०२ नित्यानुष्ठानस्थापना

नित्यानुष्ठानस्थापनाख्यः

द्वितीयोऽधिकारः

अथादौ समुपक्षिप्तम्
अच्छिद्रं स्थाप्यते ऽधुना ।
स्वयम्-प्रयोजनं नित्यं
स्वामि-सेवनम् अञ्जसा ॥

स-सामान्य-विशेषात्मा
चर्येयं हृदयङ्-गमा
स-सूत्र-सुमनः-स्तोमा
मालेवामोदिनी विभोः ॥

अभिगमनादिना भगवत्-सेवनं सर्वेषां समानम्

इह [तावद् एकस्मिन् क ख च झ] तावद् एकैकस्मिन्न् अहोरात्रे
कालपञ्चकविभागेन
अभिगमनोपादानेज्यास्वाध्याययोगरूपभगवत्सेवनं
स्ववर्णाश्रमजातिगुणनिमित्तदि[जातिनिमित्तदि क ख ग
झ]नियतधर्मसचिवं भगवद्धर्मनिष्ठानां सर्वेषां समानम् ।
तच्च संहिताभेदुषु चोदनाख्यविऽसेषेऽपि सूत्रभेदेषु
समानचिदनाख्यचत्र्वारिंशत्संस्कारादिवत् लेशतो भिन्नरूपं प्रतिपाद्यते ।
तत्र रहस्याम्नायविदामेवायं धर्म [अयं निजधर्मः ज] इति
अविदितसात्त्वतधर्माणामाकस्मिको भ्रमः । ते तु स्वशाखोक्तप्रकारेण
पाञ्चकालिकधर्ममनुतिष्ठन्ति इतरे च यथास्वं तत्तत्संहितोक्तप्रक्रिययेति
व्यवस्था । वर्गद्वयेऽप्यधिकारिविशेषमात्रेणैव हि भेदोऽनुशिष्यते । यथोक्तं
पाद्मे ब्रह्मोवाच -

कर्षणादि प्रतिष्ठान्तं कर्म यस्य प्रसिद्धये ।
तम् समाराधनवित्धिं श्रोतुमिच्छामि सम्प्रति ॥

आराधनविधिः कीदृगधिकारि च कीदृशः ।
भवंस्तदशेषेण ब्रूहि मे भक्तवत्सल ॥

एकायनिनां मुख्यमधिकारित्वम् अन्येषां तु दीक्षया

श्रीभगवानुवाच-

श्रूयतामभिधास्यामि पृष्टं निरवशेषतः ।
आद्यमेकायनं वेदं सद्ब्रह्मप्रतिपादकम् ॥

तेनैव संस्कृता विप्रा मुख्यकल्पाधिकारिणः ।
अन्येषां ब्राह्मणादीनां वर्णानां दीक्षया क्रमात् ॥

अधिकारोऽनुलोमानामपि नान्यस्य कस्यचित् ।
पूजाविधौ भगवतस्तेऽनुकल्पाधिकारिणः ॥

प्रतिलोमभुवां सूतः प्रथमस्तत्र [प्रथमं तत्र क झ] शस्यते ।
त्रयाणां क्षत्रियादिनामनुलोमभुवामपि ॥

सूतस्य च विशेषेण दीक्षात्मार्थप्रानिशम् [दीक्षामात्थ परानिशम् क ख
ङ् च झ] ।
परार्थयजनं कुर्युर्विप्रा मुख्यानुकल्पयोः ॥

नैवाधिकारिणो गूणा दीक्षासंस्कारवर्जिताः ।
यथैव दिक्षणीयेष्ट्या ब्राह्मणादयः ॥

तथिअव दीक्षाविधिना जायमाना यथोदिताः ।
पूजाविधौ भगवतः प्रकल्पन्तेऽधिकारिणः ॥

इत्यादि । एवं संहितान्तरेष्वपि ग्राह्यम् ।

जयाख्यसंहितायां पञ्च कालाः पाञ्चकालिककर्माणि च

तदिह तत्तत्सिद्धन्तोक्तवर्त्मना चतिर्विधपञ्चरात्रिणां [पञ्चरात्राणां
क ख ग च झ] साधारणमभिगमनादिपञ्चकम् । मन्त्रसिद्धन्तादिष्वपि
हि कालपञ्चकविभागोऽयमुपदिश्यते । यथोक्तं
साक्षाद्भगवन्मुखोद्गततया रत्नत्रयमिति प्रसिद्धेषु
जयाख्यसात्त्वतपौल्ष्करेषु जयाख्यसंहितायाम् -

नारदः

एको हि श्रूयते देव कालो लोके न चापरः ।
पञ्च कालास्त्वयोद्दिष्टाः किमेतन्मेऽत्र संशयः ॥

श्रीभगवानुवाच -

एकसयैव हि कालस्य वासरीयस्य नारद ।
आ प्रभातान्निशान्तं वै पञ्चधा परिकल्पना ।
पृथक्कर्मवशात् कार्या न काला बहवः स्मृताः ॥

नारदः

एककालाश्रितानां च कर्मणा लक्षणं वद ।
परिज्ञातैस्तु यैः सद्यः कृतकृत्यो भवाअम्यहम् ॥

श्रिभगवानुवाच

ब्राह्मान्मुहूर्तादारभ्य प्रागंशं विप्र वासरे ।
उअपध्यानार्चनस्तोत्रैः कर्मवाक्चित्तसंयुतैः ॥

अभिगच्छेज्जगद्योनिं तच्चभिगमनं स्मृतम् ।
ततः पुष्पफलादीनामुत्थायार्जनमाचरेत् ॥

भगवद्यागनिष्यत्तिकारणं प्रहरं [प्रहरः क ख ग च झ] परम् ।
ददुपादानसञ्ज्ञं वै कर्मकालपदाश्रितम् ॥

ततोऽष्टाङ्गेन यागेन पूजयेत् परमेश्वरम् ।
साधिकं प्रहरं विप्र इज्याकालस्तु स स्मृतः ॥

श्रवणं चिन्तनं व्याख्या ततः[तपः क ख ग च झ]
पाठसमन्विता ।
स्वाध्यायसञ्ज्ञं तं विद्धि कालांशं मुनिसत्तम् ॥

दिनावसाने सम्प्राप्ते पूजां कृट्वा समभ्यसेत् ।
योगं निशावसाने च विश्रमैरन्तरीकृतम् ।
पञ्चमो योगसञ्ज्ञोऽसौ कालांशो ब्रह्मदिद्धिदः ॥

नारदः

श्रुतो मयाखिलः पूर्वं भगवद्याग उत्तमः [उत्तरः क ख ग च छ
झ] ।
तस्याङ्गानि विभागेन ज्ञातुमिच्छाम्यहं पुनः ॥

यागस्य अष्टावङ्गानि

श्रीभगवानुवाच

अन्तःकरणयागादि यावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाभितमनं महत् [तच्चाभिगमनं भवेत्
क ख ग च झ] ॥

पूजनं चार्घ्यपुष्पाद्यैर्भोगैर्यदखिलं मुने ।
बाह्योपचारैस्तद्विद्धि भोगसञ्ज्ञं तु नारद ॥

मध्वाज्याक्तेन दध्ना वै पूजा च पशुनापि वा [पशुना सह क ख ग “अ
झ] तत् तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ॥

निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।
सम्प्रदानं तु तन्नाम यागाङ्गं पँचमं स्मृतम् ॥

वह्निसन्तर्पणं षष्थं पितृयागस्तु [पितृयागं तु क ख ग ङ् च छ
झ] सप्तमम् ।
प्राणाग्निहवनं नाम्ना [अनुयागं क ख ग् “अ च छ ज झ]
त्वनुयागस्तदष्टमम् ।
प्रददाम्यचिराद्यद्वै तन्निष्ठानां परं पदम् ॥

इति । अचिरादित्यनेनास्य कर्मणः कर्मान्तरेभ्यः स्वभावतः प्राशस्त्यमुच्यते ।
स्मरन्ति च व्यासादहः -

न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः ॥

इत्यादि [इति क च झ] । प्रयाससाम्यवैषम्यानादरेण सरूपतः
प्राशस्त्यं द्रव्यादिष्वपि विद्यते । यथोक्तमाश्वमेधिके
श्रीवैष्णवधर्मशास्त्रे -

सर्वेषामेव पुष्पाणां सहस्रगुणमुत्पलम् ।
तस्मात् पद्मं तथा राजन् पद्मात्तु शतप्त्रकम् ॥

तस्मात् सहस्रपत्रं तु पुण्डरीकमतः परम् ।
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका ॥

बकपुष्पं ततस्तु स्यात् सौर्वर्णं तु ततोऽधिकम् ।
सौर्वर्णाच्च प्रसूनात्तु मत्प्रियं नास्ति पाण्डव ॥

