सिद्धान्तव्यवस्थापनाख्यः प्रथमोऽधिकारः
मङ्गलाचरणम्
चातुर्-व्यूहं परं ब्रह्म
षाड्गुण्य-परिकर्मितम् ।
पञ्च-रात्रस्य कृत्स्नस्य
प्रसूतिं पर्युपास्महे ॥
अनन्य-देवता-स्थायिन्य्
आयतेमहि ते वयम् ।
पञ्चरात्र-महाम्भो-धि-
पार-दृश्वनि सज्जने ॥
(परान्→) आरोहन्त्व् अनवद्य-तर्क-पदवी–सीमा-दृशां मादृशां
पक्षे कार्त-युगे निवेशित-पदाः, पक्षे पतद्भ्यः परान् ।
सर्वानुश्रव(=श्रुति)-सार-दर्शि–स-शिरः-कम्प–द्वि-जिह्वाशन-
क्रीडा-कुण्डल(-सर्प)-मौलि-रत्न–घृणिभिः(=प्रभाभिः) सारात्रिकाः(=सनीराजनाः) (पाञ्च-रात्र-)सूक्तयः ॥ ८५ ॥
पाञ्चरात्र प्रामाण्यम्
अत्र तावत् प्रत्यक्षित-समस्त-वेदार्थ-तत्त्व-स्थितिभिः पाराशर्य-प्रभृतिभिः
महा-भारतादिषु भगवच्-छास्त्रस्य सार्वभौमं प्रामाण्यं प्रत्यपादि ।
शारीरके च
कपिल–कण-भक्ष–भिक्षु-क्षपणक–पशु-पति–समय-प्रतिक्षेप-समनन्तरं
तन्त्रान्तर-सह-पाठादि-सम्भवन्–मन्द-मति-व्यामोह-शमनाय
उत्पत्त्य्-असम्भवात्
न च कर्तुः करणम्
इति सूत्राभ्यां पूर्वपक्षम् उपक्षिप्य
विज्ञानादि-भावे वा तद्-अप्रतिषेधः
विप्रतिषेधाच्च
इति सूत्र-द्वयेन
जीवोत्पत्त्य्-आद्य्-अनुक्ति–तत्-प्रतिषेध-प्रतिपादन-द्वारेण सिद्धन्तः समर्थितः ।
भगवद्-यामुन-मुनिभिर् भाष्य-कारैश् च
इदं महोपनिषदं
चतुर्-वेद-समन्वितम् ।
साङ्ख्य-योग-कृतान्तेन
पञ्चरात्रानुशब्दितम् ॥वेदान्तेषु यथासारं
सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान्
सञ्चिक्षेप यथा-सुखम् ॥
इत्यादि-प्रमाण-गण-प्रतिपादित-प्रक्रियया
अतिवितत-गहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव्
यतासङ्ग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन
द्वचिदप्यप्रामाण्यं न शङ्कनीयमिति निरणायि । कर्मकाण्डेऽपि
प्रमाणलक्षणे सम्भवेद्वदविरोधानां व्यासाद्यपरिगृहीतानामेव
स्मृतीनामप्रामाण्यमसूत्र्यत् । ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः
समानयोगक्षेमं सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि
आगमप्रामाण्ये निराचक्रिरे । उक्तं च-
तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रे समानं
साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशब्दितम् ॥
वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः ।
भक्तानुकम्पया विद्वान् सञ्चिक्षेप यथासुखम् ॥
इत्यादिप्रमाणगणप्रतिपातिदप्रक्रियया
अतिविततगहनगम्भीरनिगमशतशिखरगतपरमपुरुषार्थतदुपायतदितिकर्तव्
यतासङ्ग्रहरूपस्य भगवन्मुखोद्गतस्य शास्त्रस्य कारणदोषाद्यभावेन
द्वचिदप्यप्रामाण्यं न शङ्कनीयमिति निरणायि । करमकाण्डेऽपि
प्रमाणलक्षणे सम्भद्वेदविरोधानां व्यासाद्यपरिगृहीतानामेव
स्मृतीनामप्रामाण्यमसूत्र्यत् । ये पुनश्चरमयुगमीमांसकास्तन्त्रान्तरैः
समानयोगक्।एस्मं सात्त्वतं शास्त्रमभिमन्यन्ते तेषां विकत्थनानि
आगमप्रामाण्ये निराचक्रिरे । उक्तं च-
तच्चेदेतच्छुतिपथपरिभ्रष्टतन्त्रैः समानं
पातृत्वेन प्रसजति तदा सोमपास्ते सुरापाः ॥
इति । शूद्रार्चनादिप्रसङ्गे त्वेवं प्रतिबन्दी श्रीकृष्णमुनिभिरुक्ता-
हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः ।
निर्वाहः क्रियते तद्वच्छास्त्रस्यास्यापि नान्यथ ॥
इति । अयमर्थः [ङ्: अस्यार्थः]- यथा हविष्कृदाधावेति शूद्रस्य
बहुयाजिनोऽगाराच्छूद्रवर्जम् इत्यादिवाक्येषु
कर्मविशेषाधिकारमुपचारविशेषं वा समालम्ब्य निर्वाहः तद्वदिहापीति ।
भट्टारकैश्च तन्त्रान्तरेभ्य इदं सार्वत्रिकेण प्रामाण्येन व्यभज्यत्-
तस्मात् साङ्ख्यं सयोगं सपशुपतिमतं कुत्रचित् पञ्चरात्रं
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥
चत्वार्ः सिद्धन्ताः
इति । तदेतत् महतो वेदवृक्षस्य मूलभूतो महानयम्
इत्यद्युक्तानन्तशाखाश्रयऋगादिस्कन्धभिदुरनिगमतरुमूलभागोपबृं
हणरूपं स्वमूलनिगमभागभेदात् [घ्: भागभेदवदृगादि]
ऋगादिदेव चर्धावतिष्ठते- आगमसिद्धन्तः मन्त्रसिद्धन्तः
तन्त्रसिद्धन्तः तन्त्रान्तरसिद्धन्त इति ।
सिद्धन्तानाम् असाङ्कर्यस्थापनम्
चत्वारश्चैते सिद्धन्ता ऋगादिवदेव शाखाभेदैरवान्तरतन्त्रैर्भिद्यन्ते ।
तत्र यथा ऋगादयो वेदभेदाः तत्तच्छाखाभेदाश्च
पूर्वपूर्वपरिग्रहानुसारेण व्यवतिष्ठन्ते पुत्रादिभिश्च परिगृह्यन्ते तथा
[घ्: तथात्र] सिद्धन्तभेदास्तदवान्तरभेदाश्च
प्रथमपरिग्रहान्सारेण व्यवतिष्ठन्ते । यथा च [ख्: चकारः पुस्तके
नास्ति] वाचनिकातिरिक्ते वेदान्तरशाखान्तरसूत्रान्तरसङ्करे दोषः तथेह
सिद्धन्तसङ्करे तन्त्रसङ्करे प्रत्येकतन्त्रान्तः [ख्: प्रतिनियत]
पातिनियतवैकलिप्कधर्मादिसङ्करे च । असङ्कीर्णा चेयं व्यवस्था
[प्रमाणान्तरसहकृत क ख ग च झ]
प्रमाणसहकृतपारम्पर्यपर्यालोचनया व्यवस्थाप्या । इदं च
गर्भाधानादिदाहान्तसंस्कारान्तरसेवनात् [संस्कारासेवनात् छ ज]
भागवतानामब्राह्मण्यं पूर्वपक्षिणा प्रसञ्जितं
परिहरद्भिरभगवद्यामुनमुनिभिरर्थतः समर्थितम्- यदेते [य एते
क ख ग च छ ज झ्] व।शपरम्परया वाजसनेयशाखामधीयानाः
कात्यायनादिगृह्योक्तमार्गेण गर्भाधानादिसंस्कारान् कुर्वते । ये पुनः
सावित्र्यनुवचनप्रभृतित्रयीधर्मत्यागेन [धर्मात्यगेन
न्यायपरिशुद्धौ पाठः] एकायनश्रुतिविहितानेव चत्वारिंशत्संस्कारान्
कुर्वते [अनुतिष्ठन्ति क ख ग च] तेऽपि स्वशाखागृह्योक्तमर्थं
यथावदनुतिष्ठमाना न शाखान्तरीयकर्माननुष्ठानात् ब्राह्मण्यात्
