+०३ नित्यव्याख्यानम्

नित्यव्याख्यानाख्यः

तृतीयोऽधिकारः

विश्वास-प्रस्तुतिः

स पञ्च-पर-तत्त्व-ज्ञः
पञ्चकाल-परायणः ।
जित-पञ्चेन्द्रिय-क्लेशः
पञ्चभ्यो नागमद् भयम् ॥

मूलम्

स पञ्चपरतत्त्वज्ञः
पञ्चकालपरायणः ।
जितपञ्चेन्द्रियक्लेशः
पञ्चभ्यो नागमद् भयम् ॥

[इत्ययं श्लोकः तृतीयाधिकारस्त्यादौ ङ् छ कोशयोः दृश्यते]

विश्वास-प्रस्तुतिः

अथोपक्रम्यते नित्य-
कर्तव्य-क्रमसङ्क्रमः
नाथयामुन-पूर्णादि-
सम्प्रदाय-सरित्-पथे ॥

मूलम्

अथोपक्रम्यते नित्य-
कर्तव्य-क्रमसङ्क्रमः
[सञ्चयः क ख झ; सं(क्रमः)चयः च] ।
नाथयामुन-पूर्णादि-
सम्प्रदाय-सरित्-पथे ॥