पञ्चकालविधौ पाद्मवचनानि

इति । एवं जपहोमदानादिष्वपि परैद्धम् । पाद्मेऽप्येवं प्रशस्तमं
[प्रसिद्धतम्ं क ख ग झ] पञ्चकालसेवनमुक्त्म् -

पञ्चकालविधिज्ञानां प्राशस्त्यं भगवन्निह ।
कथितं पञ्च के काला विधयश्चापि पञ्च के ॥

मह्यं जिज्ञासमानाय कथयस्व यथातथम् ।
न चेद्रहस्यमत्यन्तं यदहं पृष्टवानिदम् ॥

श्रीभगवानुवाच -

आद्यं कर्माबिगमनमुपादान ततः परम् ।
इज्या च पश्चात् स्वाध्यायस्ततो योगस्ततः परम् ॥

पञ्चैते विधयस्तेषां कालाः पञ्चैव ते क्रमात् ।
कल्याणाचरणान्तं यत् कर्मजातं चतुर्मुख ॥

उत्थानादिक्रमादेतदभियान[अभिधानं क ख घ ङ् च झ]मुदीरितम्

ब्राह्मे मुहूर्ते बुद्ध्येत ध्यायन्नारयणं परम् ।
उथायासीत् शयने कीर्तयन्नम वैष्णवम् ॥

इत्यादिरध्यायः कृष्नोऽपि पाढ्यः । एवं संहितान्तरेष्वपि तत्र तत्र
तङ्ग्रहेण विस्तरेण च [चकारः क ख ग च छ ज झ कोशेषु नास्ति]
पञ्चकालविधिर्द्रष्टव्यः । किञ्च

नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।
पञ्चकालैकमनसां त्वमेव गतिरव्यया ॥

इत्यादिषु पाञ्चकालिकधर्मस्य भगवदेकवेद्यत्वं भगवतिप्र्यतरत्वं
तन्निष्ठानामव्यवथानेन [अप्यव्यवथानेन क ख ग च झ]
भगवत्प्राप्तिश्च प्रतिपाद्यते ।

भोजोक्ताः सङ्गवादयः पञ्चकाला अन्यार्थाः

यत्तुक्तं भोजराजेन प्रयोगपद्धतिरत्नावल्याम् तत्र सङ्गवादयः काला
अहरहः प्रवर्तन्ते । सङ्गवः समो विष्णुप्रियो धर्मो विराग इति पञ्च काला
अध्यात्मविद्भिरुपदिष्टाः । उदयात् पञ्च नाड्यः सङ्गव उक्तः । तस्मात्
द्विगुणमात्राः सम उपदिश्यते । तावत विष्णुप्रियः इत्यादि । तत्र
पुष्पविशेषाराध्यविशेषनिर्णयार्थोऽयं कालविभागः । न
त्वभिगमनादिपञ्चककर्तव्यार्थः । तथाहि पूर्वमुक्तम् [सङ्गवे तत्तिथि
इत्यारभ्य प्रदर्शनं कृतम् इति यावत् क ख ग झ पुस्तकेषु नास्ति]
सङ्गवे तत्तिथिचिदितं पुष्पं गृःनीयात् । समे पद्मैः करवीरैर्विष्णुप्रिये
धर्मे कुमुदैः बिल्वपत्रैर्विरागे भगवन्तं पूजयेत् इति । उत्तरत्र चैवं
तत्तत्कालाराध्यभगवन्मूर्तिविशेषप्रदर्शनं क्र्टम् तत्र सङ्गवे
वैकुण्ठस्य प्रीतिः समेऽनिरुद्धस्य विष्णुप्रिये शिंशुमारस्य धर्मे
बडबामुखाग्नेः विरागे कपिलस्य इत्येवं पञ्चानां पञ्च प्रीतिकालविशेषाः
इति । अतो जयाख्यसंहिताद्युक्तप्रकारेणैवाभिगमनादिपञ्चकव्यवस्था नित्या ।
अन्यत् काम्यादिकम् ।

पाञ्चकालिकधर्मे सच्छिद्राच्छिद्रत्वविभागः

एवं दिनचर्यामर्यादायां स्थितायां देषाञ्चित् त्रैकाल्यार्चनादिविधानानि
विषुवायनोपरागजन्मत्रयद्वादशिपर्वश्रवणादिवैशेषिकार्चनान्यपि
यथाबलं तदन्तःपातेन नेतव्यानि । अशक्तमधिकृत्यैव
समाहृत्यानुष्ठानं क्वचिद्विधीयते । सच्छिद्रपञ्चकालता च
तावन्मात्रयोग्यस्यैव । अन्यार्थकर्मान्तरितत्वं सच्छिद्रत्वम् ।

द्वादशाक्षरतत्त्वज्ञश्चतुर्व्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञः स तु भागवतः स्मृतः ॥

इति तु पूर्णस्य मुखाधिकारिणः स्तुतिः । न तु तस्यैव
पाञ्चकालिकभागवतत्वप्रतिपादनपरम् ।

चतुर्व्यूहविभागज्ञः पञ्चकालपरायणः ।
द्वादशाक्षरनिष्ठो यः स वै भागवतोत्तमः ॥

इति शाण्डिल्यवचनमपि तथैव ।

पाञ्चकलिकधर्मः श्रीभाष्यकारादीनाम् अभिमतः

एवं द्वादशाक्षरोपादानमपि व्यापकान्तरोपलक्षणम्
स्वसंहितोक्तमन्त्रनिष्ठामात्रेण [निष्ठामन्त्रेण क “अ छ ज झ;
निष्ठामात्रेण ख ग च] यथार्हं सर्वेषां पञ्चकालधर्मप्राप्तेः ।
अत एव हि भाष्यकाराणां शिष्याः प्रशिष्याश्च श्रीमदष्टाक्षरेण
समाराथनं प्रपञ्चयन्तः पञ्चकालकल्पनयैव दिनचर्यामुपदिदिशुः ।
तथा हि भाष्यकाराव्यवहित-शिष्यैर् वङ्गि-वंशेश्वरैः
श्री-रङ्ग-नारायणाचार्यैर् ब्राह्म-मुहूर्त-प्रभृति-दिनचर्यां
प्रपञ्चयद्भिर् हरि-सङ्कीर्तन-संसार-निर्वेद– सात्त्विक-धृत्य्-आलम्बन-समनन्तर-काल-
हिता[कालविहित क ख ग “अ च छ ज झ ञ्]ध्यवसाय-पर्यन्तम् उक्त्वा
अनन्तरम् उच्यते -

इत ऊर्ध्वम् अहं तावद्
याज्जिवं श्रियः श्रियः ।
पदयोर् अर्चनं कर्तुं
यतमानः समाहितः

अभिगच्छन् हरिं प्रतः
पश्चाद् द्रव्याणि चार्जयन्
अर्चयंश् च ततो देवं
ततो मन्त्राञ् जपन्न् अपि ॥

ध्यायन्न् अपि परं देवं
कालेषूक्तेषु पञ्चसु ।
वर्तमानः सदा चैवं
पाञ्च-कालिक-वर्त्मना ॥

स्वार्जितैर् गन्ध-पुष्पाद्यैः
शुभैः शक्त्य्-अनुरूपतः ।
आराधयन् हरिं भक्त्या
गमयिष्यामि वासरान् ॥

इति । श्रीपराशरभट्टारकैश्च

गर्भ-जन्म-जरा-दुःख-
मिश्र-संसार-सागरात् ।
उत्तिर्य भगवत्-प्राप्तिं
लिप्सेत् पुरुषो यति ॥

प्रातरुत्थाय संस्मृत्य
हरिं तच्चरणोत्थिताम् ।
गङ्गां विभाव्य तीर्थाम्भस्
ततस् तदवगाह्य च ॥

श्रुति-स्मृत्य्-उदितं कर्म
यावच्-छक्ति परात्मनः ।
आराधनत्वेनापाद्य
सोर्ध्व-पुण्ड्रश् च तर्पयेत्