प्रच्यवन्ते अन्येषामपि
परशाखाविहितकर्माननुष्ठाननिमित्ताब्राह्मण्यप्रसङ्गात् । सर्वत्र
[सर्वे हि ज] हि जातिचरणगोत्राधिकारादिव्यवस्थिता एव समाचारा
उपलभ्यन्ते । यद्यपि सर्वशाखाप्रत्ययमेकं कर्म, तथापि
परस्परविलकषणाधिकारिसम्बद्ध धर्मा न द्वचित् समुच्चीयन्ते ।
विलक्षणाश्च
त्रयीविहितस्वर्गपुत्रादिविषयोपभोगसाधनैन्द्राग्नेयादिकर्माधिकारिभ्यो
द्विजेभ्यः
त्रय्यन्तैकायनश्रुतिविहितविज्ञानाभिगमनोपादानेज्याप्रभृतिभगवत्प्राप्त्य्
एकोपायकर्माधिकारिणो मुमुक्षवो ब्राह्म्णा इति
नोभयेषामप्यन्योन्यशाखाविहितकर्माननु।ठानमब्राह्मण्यमापादयति ।
यथा चैकायनशाखाया अपौरुषेयत्वं तथा काश्मीरागमप्रामाण्य एव
प्रपञ्चितमिति नेह प्रस्तूयते । प्रकृतानां तु भागवतानां
सावित्र्यनुवचनादित्रयीधर्मसम्बन्धस्य स्फुटतरमुपलब्धिः न
तत्त्यगनिमित्तव्रात्यत्वादिसन्देहं सहते इति ।
अत्र विज्ञानशब्देन संवित्सिद्ध्यादिषु स्वयमेव स्थापितं विशिष्टं ज्ञानं
विविक्षितम् । आह हि-
यथा चोलनृपः सम्राडद्वितीयोऽस्ति भूतले ।
इति तत्तुल्यनृपतिनिवारणपरं वचः ॥
न तु तत्पुत्रभृत्यकलत्रादिनिवारणम् ।
तथा सुरासुरनरब्रह्माण्डशतकोटयः ॥
क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः ।
ज्ञानादिषाड्गुण्यनिधेरचिन्त्यविभवस्य ताः ॥
विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषुः [ग्: लवविप्रुषः; क च झ :
जलविप्रुषः]
इति ।
इमं च वेदभेदं भोजराजबलदेवाचार्यादयश्च विविञ्चते -
यो वेदवृक्षं बहुमूलशाखं नानाफलार्थिद्विजसङ्घसेव्यम् ।
पूर्श्रवानुश्रवभेदभिन्नमारोपयत्तं[आरोपयन्तं क ख च झ]
पुरुषं रपद्ये ॥
इत्यादिभिः । एवं च सर्वत्रासङ्करः सङ्ग्रहेण प्रदर्शितः श्रीसात्त्वते -
न शास्त्रार्थस्य शास्त्राणां बुद्धिपुर्व उपप्लवः ।
आचर्तव्य इहाज्ञानात् [इहाज्ञात्वा घ छ] पारम्पर्यक्रमं विना ॥
इति । अस्खलितपारम्पर्यप्रत्यभिज्ञानेषु [स्थानेषु अद्देद् घ ङ्]
परिदृश्यमानप्रमाणमूलानि आचारपरम्परापरिगृहीतानि च कर्माणि न
मात्रयापि परित्याज्यानि [परिहाप्यानि क ग घ ङ् च छ ज] न च
तद्विरुद्धन्युपादेयानीत्युक्तं भवति ।
श्रीपौष्करे च अधिकारिनिरूपणाध्याये प्रतिनियताधिकारिविषयसिद्धान्तानाम्
त्वाभिप्रायेणैव सिद्धन्तभेदस्तदवान्तरभेदश्च दर्शितः । असाङ्कर्ये
पौष्करवचनानि यथा-
कर्तव्यत्वेन वै यत्र चातुरात्म्यमुपास्यते ।
क्रमागतैः स्वसञ्ज्ञाभिर्ब्राह्मणैरागमं तु तत् ॥
विद्धि सिद्धन्तसञ्ज्ञं च तत् पूर्वमथ पौष्कर ।
नानाव्यूहसमेतं च मूर्तिद्वादशकं हि तत् ॥
तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं हि यत् ।
प्रादुर्भावान्तरयुतं धृतं हृतप्द्मपूर्वके [तत् पत्मपूर्वके
ज] ॥
लक्ष्म्यादिशङ्खचक्रा[चक्राख्या घ]ख्यगारुत्म्यसदिगीश्वरैः ।
सगणैरस्त्रनिष्ठैश्च तद्विद्धि कमलोद्भव ॥
मन्त्रसिद्धान्तसञ्ज्ञं च शास्त्रं सर्वफलप्रदम् ।
विना मूर्तिचतुष्केण यत्रान्यदुपचर्यते ॥
मन्त्रेण भगवद्रूपं केवलं वाङ्गसंवृतम् ।
युक्तं श्रियादिकेनैव कान्ताव्यूहेन पौष्कर ॥
भिन्नैराभरणैरस्त्रैरावृतं च सविग्रहैः ।
तन्त्रसञ्ज्ञं हि तच्छास्त्रं परिज्ञेयं हि चाब्जज ॥
[मूल्यानवृत्ति घ] मुख्यानुवृत्तिभेदेन यत्र सिंहादयस्तु वै ।
चतुस्त्रिद्व्यादिकेनैव योगेनाभ्यर्थितेन तु ॥
संवृताः परिवारेण स्वेन स्वेनोज्झितास्तु वा ।
यच्छवत्याराधिताः [आराधितं क ख ग झ] सर्वं विद्धि
तन्त्रान्तरं तु तत् ॥
एवं नानागमानां च सामान्यं विद्धि सर्वदा ।
नामद्वयं वा [द्वयं च घ ङ् च छ ज] सिद्धन्तं पञ्चरात्रेति
पौष्करे ॥
एकैकं बहुभिर्भेदैरामूलादेव संस्थितम् ।
नानाशयवशेनैव सिद्धद्यैः प्रकटिकृतम् ॥
सङ्क्षिप्तं सप्रप्रञ्चं च तृतीयमुभयात्मकम् ।
सेतिहासपुराणैस्तु वेदैर्वेदान्तसंयुतैः ॥
ये जन्मकोटिभिः सिद्धस्तेषामन्तेऽत्र संस्थितिः ।
इति । अत्र एकैकस्य सिद्धन्तस्यामुलादेव बहुभिर्भेदैः संस्थितत्ववचनात्
चतुर्णां सिद्धान्तानां तदवान्तरतन्त्रभेदानां च
सिद्धान्तरतन्त्रान्तरसङ्करपरिहारेणैव सर्वदावस्थानं सूचितम् ।
चतुर्णामपि सिद्धन्तानां मोक्षप्रदत्वम्
अत्र च [चकारः पुस्तकेषु नास्ति ख ग ज झ]
सिद्धन्तसञ्ज्ञितानामेषां चतुर्णामै मोक्षप्रदत्वमनन्तरमेवोक्तम् -
तस्मात् [यस्मात् ङ् च] सम्यक् परं ब्रह्म वासुदेवाख्यमव्ययम् ।
एतस्मात् प्राप्यते शास्त्रात् ज्ञानपूर्वेण कर्मणा ॥
सिद्धान्तसञ्ज्ञा विप्रास्य सार्धका अत एव हि ।
इति । अत्र सार्थका इति बहुवचनान्तसामानाधिकरण्यात् सिद्धन्तसञ्ज्ञाशब्दोऽपि
बहुवचनान्तः सन् आगमादिविशेषणयोगेन चतुर्धा
सञ्ज्ञावस्थानमभिप्रैति । पञ्चरात्रशब्दवत् सिद्धन्तशब्दोऽपि चतुर्णां
साधारण इति चात्रैव पूर्वमुक्तम् । पाद्म्ने च सदागमादिसिद्धन्तचतुष्के
सत्पदप्रदे इति चतुर्णां सत्पदशब्दवाच्यभगवत्पद[भगवत्प्राप्ति-
ख] प्राप्तिसाधनत्वमुक्तम् । हयग्रीवसंहितायामपि
कस्यचिन्मोक्षैकान्त्यम् अन्येषामपि फलान्तरेण सह मोक्षप्रदत्वमुक्तम्-
आगमाखं हि सिद्धन्तं सन्मोक्षैकफलप्रदम् ।
मन्त्रसञ्ज्ञं हि सिद्धन्तं सिद्धिमोक्षप्रदं नृणाम् ॥
तन्त्रसञ्ज्ञं तु [सञ्ज्ञं हि क ख ग ङ् च छ झ] सिद्धन्तं
चतुर्वर्गफलप्रदम् ।
तन्त्रान्तरं हि सिद्धन्तं वाञ्छितार्थफलप्रदम् ॥
इति । अत्र वाञ्छितार्थशब्देनाविशेषात् त्रिवर्गवदपवर्गोऽपि सङ्गृह्यते । अत
एषां चतुर्णामपि परब्रह्मभूतवासुदेवप्रापकत्वात्
