति नरकं घोरं यावदाभूतसम्प्लवम् ॥

ततो मुक्तो महाभागे शुनकोऽपरजन्मनि ।
संस्थितस्त्रीणि जन्मानि वसत्येव न संशयः ॥

निष्ठीवनकरो यस्तु मन्दिरे मम सुन्दरि ।
क्रिमिभक्ष्ये पतेद् घोरे नरके पापकृन्नरः ॥

श्लोष्मातकतरुर्भूत्वा जायते जन्मपञ्चकम् ।
श्माशानमध्ये गत्वा तु यो नरो मामथार्चयेत् ॥

सप्तजन्मकृतात् पुण्यात् तत्क्षणान्मुच्यते नर ।
सार्गाली [मारालीं घ] योनिमाश्रित्य वसेज्जन्मत्रयं शुभे ॥

मुत्रयेन्मन्दिरे यस्तु मम देवि शुभानने ।
स मूत्रगर्तनरके पतत्येव ह्यवाक्छिराः ॥

तस्मान्मुक्तस्तु रक्तादिनिम्बक[बिम्बकद्रुम ङ् छ]द्रुममास्थितः ।
जनिष्यति वरारोहे ह्यष्टजन्मानि सौकरीम् ॥

पुरीषं वा प्रकुर्वीत यो नरो मम मन्दिरे ।
स याति नरकान् घोरान् पर्यायेणैकविंशतिम् ॥

ततो मुक्तो महाभागे विष्ठायां जायते क्रिमिः ।
अनुगम्य तथा प्रतमिच्छया यस्तु मानवः ॥

आराधितुमथेच्छेन्मां स व्रजत्यधमां गतिम् ।
बलिभुग्योनितां याति जन्मानि भुवि भूधरे ॥

भरणं तु तथा कृत्वा मृत्कस्य वसुन्धरे ।
मन्दिरं न प्रवेष्टव्यं प्रविष्टस्य फलं शृणु ॥

चाण्डालीं योनिमाश्रित्य जन्मकृन्नव पञ्च च ।
भविष्यति वरारोहे व्याधः क्रूरोऽथ निष्ठुरः ॥

भुक्त्वा श्राद्धं महाभागे मनुजो मामथार्चयेत् ।
चटकत्वमनुप्राप्य ततो गोधावपुर्गतः ॥

छायामाक्रम्य यो मोहाद्विमानस्य वसुन्धरे ।
प्रदक्षिणमकुर्वस्तु यस्तिष्ठेन्मतिपूर्वकम् ॥

तिष्ठेत् स कानने शुन्ये कण्टकर्बहुभिर्वृतः ।
फलपुष्पविहीनश्च अरण्ये शून्यवृक्षताम् ॥

समिपे मन्दिरस्यापि शकृन्मूत्रं करोति यः ।
स तिष्ठेद्रौरवे घोरे वर्षाणामयुतं शतम् ॥

ततोऽपि मनुजो मुक्तो ग्रामसूकरजातिताम् ।
ग्रामे जन्मशतं सुभ्रु विष्ठाभूक् सूकरस्तथा ॥

अनिबद्धप्रलापान् ये कुर्वते मम सन्निधौ ।
तेऽपि तित्तिरितां गत्वा जायन्ते जन्मपञ्चकम् ॥

आरोपितं प्रदीपं ये नयन्त्यन्यत्र मन्दिरात् ।
अन्धास्तेऽपि भविष्यन्ति जन्मानि नव पञ्च च ॥

कथायां कध्यमानायां मन्दिरे मे वरानने ।
अनाहृत्य च ये यान्ति तेषां पापफलं शृणु ॥

बधिरास्ते भाविष्यन्ति मूका वै जन्मपञ्चकम् ।
पादौ प्रसार्य ये गेहे शेरते मे नराधमाः ॥

लालां विसृज्य चोच्छिष्टां तेषां पापफलं शृणु ।
तोयहीनेऽतिरौद्रे च वने वै शुन्यवृक्षताम् ॥

जायन्ते सप्त जन्मानि ततश्चण्डालतामियुः ।
दरिद्राश्चैव मूर्खाश्च भविष्यन्ति त्रिजन्मकम् ॥

अन्यदेवार्थसन्दिष्टैः पुष्पैर्यो मामधार्चयेत् ।
ममैव तु महागेहे मण्डूकत्वं व्रजन्ति ते ॥

जन्मद्वयं तु वै मूढाः शूद्रातां यान्ति ते नराः ।
अन्यदेवगृहं गत्वा ह्यस्नात्वा यो व्रजेद् गृहम् ॥

ममैव वसुधे तस्य फलं पापस्य मे शृणु ।
गृहाद् गृहमथो गत्वा भिक्षार्थी क्षुधितः स्वयम् ॥

भिक्षामलब्ध्वा तत्रापि दरिद्रो जायते नरः ।
चत्वारि चैव जन्मानि तेषामन्ते च योऽबुधः ॥

चण्डालयोनिमाप्नोति जन्मानि दश पञ्च च ।
अन्यदेवसमं यस्तु मन्यते मां तु सोऽधमः ॥

चण्डालयोनितां याति जन्मानि नव पञ्च च ।
कुसुमानां निवेद्यानां गन्धमाघ्राति यो नरः ॥