मन्त्रैर् आधारशक्त्यादि-
पारिषदान्तसंस्थितैः ।

इति पूर्वाचार्योक्तं सङ्ग्रहेण प्रदर्श्य हरिं प्रणम्य चायम्य प्रानान्
प्रणिपतन् गुरून् इग्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य
ऋषिछन्दोदेवताबीजशक्तीः प्रकाश्य भाष्यकारानुक्तो
मन्त्रन्यासस्तच्छिष्याद्युक्तप्रकारेणोपादेय इति ज्ञापनाय मन्त्रन्यासं ततः
कृत्वा मन्त्रार्थमपि चिन्तयेत् इति सङ्ग्रहेणाभिवाय [पूर्वैः इत्यारभ्य
स्वयमेधाभिधाय इत्यन्तं क ख ग झ पुल्स्तकेषु नास्ति]
पूर्वर्ग्रन्थेष्वनिवेशितं मन्त्रार्थचिन्तनमत्यन्तोपयुक्ततया
[मन्त्रार्थमत्यन्तोपयुक्ततया घ ज] स्वयमेवाबिधाय एवं
सञ्चिन्त्य मन्त्रार्थं ततस्तं पुरुषं [तत्पुरुषं क झ; परमिति पदं क
ख ग घ झ कोशेषु नास्ति] परम् इत्यादिना पूर्वैरुक्तं ध्यानं सङ्क्षिप्य
तदनुक्तं पादादिकेशान्तध्यानं प्रपञ्च्य षोडशोपचारक्रमेण
समाराधनं च विहितम् । उपचारान्तराणामपि सर्वेषामेते षोडश
प्रधानतामाः । तदनुबन्धेनैवान्यत् सर्वमनुष्ठीयते ।
देशकालावस्थाद्यनुसारेण सङ्क्षेपविस्तारस्वीकारश्च शास्त्रीयः । अतः
पूर्वैककण्ठ्यमिहाप्यनुसन्धेयम् । अत एव हि
तदुभयानुसारिभिर्नारायणमुनिभिरपि पञ्चकालकल्पनया
तत्तत्कालानुष्ठेयानि यथाक्रमं प्रपञ्छितानि ।

तथाहि -

भगवच्चरणाम्भोजपरिचर्याविधिक्रमम् ।
एकान्तिभिरनुष्ठेयं नित्यं समभिदध्महे ॥

ब्राह्मे मुहूर्ते सत्त्वस्थो हरिर्हरिरिति ब्रुवन् ।
उत्थाय तत्र शयने समासीनः समाहितः ॥

इत्यारभ्य

द्वयेन तद्विवरणैः प्रपद्य प्रभुमीश्वरम् ।
निक्षिप्य चिरमात्मानं तत्पादब्जे कृती भवेत् ॥

यो नारायणदासीयो माधवाराधनक्रमः ।
तत्राभिगमनं नाम् प्रथमः पटलो ह्ययम् ॥

इत्यन्तेनाभिगमनं परिसमाप्य

अहो द्विदीयभागेन कृष्णाराधनतत्परः ।
द्रव्यारण्याराधनानि शास्त्रियाणि समार्जयेत् ॥

इत्यादिभिः पटलैः तत्तत्कालांशसाधनीयमुपादानादिकमपि यथाक्रमं
प्रपञ्चितम् । तदेवं चतुर्विधपञ्चरात्रनिष्ठानां तत्रापि
यत्किञ्चिद्व्यापकमन्त्रप्रधानानां सर्वेषामपि भगवदेकान्तिनां
यथायथं प्राचीनपरिगृहीतवैकल्पिकमर्यादाभेदैः पाञ्चकालिकधर्मः
प्राप्तः ।

प्रपन्नैः पञ्चकालक्रमः त्याज्य इति पूर्वपक्षः

तत्र ते स्वाधिकारानुरूपं प्रपत्तिमेव
केवलामव्यवहितामपवर्गसाधनमवलम्बन्ते तैरयं पञ्चकालक्रमः
परित्याज्यः परिग्राह्यो वेति विचार्यते । प्रपत्तिप्रकरणेषु तदङ्गत्वेन
तदुपदेशाभावात् विलम्बाक्षमस्याधिकारिणः
शातवार्षिकव्रतपूरणावधिकालक्षेपाक्षमत्वात् तदेकदेशभूतयोगशक्तौ
च तस्यैवोपायत्वस्वीकारप्राप्तेः यथाशक्ति [वर्णाश्रमानुष्ठानरूपस्य
क ख ग च झ] वर्णाश्रमधर्मानुष्ठानरूपस्य भगवत्प्रीणनस्य
तदाज्ञानुपालनस्य कर्तव्यत्वेऽपि
व्यासदक्षादिधर्मशास्त्रोपदिष्टकालविभागपूर्वकदिनचर्यामर्यादयापि
[दिनचर्याद्वारापि क ख ग झ] सिद्धेः अन्यथा कर्मणां
परस्परोपरोधप्रसङ्गाच्च परित्याज्य इति पूर्वः पक्षः ।

प्रपन्नैः पञ्चकालक्रमो ग्राह्य इति सिद्धन्तः

राथान्तस्तु परिग्राह्य एवायमिति । तिष्ठतु तावदिह प्रमाणोपपत्तिपरामर्शः ।
भाष्यकाराद्युपदेशसम्प्रदायस्तावत् परामृश्यताम् । अथ परमैकान्तिनो
भगवदाराधनप्रयोगं वक्ष्ये इत्यारभ्य
शौनकव्यासबोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन वर्त्मना
स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रियाप्रतिपादनं
कथम्भूतमधिकारिणमधिकृत्य भाष्यकारैः कृतमिति कर्णे
तवागतम्? भवतु तच्छक्तमधिकार्यन्तरं प्रतीति चेत् न
प्रपत्त्येकनिष्ठैः तत्च्छिप्यप्रशिप्यादिभिः [प्रशिष्यादिभिश्च क ख ग च
झ] योभ्यैरद्य यावत् यथाशक्ति तदनुष्ठानदर्शनात् साधनबुद्ध्या च
तदनुष्ठानाभावस्य भगवत्कैङ्कर्यैकरतिः परमैकान्ती भूत्वा
इत्यादिभिस्तत्रैवोपदेशात् अनन्योपायेऽनन्यप्रयोजने चाधिकारिणि
परमैकान्तिशब्दस्य साम्राज्यात् अथ परमैकान्तिनो भगवदाराधनप्रयोगं
वक्ष्ये इत्यस्य पूर्ववृत्तापेक्षायां तमेव शरणमुपच्छेदखिलेत्यादिना
शरणागतिप्रकारश्च पूर्वोक्तः इति तत्प्रबन्धस्थवाक्यद्वयेन
परिपूर्णशरणागतिविषयस्य गद्यग्रन्थस्य पूर्ववृत्तत्वप्रतीतेः । एतच्च
समर्थविषयते । अतस्तथाविधप्रपन्न एवात्र परमैकान्ती । तमाधिकृत्यैव
कि।चित्सिद्धान्तश्तां का।चित् संहितां प्रधानीकृत्य समाराधनप्रयोगोऽत्र
सङ्गृह्यत इति यथासम्प्रदायमकामेनापि स्वीकरणीयम् ।

पञ्चकालप्रक्रिया श्रीभाष्यकाराभिमतेति समर्थनम् ।

तच्च समारावनमर्घ्यादिपात्रपक्षेप्य[प्रक्।एस्प क ख ग घ ङ् च
झ]तत्तदासनभोगानुपूर्वीसमर्पणीयोउपचारिकसांस्पर्शिकाभ्यवहारिका
दिभेदभिन्नगन्धपुष्पादिपरःशत्रद्रव्यसापेक्षं दृश्यते । तदपि
न्यायतः स्वयमेवार्जितं मुख्यम् । अशक्तस्य तु पुत्रशि।यादिमुखेन
तत्प्रेरणरूपार्जनव्यापारः । पूर्वसिद्धद्रव्यस्यापि तत्काले तदर्थोपादानमिति
समाराधनात् पूर्वमेवं नान्तरीयकं सम्यग्द्रव्योपादानम् । अत
इज्योपदेशेनैवार्थात् [अर्थादपेक्षित क ख ग च झ]
तदपेक्षितोपादानमपि स्वकालप्राप्तमुपदिष्टं भवति । ततोऽपि
पूर्वमभिगमनमपि
तद्विधायकतत्तच्छास्त्रतत्तन्मन्त्रविशेषादिपरामशादन्ततः
प्रपत्तिरूपतयैव परिणतमिति प्रागेव
तदुपदेशेनार्थादभिगमनमप्युपदिष्टं भवति ।
अत एव हि
तद्-अभिप्रायविद्भिर् नारायण-मुनिभिः -

द्वयेन तद्-विवरणैः
प्रपद्य प्रभुम् ईश्वरम् ।
निक्षिप्य चिरम् आत्मानं
तत्-पादाब्जे कृती भवेत्

इत्य् अभिगमनं निगमितम् [निर्णीतम् क छ; निर्दिष्टम् ज]। तद्-विवरणं च गद्यादिकमेव ।