अपवर्गार्थिभिर्मोक्षोपायोपदेशप्रदेशेषु [उपदेश क ख ग झ कोशेषु
नास्ति] विकल्पोऽविशिष्टफलत्वात् इति न्यायेन
सदक्षरदहरमधुभूमवैश्वानरशाण्डिल्यनाचिकेतोपकोसलप्रतर्दनसंव्
अर्गान्तरादित्यानन्दमयविद्यादिष्विव वैकल्पिकः परिग्रह्ः ।
ब्रह्मस्वरूपनिरूपकधर्मव्यतिरिक्तानां तत्तद्विद्याप्रतिनियतगुणानां यथा
विधासु परसरमनुपसःआरः तथात्रापीति प्रत्येकं पर्तिनियतानां
प्रक्रियाणां परस्परासङ्करेण प्रयोगः सिद्धः । यत्र तु मधुविद्यादौ
वमुपदप्राप्त्यादिपूर्वकब्रह्मप्राप्तिवत् परम्परया
वासुदेवप्राप्तिरभिधीयते तत्रापि
तत्तदर्वाचीनपर्वव्यहितपरप्राप्तिकामानामधिकार
[कामनायामधिकारः घ] इति व्यवस्था । तदभिप्रायेण चोक्तं
भाष्ये तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपुः
सूक्ष्मव्यूहबिभवभेदभिन्नं यथाधिकारं भक्तैर्ज्ञानपूर्वेण
कर्मणाभ्यर्चितं सम्यक् प्राप्यते । विभवार्चनात् व्यूहं प्राप्य व्यूहार्चनात्
परं ब्रह्म वासुदेवाख्यं सूक्ष्मं प्राप्यत् इति वदन्ति इति ।
अतश्चतुर्णामप्यपवर्गे तात्पर्यम् । फलान्तरसाधनवचनस्यान्यार्थत्वं
स्वयमेवोक्तम् [उक्तं पौष्करे घ] प्रत्ययार्थं च मोक्षस्य
सिद्धयः सम्प्रकीर्तिताः इति । एवं चतुर्णामपि मोक्षप्रदत्वे हि [सिद्धे हि
घ] त्रय्यन्तसारोपबृंहणरूपत्वमपि समञ्जसं भवति ।
सिद्धान्तसङ्करे तन्त्रसङ्करे च पाद्मवचन विचारः
पाद्मे चर्यापादे चतुर्णामेतेषां परस्परविभागः सिद्धान्तसङ्करे
तन्त्रसङ्करे च दोषः प्रपञ्चितः ।
तच्चतुर्धा स्थितं शास्त्रमृगादिवदनेकधा ।
एकैकं भित्यते तन्त्रं शाखाभेदेन भूयसा ॥
प्रथमं मन्त्रसिद्धन्तं द्वितीयं चाममाह्वयम् ।
तृतीयं तन्त्रसिद्धन्तं तुर्यं तन्त्रान्तरं भवेत् ॥
इति । अत्र आगममन्त्रसिद्धान्तयोः पौष्करोक्तक्रमात् व्युत्क्रमेणोपादानं
सिद्धिमोक्षप्रदमन्त्रसिद्धन्तप्राशस्त्ये तात्पर्यात् । अत्रापि हि आगमसिद्धन्तस्य
केवलमोक्षप्रदत्वलक्षणोऽतिशयः [अतिशयः क ख ग झ कोशेषु
नास्ति] कर्मणामपि सन्न्यासः कथ्यते यत्र चागमे इति पर्दर्शित एव । अत्र
काम्यकर्मणा स्वरूपतः सन्न्यासः स्ववर्णाश्रमादिनियतानां
[स्ववर्णाश्रनियतानां क ख ग च झ] तु
भगद्गीताष्टादशाध्यायनिर्णीतप्रकारेण सात्त्विकत्यागः
स्वशाखागृह्योक्तमर्यादया च सर्वत्र नित्यनैमित्तिकादिपरिग्रहः । अत
आगमसिद्धान्ते सर्वकर्मस्वरूपत्याग् इति न भर्मितव्यम्
कर्मविशेषभूयस्त्वात् । अत एव हि तन्निष्ठनधिकृत्योक्तम् -
त्रयोदशविधं कर्म कामादिपरिवर्जितम् ।
गुणैः सांयमिकैर्युक्तमनुतिष्ठन्ति साधवः ॥
इति । अत्रैवोद्दिष्टक्रमेण चत्वारः सिद्धन्ता यक्ष्यन्ते-
सिद्धन्तानां पाद्मोक्तं लक्षणम्
एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः ।
देव्यः श्रियादयश्चापि सम्पूज्याः परिवारवत् ॥
आयुधैः शङ्कचक्राद्यैः श्रीवस्ताद्यैश्च भूषणैः ।
मूर्तिमद्भिः परिवृता केवला वाम्बुजासन ॥
कथ्यते यत्र तत् प्रोक्त मन्त्रसिद्धन्तमग्रिमम् ।
वासुदेवादयो व्यूहाश्चत्वारः साधकैरपि ॥
[क्रमागताः घ] क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तु
[कक्ष्यापूज्यास्तु क ग ङ् झ] प्रभवाप्ये ।
कर्मणापि सन्न्यासः कथ्यते यत्र चागमे ॥
तन्त्रमागमसिद्धन्तं तदुक्तं कमलासन ।
नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते ॥
मूर्तियो द्वादशाङ्गानि तेषामेव तथापरे ।
प्रादुर्भावगणाश्चापि मूर्त्यन्तरगणा अपि ॥
प्रादुर्भावान्तरयुताः सदिग्देवैः [सह देवैः ज] सयायुधैः ।
मूर्तिमद्भिश्च देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ॥
तत् तन्त्रसिद्धन्ताह्वानं चतुर्थं परमं पुनः ।
सौम्यसिंहादिभूयिष्ठवक्त्रभेदैश्चतुर्मुख ॥
द्वित्र्यादिमुखभेदा वा मूर्तिरेकैव पूज्यते ।
संवृता परिवारैः स्वर्विना वा सर्वकामदा ॥
यत्र तन्त्रान्तरं तत् स्याच्चतुर्थं चतुरानन ।
येन सिद्धन्तमार्गेण कर्षणादिक्रिया कृता ॥
आदौ तेनैव सकला नान्यसिद्धन्तवर्त्मना ।
तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ॥
सिद्धन्तसङ्करस्तस्मात् तन्त्रसङ्कर एव च ।
दोषाय कल्पते राजराष्ट्रधामक्षयात्मने ॥
सीद्धान्तसङ्करे जाते प्रमादात् तस्य शान्तये ।
कृत्वा सम्प्रोक्षणं पूर्वं सहस्रकलशाप्लवः ॥
कर्तव्यः स्नपनं कुर्यात् तन्त्रसङ्करसम्भवे ।
अन्ते महोत्सवं कुर्याद् ध्वजारोहणपूर्वकम् ॥
इति । अत्र पाद्मोक्ततन्त्र[तन्त्र घ कोशे नास्ति]तन्त्रान्तरलक्षणं
पौष्करोक्ताविरोधेन नेतव्यम् । यदि द्वयोर्ग्रन्थयोरैकार्थ्यं सम्भवति तदा
न विरोधः । इतरथा तन्त्रतन्त्रान्तरलक्षणं [इतरतन्त्रेषु
अभ्युपगमसिद्धन्ततन्त्रतन्त्रान्तरलक्षणं क ख ग]
द्विप्रकारमनुसङ्घेयम् । यथा न्यायविस्तरे
सर्वतन्त्रप्रतितन्त्राभ्युपगमाधारसिद्धन्तेषु अभ्युपगमसिद्धन्तस्य द्वेधा
लक्षणमक्षपादाभिप्रेतं वर्णयन्ति-
साधितः परतन्त्रे यः स्वतन्त्रे च समाश्रितः [समाहितः ज] ।
स ह्यभुपगमो न्याये [नायो क झ] मनसोऽनमतिर्यथा ॥
दद्विशेषपरीक्षा वा सद्भावेऽन्यत्र साधिते ।
यथान्यत्र मनःसित्थौ [सिद्धं क झ] तस्याक्षत्वपरीक्षणम् ॥
इति । पारमेश्वरोक्तं तन्त्रतन्त्रान्तरलक्षणं तु पौष्करोक्तेन समानमेव
[पौष्करोक्तसमानमेव घ ज] । तथाहि प्रायश्चित्ताध्याये
सङ्करादिदोषपरिहारार्थं विभज्यमानेषु सिद्धन्तेषु
आगममन्त्रसिद्धन्तप्रपञ्चनान्तरमुच्यते -
परव्यूहादिभेदेन विनैकैकेन मूर्तिना ।