स पूतिगन्धसंयुक्तः कुष्ठी चैव धरे शुभे ।
भवै त्रीणि जन्मानि भवत्येव न संशयः ॥

विष्णुस्थानसमीपस्थान् विष्णुसेवार्थमागतान् ।
श्वपचान् पतितान् वापि स्पृष्ट्वा न स्नानमाचरेत् ॥

उत्सवे वासुदेवस्य यः स्नाति स्पर्शशङ्कया ।
स्वर्गस्थाः पितरस्तस्य पतन्ति नरके क्ष्णात् ॥

पिबेत् पादोदकं विष्णोर्वैष्णवानां विशेषतः ।
तत्र नाचमनं कुर्याद्यथा सोमे द्विजोत्तमः ॥

प्रकारन्तेरण द्वात्रिंशदपचाराः

इति श्रीवाराहे पुराणे धरणीप्रश्ने द्वात्रिंशदपचारो नाम
पञ्चचत्वारिञ्चात्र च उक्तानुक्तसमुच्चयः कार्यः । तत्रेयमेका प्रक्रियाः ##-

अपचारास्तथा विष्णोर्द्वात्रिंशत् परिकीर्तिताः ।
यानैर्वा पादुकरिवापि गमनं भगवन्दृहे ॥

देवोत्सवाद्यसेवा चाप्रणामश्च तदग्रतः ।
एकहस्तप्रणामश्च तत्पुरस्तात् प्रदक्षिणम् ॥

उच्छिष्टे चैव चाशौचे भगवद्वन्दनादिकम् ।
पादप्रसारणं चाग्रे तथा पर्यङ्कबन्धनम् ॥

शयनं भोजनं चैव [मिथ्या घ ङ् छ] मुधाभाषणमेव च ।
उच्चैर्भाषा वृथा जल्पो रोदनाद्यं च विग्रहः ॥

निग्रहानुग्रहौ चैव स्त्रीषु साकूतभाषणम् ।
अश्लीलकथनं चैवाप्यधोवायुविमोक्ष्णं ॥

कम्बलावरणं चैव परनिन्दा परस्तुतिः ।
शक्तौ गौणोपचारश्चाप्यनिवेदितभक्षणं ॥

ततत्कालोद्भवानां च फलादीनामनर्पणं ।
विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनादिषु ॥

पृष्ठीकृत्यासनं चैव परेषामभिवादनम् ।
गुरौ मौनं निजस्तोत्रं देवतानिन्दनं तथा ॥

इति ।

एवं प्रक्रियान्तराण्यपि तत्र तत्र ग्राय्हाणि । तथा-

प्रमादादपि कीलालं यः स्पृशेद्वैष्णवओ नरः ।
उपचारशतेनापि न क्षमामि वसुन्धरे ॥

स्वादीनशयनं जल्पं स्वाध्यायं च विशेषतः ।
आसनारोहणं चैव न कुर्यात् केशवालये ॥

यो विष्णोः प्रतिमाकारे लोहभाव करोति च ।
यो गुरौ मानुषं भावम् उभौ नरकपातिनौ ॥

इत्याद्युक्तान्यपचारान्तराण्यपि द्रष्टव्यानि । एवं भगवन्मन्दिरे सावधानः
परिहृतापचारः पूर्ववत् प्रण्म्य विष्वक्सेनादीन् अनुज्ञाप्य निर्गच्छेत् ।

प्रातर्-होमाभिगमने

ततः स्वदेवाधिष्ठितमाश्रमगृहादिकमागत्य सुप्रक्षालितपाणिपादः
स्वाचान्तः स्वर्णरजतताम्रादिपात्रैः स्वयं पूर्वाहृतेन मणिकस्थेन वा
वारिणा गृहं सम्प्रेक्ष्य स्वसूत्रविधिना स्वाग्निं भगवदात्मकं हुत्वा
देवगृहमागत्य दुरात् प्रणमेत् । अत्र चैवमभिगमनं
वङ्गिंशेवरैदर्शितम्-

ततः कुम्भं समादाय शुचिनापूर्य वारिणा ।
हरेरारावनार्थाय मौनी नियतमानसः ॥

पाषण्डावेक्षणादीनि वर्जयन् [वर्जयेत् क ख ग ङ् च झ] यत्नतः पथि

ध्यायन् नारायणं देवं यागभूमिं स्माश्रयेत् ॥

ततः प्रक्षाल्य चरणौ स्वाचान्तः सुसमाहितः ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथवा मुनिः ॥

स्ववर्णस्वाश्रमार्हेण विधिना श्रद्धयान्वितः ।
समिदाज्यादिभिर्द्रव्यैर्मन्त्रैरपि यथोदितैः ॥

हुत्वाग्नीनग्निहोत्रादावुक्तं कालमपि क्षिपन् ।
पराराथनरूपेण कृतेनैव स्वकर्मणा ॥

कृते निष्कल्मषे शुद्धे स्वस्मिन् मनसि सुस्थिते ।
लब्धाधिकारो देवस्य ध्यानार्चनजपादिषु ॥