अनुयाग-पर्यन्त–समाराधन-समनन्तर-भावि-
स्वाध्यायश् च
श्रुति-स्मृतीतिहास–
मन्त्र-जप–
सत्-संवाद+
अध्यात्म-शास्त्र-श्रवण-प्रवचनाद्य्-आत्मा, यथासम्भवं
भगवच्छास्त्रधर्मशास्त्रादि। वन्तरभावियोगोपकारकज्ञानसन्धुक्षणप्र
योजनः प्रतिपाद्यत इति तत्कालनित्यः सोऽपि द्वयमर्थासन्धानेन सह सदैवं
वक्ता इति गद्योक्तस्य द्वयवचनस्य शास्त्रीयकर्मान्तरानुपरोधेन
यथावसरमुपनिपातादुपदिष्ट एवेति ज्ञायते । सदावचनं हि न निद्राकाले
अशक्ययत्वात् । न मौनकाले तद्विधिवोरोधात् [तद्विरोधात् क ख ग झ] ।
न मन्त्रान्तरादिसाध्यसमाराधनादिकाले तैरव [तेनैव क ख ग च]
तदुपरोधात् । अतो यथावसरं तत्प्राप्तिः ।

एवं योगोऽपि [अपि क ख ग ङ् च पुस्तकेषु न दृश्यते]
द्वयार्थानुसन्धानैकाग्र्यरूपः
सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोः तत्पूर्वापररात्रेषु युञ्जानः
इत्याद्युक्तावसरलब्धयत्नलभ्यः [अवसरयुक्तयत्नलभ्यः क झ;
अवसरयत्नलभ्यः घ; अवसरलब्ध्या युक्तयत्नलभ्यः च छ] ।
श्रीवैकुण्ठगद्ये च स्वतन्त्रप्रपत्तिनिष्ठामेव विधाय ततश्च
प्रत्यहमात्मोज्जिवनायैवमनुस्मरेत् इत्यारभ्य परमपदपर्यङ्कनिलयस्य
भगवतः परिपूउर्णध्यानयोगमुक्त्वा अनुसन्धानविशेषांश्चोपदिश्य
श्रीमत्पादारविन्तं [पादरविन्दयुगलं क च झ] शिरसि कृतं
ध्यात्वा अमृतसागरान्तर्निमग्नसर्वाक्यवः सुखमासीत्
इत्यनेनानन्यप्रयोजनो विचित्रो योगः प्रतिदिनकर्तव्यत्वेन विहितः । तदधिकारे च
विस्तरेण दर्शयिष्यामः । नित्ये च एवं शरणमुपगम्य
तत्प्रसादोपवृंहितमनोवृत्तिस्तमेव भगवन्तं सर्वेश्वरेश्वरमात्मनः
[स्वामित्वेन सुहृत्त्वेन क ख ग च झ] स्वामित्वेनानुसन्धाय
अत्यर्थप्रियाविरतविशदतमप्रत्य्क्षतापन्नानुध्यानेन [अनुसन्धानेन क
ङ् छ ज] ध्यायन्नसीत् इति समारधनारम्भोक्तस्यानुध्यान्स्य
स्वादुतमस्य समाराधनवदेव अनन्यप्रयोजनकैङ्कर्यरूपतयावसरे
प्राप्तिर्युक्ता । तस्मादनन्यप्रयोजनप्रधानतया
परिपूर्णसमाराधनविशेषोपदेशिभिर्भाष्यकारैरर्थतः शास्त्रान्तरैश्च
सिद्धमन्यदपि सर्वमनुज्ञातमिति विज्ञायते । अत एव हि
तच्छिष्यप्रक्षिष्यादयः पञ्चकालविभागेनैव भगव्त्सेवां प्रत्यपीपदन् ।
प्रपत्त्यावृत्तिप्रसङ्गादिचिद्यानि तु निक्षेकालविभागेनैव भगवत्सेवां
प्रत्यपीपदन् । प्रपत्त्यावृत्तिप्रसङ्गादिचोद्यानि तु निक्षेपरक्षान्ते
[निक्षेपरक्षायां क ख ग च ज झ] परिहृतानि ।

अत्र यदुक्तं प्रपत्त्यङ्गत्वेनोपदेशाभावात् परित्याज्य इति तदसत्
भ्हष्यकारोक्तनित्यसमाराधनस्यापि तत एव परित्याज्यत्वप्रसङ्गात् । तच्चेत्
भगवत्प्रीत्येकप्रयोजनतयानुष्ठेयमित्यनुज्ञायते तर्हि तदनुबन्धि सर्वमपि
तद्वदनुज्ञायताम् । प्रपत्त्यङ्गसर्वधर्मस्वरूपत्यागविधिवादिनोऽपि हि
[हि क ख ग च झ पुस्तकेषु नास्ति] स्वामिनि भगवति दासभूतस्य
प्रपन्नस्य स्वरूपप्राप्तां किङ्करवृत्तिमनुजानन्ति । यत्तु
शातवार्षिकव्रतावधि विलम्बाक्षमत्वमुक्तम् तत् तथैव । न ह्यस्य
निष्पन्नोपायस्य शातवार्षिकव्रतमनुष्ठेयं ब्रूमः । यथा हि नदीतरणाय
नौकागमनं प्रतीक्षमाणाः पुरुषाः केचित् लीलाद्यूतेन कालं यापयन्ति केचित्
पणबन्धद्यूतेन द्यूतमर्यादानुपालनं चोमयेषां समानम्
तत्रानियतकालभाविनौकागमनसमये वैहारिका विहारद्यूतविच्छेदेनापि
नादीं तरन्ति बद्धपणास्तु यावद्द्यूतसमाप्ति विलम्बन्ते तद्वदिहापीति
तत्त्वविदां सम्प्रदायः ।

पाञ्चकालिक-योग-शक्तौ प्रपत्ति-निष्ठा-विरोध-परिहारः

यच्चान्ययुक्तं योगशक्तौ तस्यैवोपायत्वस्वीकारः प्राप्नोतीति तदपि मन्दम् ।
स्वयोगमहिमप्रत्यक्षिततत्त्वत्रयाणां नाथमुनिकुरुकेश्वरप्रभृतीनां
प्राक् परिगृहीतप्रपत्त्युपायैकनिष्ठानामेव पश्चादपि
भगवत्प्रसादलब्धयौगिकभगवदानन्दास्वादस्य प्रसिद्धत्वात् । अन्यथा
तथाविधानुसन्धानपूर्वकभाष्यकारोक्तसमाराधनादिशक्तौ
तस्याप्युपायत्वस्वीकार[स्वीकार क ख ग च झ पस्तकेषु
नास्ति]प्रसङ्गात् । तच्चेत् स्वामिकैङ्कर्यरूपमिति स्वादुतमतया
[स्वादुतमतया क ख ग च झ पुस्तकेषु नास्ति]
स्वयम्प्रयोजनत्वेनोपादीयेत् समाधावप्ययं
समाधिकदरिद्रसुखसन्दोहात्मनि समः समाधिः । प्रपन्ननुगुणं च
यौगिकमनुसन्धानं [शाण्डिल्यस्मृतावपि क च झ]
शाण्डिल्यस्मृतावुच्यते -

ईदृशः परमात्मायं प्रत्यागात्मा तथेदृशः [अयमीदृशः घ “अ
छ ज] ।
तत्सम्बन्धानुसन्धानमिति योगः प्रकीर्तितः ॥

योगो नामेन्द्रियैर्वश्यैर्बुद्धेर्ब्रह्मणि संस्थितिः ।
प्रयुक्तैरप्रयुक्तर्वा भगवत्कर्मविस्तरे ॥

इति । एतदनुबद्धमेव [एतदनुसन्धानमेव क ख ग ज झ]
द्वयार्थानुसन्धानम् । एतद्विरुद्धं तु राहुमीमांसकानां
कबन्धमीमांसकानां चानुसन्धान वेदबाह्यमिति
श्रीकृष्णमुनिभिरुक्तम् -

चेतनस्त्वेक एवेति मतिर्या केवला क्रिया ।
फलतीति मतिस्ते द्वे वेदाप्रामाण्यबुद्धिजे ।
स एनं प्रीतः प्रीणाति ब्राह्मणस्यानुगे न ते ॥

इति ।

पाञ्चकालिकधर्मस्य स्मृत्युक्तकर्मभिर्नोपरोधः

यत्त्वपरमुक्तम्- व्यासदक्षाद्युपदिष्टवत्र्मनापि
स्ववर्णाश्रमोचितभगवदाँजानुपालनरूपदिनचर्यासिद्धिः [अतश्चेत्वेव
सर्वत्र पाठः । पूर्वपक्षानुवादे तु अन्यथेति दृश्यते ।]
अतश्चोभयसम्भेदे कर्मणां परस्परोपरोधप्रसङ्गश्चेति तत्र
तावदविदितश्रौतस्मार्तवृत्तन्तानामयं परस्परोपरोधचोद्यावतारः ।
एवं ह्यत्र परिहृतं श्रीकृष्णमुनिभिः -