साङ्गेन केवलेनाथ कान्ताव्यूहेन भूषणैः ॥
तथास्त्रैर्विग्रहोपेतैरावर्तं तन्त्रसञ्ज्ञितम् ।
नृसिंहकपिलक्रोडहंसवातीश्वरादयः ॥
मुख्यादिवृत्तिभेदेन देवला वाङ्गसंयुताः ।
चक्राद्यस्त्रवरैश्चाथ भूषणैर्मकुटादिभिः ॥
कान्तागणैश्च यक्ष्म्याद्यैः परिवारैः खगादिभिः ।
पूजिता विधिना यत्र तत् तन्त्रान्तरमीरितम् ॥
इति । तदेव व्यवस्थितेषु सिद्धन्तेषु सङ्करपरिहारः पाद्मे सप्षटः । तस्मिन्नेव
चाध्याये क्वचित् सिद्धन्ते तदवान्तरतन्त्रभेदे वा दीक्षितस्य सिद्धन्तरोक्तासु
तन्त्रन्तरोक्तासु च क्रियासु अनधिकार उक्तः -
एकत्र सिद्धन्ते दीक्षितस्य अन्यत्र नाधिकारः
एकत्र दीक्षितस्तन्त्रे सिद्धन्ते वा द्विजोत्तमः ।
क्रियां न कुर्यादन्यत्र कर्षणादि [कर्पणादींश्चतुर्मुख क ख ग
च] चतुर्मुख ॥
आचार्यकमथार्त्विज्यं पूजाद्यं मधुविद्विषः ।
तन्त्रभेदे च सिद्धन्तभेदेऽपि च [हि ग] न युज्यते ॥
इत्युक्त्वा पुनरप्युपर्युपरितन्त्रस्थितानाम् [तन्त्राधिकाराणां क ख ग च
झ] अधोऽधस्तन्त्राधिकारित्वमुक्तम् [अधिकारित्वं प्रदर्शितम् क ख ग
ङ् च ज झ]-
उपरितनतन्त्राधिकारिणाम् अधस्तनतन्त्रेषु तत्तन्मार्गेण करणेऽधिकारः
तन्त्रान्तरे तथा तन्त्र-मन्त्र[मन्त्रे ज झ; मन्त्रसिद्धन्त
ख]सिद्धन्तवर्त्मनि [वर्त्मना क झ] ।
दीक्षितानां क्रमेणैव ह्युपर्युपरि योगदः ।
अन्येषामधिकारः स्यात् तत्तत्संस्कारपूर्वकम् ॥
करणागमसिद्धन्तनिष्ठेनान्यैस्त्रिभिः सदा ।
अर्चनीयमथान्याभां मन्त्रसिद्धन्तिना तथा ॥
पूजनीयमथान्येन तन्त्रसिद्धान्तिनानिशम् ।
स्वेन तन्त्रान्तरेणैव पूजनीयं स्वके गृहे ॥
इति । अत्राप्युत्कृष्टसिद्धान्तस्थितेनापि [अपि घ कोशे नास्ति]
अपकृष्टसिद्धन्तस्थानेषु तत्तत्सिद्धन्तप्रकारेणैव पूजनीयत्वमुक्तम्
उत्कृष्टसिद्धन्तस्थितस्य स्वस्थानेऽपकृष्टसिद्धन्तप्रसङ्गाभावत् । अत एव
ह्यन्तरमेवमुच्यते [अनन्तरमेवोच्यते क ख ग झ]-
मुख्याधिकारिणः सन्ति यदि गौणाधिकारिणः ।
स्वतन्त्रेण प्रवेष्टव्याः प्रासादे च स्वतन्त्रके ॥
इति । स्वतन्त्रेण स्वकीयेन प्राक् प्रवृत्तशास्त्रेणेत्यर्थः । विशेषतश्च
एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायातिशयश्च[चकारः घ छ ज
कोशेषु नास्ति] तत्रैवोक्तः-
एकायनविधानस्यान्यत्र प्रवेशे प्रत्यवायः
तत्सिद्धन्तान्यमार्गेण स्थापितं बिम्बमालये ।
अज्ञानादथवा मोहादेकायनविधानतः ।
अर्चयनापदं सर्वामाप्नोतीह परत्र च ॥
इति । एवमेकैकसिद्धन्तस्थितानां सिद्धान्तान्तरक्रियासु
यथोक्तप्रक्रिययानधिकारे समर्थिते सिद्धन्तान्तरप्रतिष्ठितेषु
भगवदायलेषु तदन्यसिद्धन्तस्थितानां
प्रदक्षिणप्रणाममालाकरणदीपारोपणसंआर्जनसेचनोपलेपनालङ्करणरक्
षणसंवर्धनहविरादिसमर्पणस्तोत्रादीनां साधारणधर्माणामपि
प्रतिषेधप्रसङ्गमाशङ्क्य [प्रतिषेधमाशङ्क्य क ख ग च]
परिजहार-
प्रदक्षिणप्रणामादि राधान्तेऽन्यत्र केवलम् ।
हिवितं नार्चनं कुर्याद्राजराष्टभयावहम् ॥
इति ।
[तत्रिव छ ज] तत्रिकोनविंशेऽध्याये सिद्धन्तसङ्करे प्रत्यवायं
विस्तरेण प्रतिपाद्य
असङ्कीर्णसिद्धन्तधर्माणामेवाधिकारिणामन्होन्यसम्बन्धा[आदि घ
कोशे नास्ति]दियोग्यत्वम् इतरेषां तु बाह्यानमिव वर्जनीयत्वमपि
प्रतिपादितम्-
सिद्धान्तानां चतुर्णां तु साङ्कर्य व्यसनावहम् ।
सिद्धान्तेषु चतुर्ष्वेकं पूर्वैर्नृभिरनुष्ठितम् ॥
त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी ।
तस्माज्जन्मप्र।भृकराधान्तनियतो भवेत् ॥
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् ।
मन्त्रमण्डकुण्डादिक्रियामुद्रोपचारकैः ॥
योगं नयति यो मोहात् स्वसिद्धन्तोक्तवर्त्मनि [वर्त्मना घ] ।
सोऽपि स्वकुलजान् सर्वान्[धर्मान् क ख झ] परमात्मानमब्जज
[परम् आत्मानमिति पदछेदः (टिप्पणी) ॥
नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः ।
निष्फला च क्रिया तस्य प्रत्युतानर्थकारिणी [कारणम् घ ज] ॥
अकर्मणोऽस्य तत्कोपो [कुप्येच्च देवस्तत्कोपो घ] राजराष्ट्रभयावहः ।
कर्ता कारयिता चोभौ [चैव क ख ग झ] सान्वयं विनशिष्यतः ॥
न सन्निधानं च हरेर्धाम्नि हानिश्च सम्पदाम् ।
राधान्तसङ्करः कार्यो नान्यसिद्धन्तकर्मणा ॥
मन्त्रसिद्धन्तमुख्येषु चतुर्ष्वपि यथापुरम् ।
अनुतिष्ठन्ति ये कर्म समाराधनमच्युते ।
असङ्करेण तेऽन्योन्यं [सम्बद्ध हि क ख च ज झ] सम्बन्धार्हा
नरोत्तमाः ॥
इति । असङ्करेणानुतिष्ठन्तीत्यन्वः ।
सिद्धन्तसङ्करे दोषप्रपञ्चनम्
तत्रैव जीर्णोधाराध्यते-
या मूर्तियेन तन्त्रेण यादृशेनाधिकारिणा ।
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ॥
मूर्तिस्तदेव तन्त्रं च स एव स्थापकः पुनः ।
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पिते सति ।
नृणां नरपतेश्चापि रष्ट्रस्य च भवेत् क्षयह् ॥
इति । तस्मिन्नेवोत्तरत्र प्रायश्चित्ताद्याये -
जनने मरणे चैव श्वसृगालखरादिभिः ।
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु सम्प्रोक्षणविधिर्भवेत् ॥
इति । नरादीयेऽपि -
व्यत्यये परिवाराणां भोगादीनां च गौतम् ।
पूर्ववत् स्नपनं कृत्वा शान्तिहोमं स्माचरेत् ॥
इति । अत्रादिशब्देन सिद्धन्तव्यत्ययतन्त्रव्यत्ययादिसङ्ग्रः
अपेक्षितत्वादविशेषाच्च । अत एव ह्यत्रैवोक्तम् -
तन्त्रेणैकेन कर्तव्यं कर्षणादिषु नारद ।
य्स्तन्त्रेण समारब्धं तत्तन्त्रणैव कारयेत् ॥
[अनुक्ताश्च क ख ग] अनुक्तांश्चान्यतन्तेषु निरीक्ष्यात्र नियोजयेत्