विनिष्क्रम्याग्निशालाया गत्वा यागगृहं स्वकम् ।
अर्चयित्वा परात्मानं देशकालाद्यपेक्षया ॥

पत्रैः पुष्पैः फलैर्वापि पूजाकालोक्तवर्त्मना [पूर्वकालोक्तवर्त्मना घ
ङ् छ] ।
केवलाञ्जलिना वापि विहितेन यथ तथा ॥

इति । अत्र परारावनरूपेण कर्मणा शुद्धन्तःकरणस्य ध्यानार्चनादिषु
अधिकारविधानात् केषाञ्चित् कुदृष्टीनां मतं निरस्तम् । उक्तं च
कुडृष्टिमतोपन्यासमध्ये परकालसूरिभिः -

स्तुतिजपनिजबिम्बालोकनध्यानसेवा-
स्मृतिकथनसमर्चाकर्मभिः श्रौतदूरैः ।
वृषभशिखरिनाथ त्वामभिप्सन्ति केचि-
च्छुतिपथपरिनिष्ठप्रापणीयाङ्घ्रिपद्मम् ॥

इति [इति शब्दः च कोश एव दृ"यते] ।

एवं च सङ्गृहीतं नारायण-मुनिभिः -

पाषण्डादिभिर् आलाप-
दर्शनादीनि वर्जयेत्

गृहान् आगत्य सङ्क्षाल्य
पादाव् आचम्य वाग्-यतः ॥

द्वार-पालान् अनुज्ञाप्य
प्रविश्य
सदनं हरेः ।
अभिगम्य च देवेशं
निभृतः परया मुदा ।

मनो-बुद्ध्याभिमानेन+++(??)+++
सह न्यस्य धरा-तले ।
कूर्मवच् चतुरः पादान्
शिरस् तत्रैव पञ्चमम् ॥

अष्टाङ्गेन प्रणामेन
दिव्य-शास्त्रोदितेन च ।
प्रणमेत् पुण्डरीकाक्षं
भक्तिमारावनामितः+++(=??-)+++ ॥

द्वयेन तद्-विवरणैः
प्रपद्य प्रभुम् ईश्वरम् ।
निक्षिप्य चिरम् आत्मानं
तत्-पादाब्जे कृती भवेत्

इति । इह च

ब्राह्मे मुहूर्ते सम्प्राप्ते उत्थाय शयनात् ततः ।
स्नात्वाभ्यर्च्य जगन्नाथं समिदधानमाचरेत् [समिद्दानं समाचरेत्
घ] ॥

इत्येतावत् सात्त्वतोक्तं सर्वेषां [सर्वेषामिति पदं घ ङ् छ कोशेषु नास्ति] समानम् ।
शेषं तु तावत् [तावत् शब्दः घ ङ् छ कोशेषु नास्ति] तत्तत्संहितानिष्ठानामेव ।
एवं संहितान्तरेषु कालान्तरकर्मत्वपि ग्राह्यम् । जयाख्यसंहितायां तु सर्वसंहितोक्ताभिगमनं सङ्ग्रहेणोक्तम् -

ब्रह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे ।
जपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ।
अभिगच्छेज्जगद्योनिं तच्चभिगमनं स्मृतम् ॥

इति ।

पाद्मे च आद्यन्तकर्मावच्छेदेन दर्शितम् -

कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख ।
उत्थानादिक्रमादेतदभियानमुदीरितम् ॥

इति ।

सन्धोपासनानन्तरकृत्यं चैवं विवृतम् -

अभिवद्य गुरून् वृधांस्तथा भागवतान् क्रमात् ।
प्रविश्य स्वाश्रमं देवमभिगम्य यथाविधि ॥

अर्चयेज्जपहोमान्तं दद्याद् ग्रासं गवामपि ।
अञ्जनालेपनैः स्रग्भिर्वासोभिर्भुषणैस्तथा ॥

अलक्तकरसाद्यैश्च ताम्बूलमुखशोधनैः ।
उपेतो मङ्गलैरन्यैर्नयेदभिगमक्रियाम् ॥

इति । एतेन देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणं इति
स्मृत्यभिप्रेतमपि विवृतम् । अत्र च उपेतो मङ्गलैरन्यैः [उपेतो
मङ्गलैर्नयेदभिगमक्रियाम् इति क ख ग अ झ कोशेषु पूर्णमुपात्तम्] ।
एवं व्यासाद्युक्तदेवादिनम्[देवतानमस्कार क ख ग च झ;
देवतादिनमस्कार ङ्
छ]स्कारोपहारनिवेदनपुष्पादिप्रदानवृद्धभिवादनगुरूपसेवन##[#
छ]तद्धिताचरणवेदाभ्यासजपाध्ययनधारणतदर्थविचारणधर्माद्
इशास्त्रवैदिकनिगमवेदाङ्गावेक्षणप्रभृतीनि प्रथमकालकर्तव्यानि
पूर्वाधिकारविशोधितप्रक्रियया प्रतिसढेयानि । इति व्याख्यातमभिगमनम् ॥

इति अभिगमनम् ।