पश्विर्ष्टि[दर्धी ख ग च ञ्]दर्विहोमानां ससोमानां समुच्चयः ।
यथा बहुनामेकस्मिन् तथैवास्यपि कर्मणः ॥

इति । न चात्र तावानप्युपरोधः ।

व्यासस्मृतौ अभिगमनसंवादनम्

अपि च तत्रापीदमभिगमनादिपञ्चकमनुप्रविष्टं दृश्यते । व्यासस्तावत्##-

ब्राह्मे मुहूर्त उत्थाय धर्ममर्थं च चिन्तयेत् ।
कायक्लेशं तदुभूतं ध्यायीत मनसेश्वरम् ॥

इत्यारभ्य प्राभातिकस्नानसन्ध्योपासनप्रकारमुपदिश्य

अथागत्य गृहं विप्रः समाचम्य यथाविधि ।
प्रज्वाल्य वह्निं विधिवत् ॥

इत्यादिना प्रातर्होमं च विधाय अनन्तरमाह -

देवादीनां नमस्कुर्यादुपहारं निवेदयेत् ।
दद्यात् पुष्पादिकं तेषं वृद्धांश्चैवाभिवादयेत् ॥

गुरुं [गुरूंश्चैव क ख ग च झ] चैवाप्युपासीत हितं चास्य
समाचरेत् ।
वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥

जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् ।
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ।
वैदिकांश्चैव निगमान् वेदाङ्गानि विशेषतः ॥

इति । अत्र दक्षोक्तप्रक्रियया द्वितीयार्धयामसाध्यवेदाभ्यासादिषु
[अदृष्टांशः ख ग] अदृष्टार्थांशो जपस्तोत्रशब्दाभ्यां
जयाख्यसंहितायामुपलक्ष्यते । वृत्तिकर्शितस्य कस्यचित् [अदृष्टांशः
ख; दृष्टांशः क ग झ] दृष्टार्थांशोऽस्ति चेत्
अभिगमनकालसङ्कोचेन परस्मिन्नुपादाने समन्वेति । अत्र
देवनमस्कारोपहारनिवेदनपुष्पादिप्रदानादभिगमनं सिद्धम् ।
देवनमस्कारश्चात्र विष्णुनमस्कार एव स्वरसतः प्राप्तः
निरुपाधिकदेवत्वस्य देवतान्तरनमस्कारस्यापि तत्रैव विश्रमात् । अत एवादौ
ध्यायीत् मनसेश्वरम् इति ध्येयतयोक्त ईश्वरोऽपि जयादि।विव सर्वेश्वरो विष्णुरेव
। ईश्वरो विक्रमी धन्वी इति च तन्नामसु[नामसु क ख च ज झ] पठ्यते
उत्तरत्र [अत एवोत्तरत्र क ख ग ङ् च झ] न विष्ण्वाराधनात् पुण्यं
विद्यते दर्म वैदिकम् इति स्वयमेवाभिदानाच्च । इदमेव
विष्णुनमस्कारादिरूपमभिगमनं तत्परशास्त्रेष्वपि
नानाप्रकारमुपदिश्यते । देवादीनाम् इत्यादिशब्देन पित्रादिसङ्ग्रहः ।

व्यासस्मृतौ उपादानसंवादानम्

एवं प्रथमकालकर्तव्यमुक्त्वा द्वितीयकालसाध्यं
समाराधनोपकरणसम्पादनमुपादानमाह-

उपेयादीश्वरं चापि योगक्षेमार्थसिद्धये ।
सावायेद्विधानर्थान् कुटुम्बार्थे ततो द्विजः ॥

इति । एतच्च लौकिकेश्वराभिगमनं गत्यन्तरहीनस्यापद्विषयम् । स्मरन्ति हि-
नगरप्रवेशनानि [प्रवेशनादि क झ] च वर्जयेत् इति । उक्तं च [श्री
क ख ग च झ पुस्तकेषु नास्ति] श्रीशाण्डिल्यस्मृतौ-

बुद्धरुद्रादिवसतिं श्माशानं शवमेव च ।
अटवीं राजधानीं च दूरतः परिवर्जयेत् ॥

इति । कालपञ्चककृत्यं तत्र प्रपञ्चितं [यथायोग्यं क ख ग च छ ज
झ] यथायोगं सर्वैर्ग्राह्यम् । इदमेव चोपादानं भगवदर्थत्वेन
भगवच्छास्त्रेषु विधीयते । अत्रापि कुटुम्बार्थे इति न केवलं तादर्थ्यं
विवक्षितम् [कुटुम्बार्थे इति वचने केवलतादर्थ्यमविवक्षितम् क ख ग
झ] तद्बुद्धेः सर्वत्र प्रतिषेधात् । अगीयत च [गीयते च क च झ]
स्वयं भगवता-

यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर ॥

इति । अतो भगवदाराधनरूपयज्ञशिष्टेन [कुटुम्बभरणमपि क ख ग
च झ; कुटुम्बरक्षणमपि ङ् छ] कुटुम्बसंरक्षणमपि
भगवदाज्ञानुपालनरूपमेवेति तद्विवक्षया महर्षिणा कुटुम्बार्थे इत्युक्तम्
। धर्मर्थ च चिन्तयेत् इत्यारम्भोक्तार्थचिन्तनमपि धर्मशेषतया ।
कायक्लेशचिन्तनं तु क्लेशरहितोपायवेषणार्थम् । स्मरन्ति हि मन्वादयः-

अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयन् ।
अप्रयत्नागताः सेव्या गृहस्थैर्विषयाः सदा ॥

इत्यादि ।

व्यासस्मृतौ इज्यासंवादनम्

अथ तृतीयकालकृत्यमाह - ततो मध्याह्नसमये स्नानार्थं
मृदमाहरेत् इत्यादिना । स्नाने चैवं भगवद्नुसन्धानमाह-

अभिमन्त्र्य जलं मन्त्रैरब्लिङ्गैर्वारुणैः शुभैः ।
भावपूतं तदव्यग्रं ध्यायन् वै विष्णुमव्ययम् ॥

आपो नारयणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मानारायणं देवं स्नानकाले स्मरेद्बुधः ॥

इति । तधा -

त्रिपदां वात्र सावित्रीं तद्विष्णोः परमः पदम् ।
आवर्तयेद्वा प्रणवं देवं वा संस्मरेद्धरिम् ॥

इति च । तर्पणेऽपि-

आदाव्ॐकारमुच्चार्य नामान्ते [नमोऽन्ते ग च छ] तर्पयामि च ।
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ॥
तिलोदकैः पितॄन् भक्त्या सूत्रोक्तविधिना ततः ॥

इति । अत्र प्रणवपूर्वकत्वेन भगवदात्मकत्वानुसन्धानं विहितम् । एतदेव च
नित्ये भाष्यकारैरपि दर्शितम्- देवानृषीन् पितॄन् भगवदात्मकात्
ध्यात्वा सन्तर्प्य इति । तृतीयकालसाध्यं साक्षादिज्यारुपं
समाराधनमेवाह-

न इष्णवाराधनात् पुण्यं विद्यते कर्म वैदिकम् ।
तद्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥

तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण च ।
नैवाभ्यां सदृशो मन्त्रो वेदेषुक्तश्चतुर्ष्वपि ॥

निवेदयीत् स्वात्मानं विष्णावमलतेजसि ।
तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥

इति । अत्र तद्विष्णोरित्यादेः स्तुतिः न याज्ञवल्क्यादिविहितप्रणवाद्यपकर्षपरा ।
एवं विष्ण्वाराधनस्य सर्वोत्तरस्त्वकण्ठोक्तेः पूर्वापरग्रन्थेषु सामान्यतो
विशेषतश
देवतान्तरार्चनवचनमन्तवत्प्रिमितफलार्थिप्रतिबुद्धेतराल्पमेधसः
पुरुषानधिकृत्येति मन्तव्यम् । गीयते च अन्तवतु फलं तेषां
तद्भवत्यल्पमेधसाम् इति । उक्तं च [उत्तरत्र च क ख ग ज झ]
महाभारते-

ब्रह्माणं शितिकण्थं च याश्चान्या देवताः स्मृताः ।
प्रदिबुद्ध न सेवन्ते यस्मात् परिमितं फलम् ॥