[निरीक्ष्यान्यत्र योजयेत् क ख च झ] ।
विशेषांश्च [विशेषाच्च क ख ङ्] मुनिश्रेष्ठ त्वन्यथा
राष्ट्रनाशकृत् ॥
इति । पारमेश्वरे च प्रतिष्ठाध्याये -
विशेषेण स्वयंव्यक्ते दिव्ये सैद्धेऽपि वार्षके [सिद्धेऽपि चार्षके क ख ग च
छ ज झ] ।
स्थाने तु कर्मबिम्बानां व्यत्ययं न समाचरेत् ।
द्वाराङ्गावृतिदेवानां पूजाया भवनस्य [हवनस्य घ ङ्] च ॥
इत्यारभ्य
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा ।
न तु द्रव्यान्तरं चैव न च कुर्यात् क्रियान्तरम् ॥
मन्त्रान्तरं [तन्त्रान्तरं क ख ग ङ्] न कुर्वीत सर्वं
कुर्याद्यथापुरम् ।
पुर्याच्चेदेवमादीनां विपर्यासं महामते ।
राज्ञो राष्ट्रस्य नाशः स्यात् स्र्वस्यापि स्वसन्ततेः ॥
इति । तत्रैव-
भोगानां च विपर्यासं मन्त्राणां च विपर्यायम् [महामते घ छ
ज] ।
द्यानानां चैव मुद्राणां देवतानां तथैव च ।
अन्येषामेवमादीनां [चैवमादीनां क ख ग च झ] व्यत्यासं न
समाचरेत् ॥
इति । तथोत्तरत्र प्रायश्चित्तद्याये -
प्रासादश्च तथा बिम्बो येन शास्त्रेण निर्मितौ ।
प्रतिष्ठाप्य च तेनैव नित्यादौ पूजयेद्धरिम् ॥
योऽर्चयेदन्यमार्गेण तथा चार्चापकस्तु यः ।
तावुभौ कलुषात्मानौ राज्ञओ राष्ट्रष्य वै गुरोः ॥
कुलं च व्याधितं चैव विप्लवं दुःखमञ्जसा ।
वित्तहानिं विशेषेण कुर्यातामालयस्य च ॥
[न कार्यं घ छ] न कुर्यात् तन्त्रसाङ्कर्यं पञ्चरात्रपरायणः
[परायणैः घ छ] ।
पुनः प्रतिष्ठा कर्तव्या कृतश्चेत् तन्त्रसङ्करः ॥
इति । तत्रैव सिद्धन्तभेदं [तत्रिव च सिद्धन्तभेदान् छ ज] विस्तरेण
प्रतिपाद्यानन्तरमुच्यते-
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च ।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः ॥
तथैव यावत्कालं तु नाचर्तव्यं तदन्यथा ।
विपरीते ते कृते चात्र राजराष्ट्राद्यनर्थकृत् ॥
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक्प्रकारतः ।
ततः सिद्धन्तसाङ्कर्यं नाचर्तव्यं कृतात्मभिः ॥
यद्यदिष्टतमं लोके पूर्वसिद्धविरोधि तत् ।
प्रतिग्राह्यमथान्योन्यं विरुद्धं सन्त्यजेद्बुधः ॥
इति । एवं कालोत्तरे चतुर्विधपूजानिर्णयाध्याये-
वैदिकैस्तान्त्रिकैर्वापि श्रोतैर्वापि द्विजोत्तम [श्रौतैर्वा द्विजसत्तमः
ज] ।
स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् ॥
ऋष्यादिपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किञ्चिद्राजराष्ट्रसमृद्धये ॥
इति । अस्मिन्नेवोत्तरत्र प्रायश्चित्तध्यायेऽप्येतावेव “लोकौ पठितौ । तत्रैव-
यद्विम्बं येन शास्त्रेण समारब्धं पुरा द्विज ।
प्रासदो[प्रासादं च छ ज] वा ततस्तेन शास्त्रेणैव समर्चयेत्
[तदर्चयेत् घ छ ज] ॥
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्त्रस्य कर्तुश्च [विनाशम्] स नाशं कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद्धुवम् ॥
इति । यद्यपि वैखानसपञ्चरात्रसङ्करपरिहारस्यप्यत्रैव शास्त्रे प्रतिपादनात्
तत्परिहारार्थमिदं वचनमिति वक्तुं शक्यम् तथापि येन शास्त्रेण इति
सामान्य वचनात् सर्वविषयमेव । यत् तत्रोक्तम् -
महोत्सवेषु सर्वेषु देशकालानुसारतह् [देशिकेन्द्रानुसारतः क ख ग च
छ ज झ] ।
विशेषं नाचरेत् किञ्चिद्राजराष्ट्रसमृद्धये ॥
इति निगम्यते [चोच्यते क ख ग ङ् झ] ।
एवं पञ्चरात्राखैकशास्त्रावान्तरसङ्करस्यात्यन्तगर्हितत्वे
वैखानसपञ्चरात्रसङ्करः कैमुत्यनिषिद्धः [कैमुतिकन्ययसिद्धः क
ख ग “अ झ] । परस्परं च द्वयोरपि स्पष्टं प्रतिषिध्यते । पञ्चरात्रस्य
तु वैखानसैरपि द्वचित् द्वचिदुपजीव्यत्वमस्ति । तथाहि -
वैखानसेन पाञ्चरात्रस्य सङ्करे दोषः । पाञ्चरात्रं तु सर्वोपजीव्यम्
ब्राह्मणे क्षत्रियैर्वैश्यैः शूद्रैश्च कृतलक्षणैः ।
अर्चनीयश्च सेव्यश्च नित्ययुक्तैः स्वर्कर्मसु ।
सात्वातं विधिमास्थाय गीतः सङ्कर्षणेन यः ॥
इत्यादिभिरविशेषेण ब्राह्माणादीनां [श्रीमत्पञ्चरात्र घ छ ज]
श्रीपाञ्चरात्रोक्तमार्गेण भगवदर्चनादिकं कर्तव्यमिति
महाभारतादिष्वभिधीयते । न हि द्वचिदपि सूत्रविशेषादिनियमः कृतः ।
प्रत्युत [सर्व क ख ग कोशेषु नास्ति] सर्वसूत्रनिष्ठानां
तदन्वयस्तस्मिन्नेव शास्त्रे प्रतिपाद्यते -
निषेकादींश्च संस्कारान् स्वसूत्रोक्तान समाचरेत् ।
पञ्चरात्रोदितान् वापि ये स्वयंश्यैरनुष्ठिताः ॥
इति । न च बोधायनविखनःशौनकाद्युक्तेषु भगवत्प्रतिष्ठार्चनादिषु सत्सु
किमन्येनेति वाच्यम् तदुक्तिरहितसूत्रनिष्ठानामन्यापेक्षयां
साधारणशास्त्रपरिग्रहोपपत्तेः । [न क्वचित् पूर्णोपदेशः सम्भवतीति
तच्छक्तस्य पूर्णोपादानं क ख ग ङ् च झ] न च द्वचित् पूर्णोपदेशे
सम्भवति तच्छक्तस्यापूर्णमुपादातुं युक्तम् । अत एव हौत्रं
होतृशाखोक्तमध्वर्यवोऽपि परिगृह्णन्ति । अतो येषु सूत्रेषु
भगवदर्चनादिकं प्रत्यपादि तन्निष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया
समाराधनादिकं प्रशस्ततमम् । तथा च शिष्टैरनुष्ठीयते ।
ननु च वैखानससूत्रानुसारिषु [काश्यपीय घ ज]
काश्यपमरीचिभार्वगात्रेयेषु शास्त्रेषु तदनुबन्धिषु चाधिकारग्रन्थेषु
सङ्ग्रहविस्तरूपेषु भगवत्प्रतिष्ठार्चनादिकं पूर्णमुपदिशत्सु किं
पञ्चरात्रेण? मैवम् तत्सूत्रनिष्ठान् प्रत्येव तत्प्रक्रियोपदेशात् । तर्हि
तन्निष्ठानां पञ्चरात्रप्रक्रियाया अनुपादेयत्वे तस्याः
सर्वसूत्रनिष्ठसाधारण्यं भज्येतेति चेत् तन्न उक्तोत्तरत्वात् [दत्तोत्तरत्वात्
क “अ च ज झ] । काश्यपीयादीन्यपि हि [हि क ख घ च झ कोशेषु
नास्ति] शास्त्राणि काञ्चित् प्रक्रियामुपदिशन्ति तेषु तेष्वर्थेषु
शास्त्रान्तरोपजीवीन्येव एवं पञ्चरात्रोक्तमपि क्वचित् द्वचिदुपजीवन्ति । यथोक्तं
बृगुप्रोक्तक्रियाधिकारे-
गुरूपदेशसंसिद्द्यैः कल्पमन्त्रैरथापि वा ।
आसनाद्युपचारैष्तु पूजयेदिति केचन ॥
इति । अत्र कल्पमन्त्रशब्देन भगवच्छास्त्रोक्तमन्त्राणामेव ग्रहणम् । अत एव
हि अथीतवेदान् वैखानसान् प्रति गुरूपदेशसंसिद्धैः इति विशेष्यते । न च
तत्तन्मन्त्रकल्पाः पञ्चरात्रतन्त्रेभ्यः पृथग्भूताः । चतुर्धा व्यूधे हि
तस्मिन् शास्त्रे प्रत्येकं च संहिताभेदभेदिनि सर्वेऽपि
भगवन्मन्त्रकल्पास्तदङ्गमन्त्रकल्पाश्च यथायथं समाविशन्ति । अत एव
हि तांस्तान् भगवन्मन्त्रकल्पान् आर्षपञ्चरात्रमित्यभियुक्ता व्यवहरन्ति
[वर्णयन्ति क ख ग अ ज झ] । तन्निष्ठांश्च कल्पभागवतशब्देन
व्यपदिशन्ति । एवं भार्गवादिष्वपि
वैखानसेन सूत्रेण निषेकादिक्रियान्वितान् ।
विप्रान् वेदविदः शुद्धान् मन्त्रकल्पविचक्षणान् ॥
इत्यादिषु मन्त्रकल्पवेदनोक्तिस्तत्र तत्रापेक्षितग्रहणार्था । तथा भार्गवे
क्रियाधिकारे सारस्वतप्रतिष्ठादिकं प्रक्रम्योच्यते- अनेन विधिना स्थाप्य
कल्पमन्त्रेण पूजयेत् इति । न चात्र कल्पमन्त्रस्वरूपतदङ्गादिकमुपदिष्टम् ।
अतः कल्पोक्तप्रक्रियैवात्रानुसरणीया । एवं तत्र सुदर्शनरूपस्य भगवतः
प्रतिष्ठार्चनादौ पर्क्रान्ते फलभेदापेक्षया प्रक्रियान्तरमुपक्षिप्यते -
एतद्वैदिकमुद्दिष्टं भुक्तिमुक्तिफलप्रदम् ।
देवलं भुक्तिकमाश्चेत् स्मरेन्मन्त्रं षडक्षरम् ॥
इति । न चात्र षडक्षरमन्त्रप्रक्रियायाः प्रपञ्चनम् । ततश्च
वासिष्ठगार्ग्यविहगेन्द्राहिर्बुध्न्यादिसंहितोक्तप्रक्रियैव शरणम् । एवं
द्विभुजप्रभृतिषोडशभुजपर्यन्तरूपोपदेशेऽपि अनुक्तमप्य[अपि घ
कोशे नास्ति]पेक्षितमन्यतो ग्राह्यम् । अत एव हि कृष्णरूपाण्यनन्तानि
इत्यादिभिः कृष्णनरसिंहादिरूपाणामसङ्ख्येयत्वेन वक्तुमशक्यतया
विरम्यते । तेषु च [देषुचित् क ख ग] कानिनिच्छास्त्रान्तरोक्तानि
सङ्ग्राह्याण्येव । अत इदं वेदान्तेषु यथासारं सङ्गृह्य भगवान् हरिः
इत्युक्तप्रक्रियया सर्ववेदान्तसारोद्धारेण सर्वजनहितैषिण । भगवता
स्वयमेव प्रणीतं श्रीमत्यञ्चरात्रशास्त्रं सर्वसूत्रनिष्ठानामुपजीव्यमिति
सिद्धम् ।
यत्तु श्रीवैखानसे -
वखानसपाञ्छरात्रयोः परस्परनिन्दावचनानां प्रक्षिप्तत्वपक्षः
आग्नेयं पञ्चरात्रं तु दीक्षायुक्तं च तान्त्रिकम् ।
अवैदिकत्वात् तत्तन्त्रं त्यक्त्वा वैखानसेन तु ।
सौम्येन वैदिकेनैव देवदेवं समर्चयेत् ॥
इत्यादि यच्चोक्तं श्रीपाञ्चरात्रे तन्त्रसारसमुच्चये- अश्रीकरमसौम्यं च
वैखानसमसात्त्विकम् [अतात्त्विकम् क ख ग झ] इत्यारभ्य तद्विधानं
परित्यज्य पञ्चरात्रेण पूजयेत् इत्यादि यानि च
पाद्मपारमेश्वरादि।वतिवादवचनानि तानि नूनम् इक्षुभक्षणचिकीर्षुभिः
[इक्षुभक्षकर्तृचिकीर्षुभिः क ख ग घ] प्रक्षिप्तानि
परस्परस्थानाक्रमणलोलुपैर्वटुभिर्वा [पटुभिर्वा ज]
पूजकाधमैर्निवेशितानि ।
अविरोधोपयोगाभ्यामुभयोरपि शास्त्रयोः ।
मध्यस्थैर्हि कृतं धर्मविद्यास्थाननिवेशनम् [निवेशनम् । इति क ख
ग च] ॥
अन्यथा पर्सिद्धप्रामाण्योः [प्रसिद्धप्रामाण्ययोः ख ग कोशयोः
नास्ति] परिग्रहप्राचुर्यवतोः प्रसिद्धतरेषु
श्रीरङ्गश्रीमद्वेङ्कटाद्रिश्रीहस्तिशैलवृषभगिरिप्रभृतिषु
पारम्पर्येण प्रवृत्तयोः
वासादिनिबद्धश्रीवैष्णवधर्मशास्त्रकाण्डादिषु
[धर्मशास्त्रकर्मकाण्डादिषु ज]
भगवानुवाच-
शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः ।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेनाइपथवा द्वादशाक्षरैः ।
वैदिकैरथवा मन्त्रैर्मम सूक्तेन वा पुनः ॥
स्थापितं मां ततस्तस्मिन्नर्चयित्वा विचक्षणः ।
पुरुषं तु ततः सत्यमच्युतं च युधिष्ठिर ॥
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः ।
अन्ये त्वैवं विजानन्ति मां राजन् पाञ्चरात्रिकाः ॥
वासुदेवं च राजेन्द्र सङ्कर्षणमथापि वा ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥
एता अन्याश्च राजेन्द्र सञ्ज्ञाभेदेन मूर्तयः ।
विद्ध्यनर्थान्तरा एव मामेवं चार्चयेद्बुधः ॥
इत्यादिभिः वैष्णैवशास्त्रभेदत्वेन समप्रिपठितयोर्वेदाविरुद्धयोः
भगवद्यामुनमुनिवासुदेवस्वामिप्रभृतिभिः
स्थापितप्रामाण्ययोरविशेषवैष्णवसमयपरिग्रयोः [श्रीपञ्चरात्र क
च] श्रीमत्पञ्चरात्रवैखानसशास्त्रयोः द्वयोरप्यप्रामाण्यप्रसङ्गात् ।
परस्पर-निन्दा-वचनानि स्व-शास्त्र-प्रशंसा-पराणि
अथैतानि परस्परापकर्षवचनानि
असङ्कीर्णबहुकोशपाठावलोकनादाप्तभाषितानीति मन्येमहि तथापि प्रातः
प्रातरनृतं ते वदन्ति पुरोदयाज्जुह्वति येऽग्निहोत्रं इत्यादिषु
उदितहोमप्र[प्रशंसार्थम् क च]शंसार्थानुदितहोमनिन्दावत्
[निन्दादिवत् क च]
प्रक्रान्तशास्त्रप्राशस्त्यप्रतिपादनपरत्वेन[प्राशस्त्यमात्रपरत्वेन घ
छ ज] नेतव्यानि । न हि निन्दा निन्द्यं निन्दितुं प्रवर्तते अपि तु निन्द्यादितरत्
प्रशंसितुम् इति न्यायविदः ।
एवमेव साङ्गेषु वेदेषु निष्ठामलभमानः शाण्डिल्यः
पञ्चरात्रशास्त्रमधीतवान् इत्यादौ वेदनिन्दाप्रसङ्गेन
वेदविरोधमाशङ्वय स्वशास्त्रप्रशंसादिपरत्वेन पर्यहारि भाष्यकारैः
न्यदर्शि च ऋग्वेदं भगवोऽध्येमि इत्यारम्ह्य सऽह्ॐ भगवो