इति । आह च बादरायणः - नान्यं देवं
नमस्कुर्याद्विष्णुपादाब्जसंश्रयः इति ।

कर्मणां परिपाकत्वादा विरिञ्चादमङ्गलम् ।
इति मत्वा विरक्तस्य वासुदेवः परा ततिः ॥

इति च ।

पाञ्चरात्रोक्तं समाराधनमेव सर्वेषां मुख्यम्

इदं च विष्ण्वाराथनं भगवच्छस्त्रेषु
तैस्तैर्व्यापकमन्त्रप्रभृतिभिस्तत्तदधिकारानुरूपं प्रपञयते ।
अधिकृतशास्त्राप्रतिपादितस्य पूर्णोपदिष्टस्यैव मुख्यत्वं
होतृशाखोक्तहौत्रपरिग्रहन्यायेन सिद्धम् । एतेन अलाभे वेदमन्त्राणां
पञ्चरात्रोदितेन वा इति स्मृतिरपि प्रणवाष्टाक्षर
द्वादशाक्षरादिमन्त्राणामाथर्वणरहस्यान्मायाद्यधीततया
वेदमन्त्रशब्देन सङ्ग्रहात् पञ्चरत्रोदितिन वा
इत्ययमंशस्तान्त्रिकसङ्क्षितप्रत्यक्।एस्तरश्रुतिमूलमन्त्रान्तरविषयतया
योज्यः ।

भगवत्समाराधनस्य नित्यत्वम्

नित्यं चैतद्वैश्वदेवादिवत् भगवत्समाराधनम् । नित्यमराधयेद्धरिम् इति
वचनात् ।

शानकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं परम् ।
प्र वः पान्तमन्धसो धियेत्यर्धर्चविधानतः [धित्यृचोऽर्धस्य घ ङ्
ज; चोऽर्धर्च ख ग; धि इत्यर्धर्च क झ] ॥

इति सूत्रान्तरानुसारात् ।

स्नात्वा नित्यं शुछिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥

इति सामान्यतो मनुक्तेश्च । उक्तं चानुशासनिके श्रीपुण्डरीकनारद संवादे -

ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव याति परां गतिम् ॥

इति । एवं य्ल्गयाज्ञवल्क्यादिष्वपि [योगयाज्ञवल्क्येनापि क ख ग] -

विष्णुर्ब्रह्मा च रुद्रश्च विष्णुर्देवो दिवाकरः ।
तस्मात् पूज्यतमं नान्यमहं मन्ये जनार्दनात् ॥

इत्यादिकमुच्यते । एवंविधदेवतार्चनाकरणे च प्रत्यवायं स एवाह -

यो मेहादथवालस्याकृत्वा देवतार्चनम् ।
भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते ॥

इति । भगवदर्चावताररहितगृहन्य[अर्चारहितगृहस्थस्य घ]
पुरुषस्याभोज्यान्नत्वमप्यन्यग्रोच्यते -

केश्वार्चा गृहे यस्य न तिष्ठति महीपते ।
त्स्यान्नं नाइव भोक्तव्यमभक्ष्येण समं हि तत् ॥

इति । अनन्तरं च पञ्चमहायज्ञपूर्वकं प्राणाग्निहोमं
प्रपञ्चयन्नेवमाह [एवाह क ख ग ङ् च ज झ] -

स्वाहाप्रणवसंयुक्तं प्राणायान्नाहुतिं ततः ।
अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥

उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।
विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥

शेषमन्नं यथाकामं भुञ्जीत व्यञ्जनैर्युतम् ।
ध्यात्वा तु मनसा देवमात्मानं वै परजापितम् ॥

इति । अत्रापि देवप्रजापतिशब्दौ पूर्वोक्तनयेन विष्णुपरौ मन्तव्यौ
[मन्तव्यै क ख ग झ पुस्तकेषु नास्ति] हृदि ध्यायन् हरिं तस्मै
निवेद्यान्नं समाहितः
इत्यादिभगवद्यामुनेयोपात्तकर्मकाण्डस्थप्राणाग्निहोत्रविषयव्यासवचनानु
साराच्चास्मिन्नपि [अस्मिन्नेव क ख ग झ] व्यासवचने देवध्यानं
तदेव हृदयस्थहरिध्यानमिति गम्यते । ईदृशं च
भोजनमेवानुयागसमाख्ययान्यत्र व्यपदिश्यते ।

व्यासस्मृतौ स्वाध्यायसंवादनम्

[अथ क ख झ पुस्तकेषु नास्ति] अथान्यदपि भोजने अपेक्षितं
सर्वमुपदिश्य

भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाभ्यां वेदं समुपबृम्हयेत् ॥

इति चतुर्धकालसाध्यं स्वाध्यायमाह । एवमन्येऽपि स्मरन्ति भुक्त्वोपस्थाय
चादित्यं पुराणानि सदा पठेत् इत्यादि ।

अत्र परिपूर्ण-ज्ञानस्य +उपबृंहण-निरपेक्षस्याधिकारि-विशेषस्य
द्वि-षड्–अष्ट–षड्-अक्षर–द्वयादि-जप एव स्वाध्याय इति,
तत्र तत्र तद्-विधिः।
अत एव रहस्याम्नाये वेदान्तर-निषेधेन द्वि-षट्क-मात्र-स्वाध्याय-विधानं निर्व्यूढम्।

व्यासस्मृतौ योगोऽपि आक्षेपलभ्यः

यत् पुनरनन्तरं [पञ्चकाऽ ख घ] पञ्चमकालकृतमुक्तम् ततः
सन्ध्यामुपासीत इत्युपक्रम्य

हुर्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा चान्नमभिष्टकम् ।
सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥

इत्यादि अत्र रात्रिभोजनवचनेन तदनन्तरं योगोऽपि दिवाभोजनानन्तरोक्तः
स्वयमेवागछतीति तदनुक्तिः । तधाहि पूर्वं दिवाभोजनानन्तरमेवमाह##-

हुगानुमन्त्रणं कुर्याच्छ्रद्धायामिति मन्त्रतः ।
तथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणीति हि ॥

सर्वेषामेव योगानामात्मयोगः परः स्मृतः ।
योऽनेन [योगेन क ख च छ झ] विधिना कुर्यात् स याति पदमक्षयम् ॥

इति । एवं च निगमयामास -

इत्येतदखिलेनोक्तमहन्यहनि यन्मया ।
ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥

नास्तिक्यादथवालस्याद्ब्राह्मणो न करोति यः ।
स याति नरकान् घोरान् काकयोनौ च जायते ॥

नान्यो विमक्तये पन्था मुक्त्वाश्रमविधिं सुखम् ।
तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठनः ॥

इति । अत्र परमेष्ठि सर्वकर्मसमाराध्यो विष्णुरेव । विष्णोरेव
सर्वकर्मसमाराध्यत्वम्

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
जज्ञैस्त्वभिज्यसे नित्यं सर्वभूतमयाच्युत ।
हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृत् ॥

इत्यादिषु प्रसिद्धम् । अयं चारु परमेष्ठि विहितकर्मतोष्यत्वेनोच्यते । परमे
वादे तिष्ठीति परमेष्ठि । स च तमसः परस्तात् तद्विष्णोः परमं पदम् इत्युक्ते
शुद्धसत्त्वमये [वकुण्ठादि घ ङ् ज] वैकुण्ठसञ्ज्ञके लोके
वर्तमानः पुरुषोत्तम एव । एवं वैयासे धर्मशास्त्रे भगवतः पञ्चसु
कालेषु भजनं भगवन्नित्यकर्मानुप्रवेशेनैव विहितमिति न कस्यचित्
तत्परित्याग उपपद्यते ।

दक्षोक्तकालाष्टकविभागोऽपि पाञ्चकालिककर्मानुगुणः

यत्तु दक्षेणोक्तं कालाष्टकविभागेन दिनकृत्यः तदपि प्रकृतानुगुणमेव

प्रातरुत्थय कर्तव्यं यद्द्विजेन दिने दिने ।
तत् सर्वं सम्प्रवक्ष्यामि द्विजानामुपकारन्कम् ॥

उदयास्तमयं यावन्न विप्रः क्ष्णिको भवेत् ।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥

स्वकं कर्म परित्यज्य यदन्यत् कुरुते द्विजः ।
अज्ञानादथवा लोभात् त्यागेन पतितो भवेत् ॥

इति । नित्यनैमित्तिककर्मणां तदुपकारिकाम्यकर्मणां च
यथाकालमनुष्ठानमविच्छेदेन कर्तव्यमिति प्रतिपाद्य

दिवसस्याद्यभागेन कृत्यं तस्योपदिश्यते ।
द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ॥

षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ।
भागेष्वेतेषु यत् कृत्यं तत् प्रक्ष्याम्यशेषतः ॥

इति कालाष्टकविभागेन कृत्यविभागां सामान्यतः प्रस्तुत्य

दक्षस्मृतौ प्रथमद्वितीयकालकर्तव्यस्त्याभिगमनेऽन्तर्भावः

उषःकाने त्न् सम्प्राप्ते शौचं कृत्वा यथार्थवत् ।
ततः स्नानं प्रकुर्वीतं दन्तधावनपूर्वकम् ॥

इत्यादिना

सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु ।
यदन्यत् कुरुते कर्म न तस्य फलभाग्भवेत् ॥

इत्यन्तेन स्नानाचमनसन्ध्यावन्दनादीनि यथावत् प्रतिपाद्य-

सन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमे फलं यत्तु न तदन्येन जायते ॥

ऋत्विक् पुत्रो गुरुर्भ्राता भागिनेयोऽथ विटपतिः ।
एतैरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥

इति प्राभातिकं होमं चोक्त्वानन्तरमाह -

देवकार्यं ततः कृत्वा गुरुमङ्गलवीक्षणः [वीक्षणं छ ज] ।
देवकार्यस्य सर्वस्य पूर्वाह्णस्तु विशिष्यते ॥

देवकार्याणि पूर्वाह्णे मनुष्याणां तु मध्यमे ।
पितॄणामपराह्णे तु कार्याण्येतानि यत्नतः ॥

इति । अत्र प्रात्रोमानन्तरं देवकार्यविधानात् तत्कालचोदितं
भगवदभिगमनमपि सामान्यत् उपदिष्टं भवति । यत्त्वनन्तरमुक्तम् -

द्वितीये तु तथा भागे वेदाभ्यासो विधीयते ।
वेदस्वीकरणं पूर्वं वोचारोऽभ्यसनं जपः ।
तद्दाने चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधाः ॥

इति, तदप्यनुगुणं । उक्तानि हि जयाख्यसंहितायां जपध्यानार्चनस्तोत्राणि
प्रथमप्रहरपर्यन्तेऽभिगमने ।

उपादानं चानन्तरमेवाह -

दक्षोक्ततृतीयकाल-कृत्यस्य उपादानेऽन्तर्भावः

समित्पुष्पकुशादीनां स कालः समुदाहृतः ।
तृतीये तु तथा भागे पोष्यवर्गार्थसाधनम् ॥

इति । इदं चोक्तं जयाख्यसंहितायाम् ततः पुष्पफलादीनाम् इत्यादिना । अत्र
पोष्यवर्गार्थसाधनम् इत्येतत् प्रागुक्तन्यायेन भगवत्प्रीणनतयैवेति ग्राह्यम्
। आह चात्र प्रातः स्नानं [स्नानदि क ख ग; स्नानादीन् च झ] प्रक्रम्य
पूर्वमेव सर्वेषु कर्मसु भगवदनुसन्धानम् -

[ध्यायेत् क ख ग अ झ] ध्यायन्नारायणं देवं स्नानादिषु च
कर्मसु ।
ब्रह्मलोकमवाप्नोति न चेहाजायते पुनः ॥

इति [इति च घ] । असूत्रयच्च भगवान् शौनकः हरिमेव स्मरेन्नित्यं
कर्मपूर्वापरेषु च इति । अत्र कर्मशब्देनानवच्छेदात्
[दृष्टादृष्टसर्व क ख]
दृष्टादृष्टार्थसर्वकर्मसङ्ग्रंहः । अन्यदेवत्य[अन्यदैवत्य ज]
कर्मण्यपि तदन्तरात्मभूतो हरिरनुसन्धेय इत्येवकाराभिप्रायः ।
नित्यमित्यनेन काम्यत्वनैमित्तिकत्वशङ्काव्युदासः । स्वतः प्राप्तं कर्मकाले
स्मरणं चकारेण सङ्गृह्यते । एवं शास्त्रीयेषु सर्वेषु [सर्वेषु क ख
ग झ पुस्तकेषु नास्ति] कर्मसु भगवदनुसन्धानं नित्यमिति सिद्धम् ।
एतदेव रागप्राप्तेष्ववर्जनीयमिति जयाख्यसंहितायां नयमेषु पठ्यते-

शयनासनयानादावसक्तश्चपि [असक्तश्चापि घ छ ज] भोजने ।
गृद्गतं न त्यजेद्ध्यानमानन्दफलदं हि यत् ॥

इति । सर्वसङ्ग्रहेण तूच्यते -

आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं धेयो नरायणः सदा ॥

इति ।

एतच्च नित्यात्वात् स्वरूपानुरूपानन्दफलत्वेन स्वयं प्रयोजनत्वाच्च
स्वतन्त्रप्रपत्तिशास्त्रार्थनिष्ठैरपि [शास्त्रनिष्ठैरपि क ख ग च ज
झ] दुस्त्यजम् । उक्तं चैवं स्वयं प्रयोजनत्वं नारायण-मुनिभिः _

वृत्तिः स्वामिनि दासस्य
स्वरूपानुगुणा शुभा ।
भक्ति-श्रद्ध-समायुक्ता
तत् समाराधनं विदुः

किं किं न साध्यं भगवद्-
आराधन-परैर् नरैः ।
वैष्णवानां विशेषेण
स्वयम् एतत् प्रयोजनम्

इति । भगवदनुसन्धानविच्छेदोऽपि हि पुरुषार्थहानित्वेन स्मर्यते -

यनुमुहूर्तं क्षणं वासुदेवो न चिन्तयेत् ।
सा हानिस्तन्महच्छिद्रं सा भ्रान्तिः सा च विक्रिया ॥

इति । पुरुषार्थहानिः कामक्रोधाद्यरीणामवकाशः
अनात्मादिष्वात्मबुद्धिहेतुः अस्वाभाविकसुखदुःखकारणं चेत्यर्थः ।

एकस्मिन्नप्यतिक्रान्ते मुहूर्ते द्यानवर्जिते ।
दस्युभिर्मुषितेनेव युक्तमाक्रन्दितुं भृशम् ॥

इति । स्विन्नवृत्तीनामन्यपराणामपि -

व्यापृतेनापि मनसा विष्णुः सेव्योऽन्तरान्तरा ।
मेधिबद्धो भ्राम्यमाणो घासग्रासं करोति गौः ॥

इत्यादिभिर्यथावसरः क्षुच्छन्तिकरक्र्मसमाधिना तावन्मात्रप्रयोजनत्वेन
भगवत्सेवनं स्मर्यते । तदिह सिद्धोपायस्य उपायं साधयतश्च
भगवत्कैङ्कर्यमरोगस्य आरोग्यार्थिनश्च क्षीरास्वादवत् स्वयम्प्रयोजनमेव

दक्षोक्तचतुर्थ-पञ्चम-काल-कृत्यस्य इज्यायाम् अन्तर्भावः

यत्तु चतुर्थे तु तथा भागे स्नानार्थं मृदमाहरेत् इतादिना
स्नानभेदानप्युपदिश्य

पञ्चमे तु तथा भागे संविभागो यथार्हतः ।
पितृदेवमनुष्याणां कीटाणां चोपदिश्यते ॥

इत्यादीना-

संविभागं ततः कृत्वा गृष्थः शेषभुग्भवेत् ।
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् ॥

दक्षोक्तषठसप्तमकालकृत्यस्य स्वाध्यायेऽन्तर्भावः ।
अष्टमकालोक्तलोकयात्रा तु न परमैकान्तिनाम्

इत्यन्तेन सङ्ग्रहेण देवतार्चनं [देवार्चनादिकं छ ङ् छ ज]
भोजनपर्यन्तमुक्तम् तत्रापि अवान्तरपर्वभेदेन द्विधा विभक्तोऽयं काल एव
ज्याकालः इत्येकीकृत्य निर्दिश्यत इति न विरोधः । अत्र
देवस।विभागशब्धनिर्दिष्टमर्थमुत्तरत्र देवतार्चनशब्देन
विशेषतयामास- सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् इति ।
एवम् इतिहासपुराणाभ्यां षष्थं सप्तममभ्यसेत् इत्युक्तं कालद्वयं
स्वाध्यायकाल इत्येकीकृतम् । अत्र मात्रया [कालत्रयवैषम्यं क ख ग
च] कालवैषम्यं मतभेदादुपपद्यते । अष्टमे लोकयात्रां तु
बहिःसन्ध्यां ततः पुनः इत्युक्तलोकयात्राकालविभागस्तु लोकपराङ्मुखे
भगवदेकान्तिनि नातीवाइएक्षित इति तदनुक्तिः । यथोक्तं पूर्वश्रवे [पूर्व
(ग्रन्थे) श्रवे च]

गुरोर्गुरौ सन्निहिते विर्ट्तिः कार्या यथा गुरौ ।
[विद्यागुरुष्वनन्येष्वप्यन्या क ख ग ङ्] विद्यागुरुष्वनन्येषु नित्या
वृत्तिः स्वयोनिषु ॥