मन्त्रविदेवास्मि नात्मवित् इति भूमविद्योपक्रमगतस्य
तदितरसमस्तवेदाध्ययनादात्मवेदनालाभवचनस्य
भूमविद्याप्रशंसामात्रे तात्पर्यम् । अपि च-
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥
महत्त्वे च गुरुत्वे च ध्रियामाणे ततोऽधिकम् [यतोऽधिकम् घ ङ् छ ज]
।
महत्त्वाच्च गुरुत्वाच्च महाबारतमीरितम् [उच्यते घ] ॥
इत्यादिवचनानि वेदेभ्योऽपि महाभारतस्याधिकं ब्रुवाणानि
वेधार्थोपबृंहणरूपातिशयशालिमहाभारतप्रशंसार्थानिः न
पुनर्वेदानामपकर्षगन्धमभिदधते । किञ्च बह्वृचाम्नाये ऋग्याथा
कुम्ब्या तन्मितं यजुर्निगदो वृथा वाक्तदमितं सामाधो यः कश्च गेष्णः
इति यजुरादिनिन्दा र्।ग्वेदस्तुत्यर्थैव । एवमिहापि श्रीवैखानसपञ्चरात्रयोः
परस्परापकर्षवचनानामाप्तत्वेऽपि स्वाभिमतस्तुल्यर्थतयैव निर्वोध्व्य्म्
अन्यथा सर्वोपप्लवप्रसङ्गात् अविस्रग्भणीयवचनानां
यथाश्रुतस्वीकारेऽतिप्रसङ्गाच्च ।
एवमेव [एवमिव ङ् छ] हि शैवागमे कारणतन्त्रे जल्प्यते
[कथ्य्ते क ख ग च] -
शैवागम-कारण-तन्त्र-वचनानामपि स्वशास्त्र-प्रशंसा-परत्वम्
शैवः सर्वाधिकारी स्यात् स्वकीये च परत्र च ।
शैवाः सर्वं प्रकुर्वन्ति ये गृहस्था द्विजोत्तमाः ॥
यामले मातृनमन्त्रे च कापाले पञ्चरात्रके ।
बौद्धे वाप्यार्हते चैव लागुडे वैदिकेऽपि च ॥
अन्येष्वपि च मार्गेषु तत्तच्छास्त्रानुसारतः ।
शैवाः सर्वं प्रकुर्वन्ति तल्लिङ्गस्थापनादिकम् ॥
मुख्यत्वादिह शैवस्य मुख्यमाहात्म्यतोऽपि च ।
अधिकारोऽस्ति सर्वत्र नान्येषां शिवदर्शने ॥
इति । ननु पाशुपताधिकरणे पत्युरसामञ्जस्यात् इति पशुपतिपरणीतानां
शैवादीनां सर्वेषां तन्त्राणामप्रामाण्यसमर्थनात् एतस्मिन्नपि वचने
[जैनालयं क ख ग च] जिनालयं प्रविष्टसु सवासा जयमाविशेत्
इत्यादिभिर्दर्शनस्पर्शनाद्ययोग्यविषय[विषयं क ख ग कोशेषु
नास्ति]जैनयामलबौद्धदिबाह्यमततन्त्रैः [बौद्धबाह्यादितन्त्रैः क
ख ग च] सह वैदिकस्य समभिव्याहारात् वैदिकानर्हेषु बाह्येषु च
शैवस्याधिकारोक्तेः
शैवान् पाशुपतान् स्पृट्वा योकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जयमाविशेत् ॥
इति विज्ञानेश्वरसङ्गृहीतधर्मशास्त्रवचनेन स्पर्शादिषु परिहरणीयत्वेन
प्रसिद्धस्य शैवस्य वैदिकदेवताप्रतिष्ठादिषु मुख्याधिकारित्वजल्पनात्
[कल्पनात् क ख ग च] लोके च शैवेः क्वचिदपि [शैवे कदाचिदपि क
ख ग झ] भगवत्प्रतिष्ठाद्यनुमत्यभावात् तत्स्पर्शादि।वपि
स्थापिते पञ्चरात्रेण देवे [देवैः क ख ग च ज झ] षड्भिः
शिवाध्वभिः [शिवादिभिः क च; शिवार्थिभिः ख ग झ] ।
प्रतिष्ठादौ कृते मोहाद् दोषः सर्वक्षयात्मकः ॥
शान्तिश्च तस्य भूयोऽपि पञ्चरात्रोक्तवर्त्मना ।
प्रतिष्ठाप्य सहस्रेण कलशैः स्नापनं हरेः ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकम् ॥
इति पाद्मादिप्रतिपादितप्रायश्चित्तविशेषानुष्ठानदर्शनाच्च
शैवस्तुतिवचनस्यास्य
त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय ।
दर्शयित्वाल्पमायासं फऌअं शीघ्रं प्रदर्शय ॥
इत्यादिप्रकारेणाप्रामाण्यमनीश्वरप्रक्षिप्तत्वमतिवादरूपतया
स्वीयतन्त्राधिकारिशैवस्तुतिमात्ररूपत्वं वा कल्पनीयमिति चेत् हन्त तर्हि
अनयोरपि श्रिवैष्णवमार्गभेदयोरन्यतरस्येतरत्र [इतरतन्त्रप्रविष्टैः क
च झ; इतरतन्त्रविशिष्टैः छ ज] शिष्टैरप्रवेशनात्
परस्परसङ्करप्रसङ्गे च तत्तत्तन्त्रोक्तप्रायश्चित्तनुष्ठानदर्शनाच्च
परस्परापकर्षपरस्परमर्यादाप्रवेशनवचनानि प्रक्षिप्तत्वादप्रमाणानि
अतिवादरूपतया स्वतन्त्रस्तुतिपराणीति वा [वा क ख ग झ कोशेषु नास्ति]
निर्वाह्यत्वात् परम्परागतमर्यादापरित्यागेन
[प्रस्परप्रवेशोऽनर्थमर्थ इति घ] परस्परप्रवेशो न क्षम इति
मध्यस्थदृष्ट्या सम्पश्यध्वम् । तत्र पक्षे पतन्तस्तु पतन्त्येव
परमधर्ममर्यादोपप्लवात् । अतो वैखानसपञ्चरात्रयोः
पञ्चरात्रावान्तरभेदचतुष्कस्य तत्तदवान्तरतन्त्रभेदानां च
परस्परमसङ्करेणैव सर्वदा स्थितिरिति सिद्धम् ।
अपकृष्टसिद्धन्त-त्यागेनापि उत्कृष्ट-सिद्धन्त-प्रवेशक-वचनानां प्रक्षिप्तत्व-पक्षः
तत्रेदं तु किञ्चिद्विमर्शनीयम् । यत् [यत्तत् क ख ग]
पारमेश्वरकलोत्तरयोः प्रमाणभूतानामेव [भगवच्चास्त्र क ख ग
कोशेषु नास्ति] भगवच्चास्त्रसिद्धन्तानामाकारान्तरेणोत्कर्षापकर्षयोगात्
प्राक्प्रवृत्तपकृष्टसिद्धान्तपरित्यागेनापि उत्कृष्टसिद्धान्तप्रवेशनं
न दोषाय प्रत्युत गुणायैव उत्कृष्टतन्त्रपरित्यागेन निकृष्टतन्त्रप्रवेशने
समानतन्त्रसङ्करे च दोष इत्युक्तम्- इदमपि दत्तोत्तरप्रायम् । तथाहि-
श्रीसात्त्वते द्वाविंशे परिच्छेदे [समाधिपुत्रकसाधक घ;
समयपुत्रिवासाधन् ग; समयपुत्रकसाधक क ख च झ]
समयिपत्रकसाधकलक्षणोक्त्यनन्तरम् आचार्यलक्षणे साङ्कर्यमागमानां
च वेत्ति वाक्यवशात्तु यः इत्युक्त्वा
शास्त्रसङ्करशोधनार्थमनन्तरमुच्यते-
तत्र वै त्रिविधं वाक्यं दिव्यं च मुनिभाषितम् ।
पौरुषं चारविन्दाक्ष तद्भेदमवधारय ॥
यदर्थाध्यसन्दिग्धं [स्वल्पं क ख ग] स्वच्छमल्पाक्षरं
स्थिरम् [स्मृतम् क च; स्थितम् ख ग] ।
तत् पारमेश्वरं वाक्यमाज्ञासिद्धं हि मोक्षदम् ॥
प्रशंसकं वै सिद्धीनां सम्प्रवर्तकमष्यथ ।
सर्वेषां रञ्जकं [गूढं क ख ग घ ङ् च छ झ]
गूढनिश्चयीकरणक्षरम् ॥
मुनिवाक्यं च तद्विद्धि चतुर्वर्गफलप्रदम् ।
अनर्थकमसम्बद्धमल्पार्थं शब्दडम्बरम् ॥
अनिर्वाहकमाअद्योक्तेर्वाक्यं तत् पौरुषं स्मृतम् ।
हेयं चानर्थसिद्धिनामाकरं नरकावहम् ॥