इति । उक्तं च ब्रह्मविद्भिः -

अद्यप्रभृति हे लोका यूयं यूयं वयं वयम् ।
अर्थकामपरा यूयं नारापणपरा वयम् ॥

नास्ति सङ्गतिरस्माकं युष्माकं च परस्परम् ।
वयं तु किङ्करा विष्णोर्यूयमिन्द्रियकिङ्कराः ॥

इति । अहेरिव गणाद्भितः इत्यादिषु च भिन्नशिलगुणपरिहार उपदिश्यते ।
सन्न्यासप्रकरणे समानशीलैः सहवासो न दोषाय इति कपिलानुशिष्टस्य
कैमुत्येन गृहस्थादिष्वपि मोक्षार्थिषु त्य्ल्यप्रसरतात् । आमनन्ति च
बह्वृत्तः- नेदंविदनिदंविदा समुद्दि"एस्न सह भुञ्जीत न सधमादी
[सधर्मा क ख ग च झ] स्यात् इति । तस्येदमुपबृंहणम् -

आविद्यः [अवैद्यः क च] प्राकृतः प्रोक्तो वैद्यो वैष्णव उच्यते ।
आविद्येन [अवैद्येन क च] न केनापि वैद्यः किञ्चित् समाचरेत् ॥

इति ।

अहन्यहनि धर्मस्य योनिः साधुसमागमः ।
मोहजालस्य हेतुर्हि [योनिर्हि घ ङ् छ ज] धूर्तैरेव समागमः ॥

इति । तथा-

मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः ।
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥

शरीरारोग्यमर्थांश्च भोगांश्चैवानुषङ्गिकान् ।
ददाति ध्यायिनां नित्यमपवर्गप्रदो हरिः ॥

वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः ।
न शौरिचिन्ताविमुखजनसंवासवैशसम् ।

[इत्यादिभिश्च घ ङ्] इत्यादिभिर्ब्रह्मविदां लोकनैरपेक्ष्यं सिद्धम् ।
अत एव हि लौकिकेश्वराभिगमनमप्यापद्विषयमिति पूर्वमेवोक्तम् । यत्तु
पश्चादुक्तम् -

दक्षस्मृतौ वेदाभ्यासस्य योगेनाविरोधः

प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते ॥

इति अत्र योगासमर्थस्य तच्छेषभूतः स्वाद्यायः समर्थस्य तु योग एवेति न
समानकालदुभयविधायकशास्त्रद्वयविरोधः । विस्तरेण चाह योगमन्ते
दक्षः । तत्र चैष सारः प्रोक्तः -

सर्वोप्साधिविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद्ध्यानं च योगश्च शेषोऽन्यो ग्रन्थविस्तरः ॥

इति । याज्ञवल्क्यश्च वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं ब्रह्मणि न्यसेत् इति ।
वृत्तिहीनं बाह्यवृत्तिरहितमित्यर्थः । अतः स्वाध्याययोगयोरेकैकस्मिन्
प्रदोषादिकाले तदंशभेदेन क्रमात् प्रयोगेऽपि [प्रयोगभेदेऽपि क ख ग
झ] न विरोधः । यत्रैकाग्रता तत्राविशेषात् इति शारीरकसमर्थितप्रकारेण
एकाग्रतानुगुणकालान्तरेऽपि स्वगुणभूतस्वाध्यायादिनिरोधेनापि
योगोऽनुष्ठातुं युक्तः । यामयामार्धविभागे स्वाध्यायादिषु
नातिदूरपूर्वापरन्यूनाधिकनाडिकाविभागादयस्तु मतभेदतया निर्वाह्या इति
। एवं स्मृत्यन्तराण्यपि संवादनीयानि [सम्पादनीयानि क ख ग च
झ] ।

पञ्चकालधर्मावश्यकता-निगमनम्

अतः पञ्चसु कालेषु तैस्तैः कर्मभिर्भगवत्सेवनस्य नित्यत्वेन विधानात्
व्यासदक्षाद्युक्तमर्यादया भगवदाज्ञानुपालनेऽपि
नीरन्ध्रभगवदुपासनसिद्धेः
अधिकृतशास्त्रोक्तप्रशस्ततमपूर्णशास्त्रार्थपरिग्रहोउचित्यस्य प्रागेव
दर्शितत्वात् [भाष्यकारतदन्तेवासिप्रभृतिभिश्च
प्रपत्त्येकनिष्ठैस्तदनुसारेण भगवद्भजनस्योक्तत्वात् तद्योग्यैश्चाद्य यावत्
तदनुष्ठाय यथाशक्ति परिग्रहात् अनिपुणपरित्यागस्यानादरणीयत्वात्
[अनिपुणपरित्यागस्यानादरणीयत्वात् क ख ग झ पुस्तकेषु न
दृश्यते] यच्छीलः स्वामी तच्छीला प्रकृतिः इति न्यायेन

नाहङ्कारान्न संरम्भान्नामर्षन्नार्थकारणात् ।
न [भेदवादात् क ख ग झ] हेतुवादाल्लोभाद्वा धर्मं [जह्यात्
क ख च छ झ] जह्यां कथञ्चनः ॥

इति वदता भगवता वसुदेवनन्दनेन स्वामिना तदासैः समशीलैर्भवितव्यत्वात्
स्वामिसम्प्रीननस्वरूपानुरूपवृत्तेश्च सर्वाभिमतत्वात् तत्प्रीणनस्य च
नित्यानां मुक्तानामिव च मुमुक्षुभिः प्रत्यक्षेणावतन्तुमशक्यत्वात् श्रुतिः
स्मृतिर्ममैवाज्ञा इति तदुक्त्यनुसारेण शास्त्रादेव तत्प्रीणननिश्चयात्
येनास्य इत्यादिप्रतिपादितप्रकारेण तत्तत्संहिताभेदभिदुरेषु
परमात्मसम्प्रीणनप्रस्थानभेदेषु काञ्चिन्मर्यादामवल्म्ब्य
स्वतन्त्रप्रपत्तिनिष्ठैरपि स्वाधिकारोपदेशाद्यनुरूपम्

कुसीदमेके विहरन्ति सर्वे
य [यच्छब्दः च कोशे नास्ति] आशीर्वदन्तो ददत्यत्र किञ्चित् ।
पर्यन्तलोकास्त्विह ते भवन्ति
अनाशिषस्तु विजयायानन्ताय ॥

यस्य सर्वे समारम्भा अनाशीर्बन्धनस्त्विह ।
त्यागे यस्य हुतं सर्वं स त्यागी स च पण्डितः ॥

अथ भो [अयि भो क च झ] भगवन्तं याचेत न भो इत्याह आश्रयितव्यो
भगवान् भवति न त्वेव याच्यः इति रहस्यान्मायादिचोदितप्रकारेण
प्रयोजनान्तरप्रार्थनारहितैः स्वयम्प्रयोजनत्वात् पञ्चस्वपि
कालेष्वविच्छेदेन भगवत्सम्प्रीणनरूपशास्त्रीयकैङ्कर्यव्यापारेण
यावन्न्यासविद्याख्ययागावभृथम्
आगामिनिश्रेयसकालनिर्विशेषमबन्ध्यकालो यापनीय इति दिद्धम् ।

अयमत्र सारः -

पाञ्चकालिकधर्मानुष्ठानप्रयोजनम्

माङ्गल्यसूत्रवस्त्रादीन संरक्षति यथा वधुः ।
तथा प्रपन्नः शास्त्रीयपतिकैङ्कर्यपद्धतिम् ॥

यद्वन्मङ्गलसूत्रादेस्त्यागे संरक्षणेऽपि वा ।
रक्षेन्निरोधाद्भोगाद्वा [निरोधैर्भोगैर्वा क ख; निरुन्ध्याद्भोगैर्वा
च] पतिस्तद्वदिहापि नः ॥

इति ।

कालं सर्वमिहाभ्युपेत्य भग्वत्कैङ्कर्यमादेशिकं
तत्पर्वक्रमपञ्चके किमु वयं मान्ये विमन्येमहि ।
त्यक्त्वा वि।शतिपञ्चकं शतमिव प्राप्तुं मुधा मुह्यता-
मस्माकं सदसद्विवेकिषु मतं हासास्पदं मा स्म भूत् ॥

[एष श्लोकः क ख ग च झ पुस्तकेषु कालं सर्वम् इति श्लोकात् पूर्वं
दृश्यते । उपरुन्धन् इति तेषु पाठः]
अनुपुरमनुरुन्धन्नान्तरध्वान्तराशिं
न च पुरत उदेता नास्तमेता च पश्चात् ।
स्वविषयनिजधर्मान् शुद्धसत्त्वान् स सत्त्वा-[सतत्त्वान् छ]
नवतु भवतुषारादक्षरयोमसूर्यः ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां
नित्यानुष्ठानस्थापनाख्यः

द्वितीयोऽधिकारः