प्रसिद्धार्थानुवादं यत् सङ्गतार्थं विलक्षणं ।
अपि चेत् पौरुषं वाक्यं ग्राह्यं तन्मुनिवाक्यवत् ॥
इति । अत्र अनिर्वाहकमाद्योक्तेः इति दिव्यमुनिभाषितयोः विरुद्धार्थत्वमुच्यते ।
असम्बद्धमिति पूर्वपरविरुद्धत्वम् । तदिदमुभयमपि
निदृष्टसंहितत्यातेन उत्कृष्टसंहितापरिग्रहवचने
श्रीसात्त्वतपौष्करनारदीयपाद्मादिविरोधात् सामान्य्नेन
सर्वसङ्करनिषेधपरस्वपूर्वापरग्रण्थविरोधमवधारयन्तो
धृष्टबुद्धयः कतिचन
तन्त्रतन्त्रान्तरमर्यादाप्रवृत्तस्थानाक्रमणलुब्धागममन्त्रसिद्धन्तभिम्
आनिपुरुषकृतप्रक्षेपोऽयमिति मन्यन्ते ।
उत्कृष्ट-सिद्धन्त-स्वीकार-वचनानां मन्त्र-सिद्धन्त-स्तुति-परत्वपक्षः
अन्ये तु प्रागुक्तन्यायेन मन्त्रसिद्धन्तादिस्तुतिपरतामातिष्ठन्ते । न खल्वेतावता
कालेन कल्पारम्भकृतयुगात् प्रभृति सन्तन्यमानेषु
सात्त्वतशास्त्रसंहितास्रोतोभेदेषु अपकृष्टसंहितां
परित्यज्योत्कृष्टसंहितां कश्चित् परिजग्राहेति महाभारते
श्रीमद्वराहपुराणादिषु वा परःशतेषु पञ्चरात्रप्रस्तावेषु महर्षयः
सूचयन्ति । न चार्वाचीनैरप्यार्चायैरितः पूर्वं तथा कृतमिति
सम्प्रदायविदः शिष्टा विदामासुः । अतः शिष्टानुष्ठानबलादेव
स्तुतिपरत्वमध्यवस्यामः । यदि चैवं शास्त्रार्थः स्यात् एतावता कालेन
तन्त्रतन्त्रान्तरस्थानानि सर्वाणि मन्त्रसिद्धन्तादिना व्याप्यरन् । इतः
पूर्वमनुवृतावपि परस्तादेतद्बलावयम्बनेन तन्त्रतन्त्रान्तरसिद्धन्तयोः
सर्वत्रोच्छेदः प्रसज्येत् । अथ चेदैहिकभोगादिप्राचुर्यत् पुरुषाणां च
त्रिवर्गप्रावण्यतिशयात् तन्त्रतन्त्रान्तरयोः सर्वत्रानुवृत्तिः सम्भवतीति
मन्वीथाः तर्हि [राज् घ कोशे नस्ति] राजरष्ट्रसमृद्ध्यर्थेषु
स्थानेष्वैहिकफलप्रचुरयोरेव तन्त्रतन्त्रान्तरयोर्थापूर्वमवस्थानमुचितम् ।
न हि राजसु राष्ट्रेषु वा सुलभाः केवलमुमुक्षवः ।
तन्त्रान्तरसिद्धन्तस्य श्रीकरत्वं मोक्षप्रदत्वं च
श्रीकरसंहितायां च प्रागुक्तस्यैव सिद्धन्तचतुष्टयस्य वेदसिद्धन्तो
दिव्यसिद्धन्तस्तन्त्रसिद्धन्तः पुराणसिद्धन्त इति
प्रागुक्तादूरविप्रकृष्टैर्नामभेदैर्विभागमुक्त्वा
पुराणसिद्धन्तसञ्ज्ञितस्य तन्त्रातन्त्रसिद्धन्तस्य मोक्षप्रदस्यापि विशेषतः
श्रीकरत्वमुक्तम्-
एतत् पुराणसिद्धन्तं श्रीकरं च विशेषतः ।
इदं श्रीकरसञ्ज्ञाख्यं भोगमोक्षफलप्रदम् ॥
इति । अस्य च पूर्वापरं सर्वं सन्मार्गदीपिकायां विस्तरेणं द्रष्टव्यम् ।
भोगमोक्षफलप्रदमित्यस्य श्रीकरसञ्ज्ञकसंहिताविशेषान्वितत्वेऽपि तस्याः
संहितायाः पुराणसिद्धन्तान्तःपातित्वात् विशेषत इति [विशेष इति क ख ग
च] नियमात् चकारेणानुक्तसमुच्चयाच्च कृत्स्नस्यापि तन्त्रान्तरसिद्धन्तस्य
विशेषतः श्रीकरत्वं मोक्षप्रदत्वं च सिद्धम् । श्रीकामाश्च प्रायशो हि
राजानो राष्ट्रवर्तिनश्चेति तत्समृद्ध्यर्थेषु साधारणस्थनेषु
तन्त्रान्तरसिद्धन्तस्यौचित्यमधिकम् । निःसङ्गास्तु स्वगृहादिषु
आगमसिद्धन्तादिमर्यादामनुतिष्ठन्तु नाम् । अस्तन्त्रतन्त्रान्तरस्थानेषु
अन्यसिद्धन्तावतरणवचनमपवर्गप्रत्यासत्त्यतिशयनिबन्धनप्राशस्त्याधिव्
अयपरमिति मन्तव्यम् । तदपेक्षयैवेदमुक्तं कालोत्तरे स्वयं व्यक्तं तथा
दिव्यमुत्कृटफलदं यतः इति ।
उत्कृष्टसिद्धन्तस्वीकारवचनानां स्वयंव्यक्त-स्थानविषयत्वपक्षः(=??)
अपरे त्वाहुः व्यवस्थितस्थानविषयमेवेदम् [एवेदं क ख ग च छ ज झ
कोशेषु नास्ति] अपकृष्टसंहितात्यागेनोत्कृष्टसंहितापरिग्रवचनमिति ।
तथाहि यदुक्तं कालोत्तरे -
अनेकभेदभिन्नं च पञ्चरात्राख्यमाअगमम् ।
पूर्वमागमसिद्धन्तं मन्त्राख्यं तदनन्तरम् ।
तन्त्रं तन्त्रान्तरं चेति चतुर्धा परिकीर्तितम् ॥
इति चतुर्धा विबागं सामान्येन प्रतिपाद्य [नारायणीयं मौदध्यमाग्नि
घ; नारायणीयमौद्गल्यम् क ख ग झ]
नारायणीयमौदध्यमग्निकाश्यपसञ्ज्ञितम् इत्यादिना शास्त्राण्येतानि सुर्वत
इत्यन्तेनागमादिसीधान्तेषु चतुर्षु कतिपयसंहितानां [निदर्शनं क ख ग्
च] निवेशनमनुक्तानामपि संहितानामुपलक्षणतयोदाहृत्य एतद्वै
पञ्चरात्राख्यं शास्त्रं सर्वोत्तमोत्तमम् इति चतुर्विधमपि
पञ्चरात्रशास्त्रं सर्वोत्तमत्वेन निगम्य
आगमादिसिद्धन्तानां स्वयंव्यक्तादिनाम्नापि निर्देशः
चतुर्धा भेदभिन्नं च स्वयंव्यक्तादिभेदतः ।
स्वयंव्यक्तं हि सिद्धन्तमागमाख्यं पोरोदितम् ॥
मन्त्रसिद्धन्तसञ्ज्ञं यत् तद् दिव्यं परिकीर्तितम् ।
तन्त्रसञ्ज्ञं हि यच्छस्त्रं तत् सैद्धं समुदाहृतम् ।
तन्त्रान्तरं तु यत् प्रोक्तमार्षं तत् समुदाहृतम् ॥
इति प्रगुक्तानामेवागमसिद्धन्तादीनां [प्रागुक्तानामेव सिद्धन्तानां क;
प्रागुक्तानामेव सिद्धन्तादीनां ख ग] स्वयंव्यक्तदिव्यसैद्धर्षरूपेण
वक्ष्यमाणोपयोगिसञ्ज्ञान्तराणि निर्दिश्य
स्वयंव्यक्तेन दिव्येन पूज्यमाने तु कौतुके [कौतुकात् क झ;
स्वयंव्यक्तेन इत्यारभ्य सार्ध"लोकद्वयं ख ग पुस्तकयोः न
दृश्यते] ।
तन्त्रतन्त्रान्तराभ्यां तु न कुर्याद् देवपूजनम् ॥
पूज्यते यदि संओहात् स्थाननाशो भवेद् ध्रुवम् ।
राज्ञो राष्ट्रस्य कर्तुश्च मरणं जायते ध्रुवम् ॥
तस्मात् पूजा न कर्तव्या तन्त्रतन्त्रान्तराध्वना ।
[स्वयंव्यक्ते च दिव्ये च सैद्धे चार्षे द्विजोतम क ख ग] अनुक्तं यत्
स्वयंव्यक्ते दिव्ये शास्त्रे द्विजोत्तम ॥
यत् किञ्चित् तत्तदादेयं तन्त्रतन्त्रान्तरे यथा [तथा क ख ग ङ् झ] ।
तन्त्रतन्त्रान्तरोक्तेन पूज्यमानेऽपि देशिकैः ॥
तद्विवानं परित्यज्य स्वयंव्यक्तोक्तवर्त्मना ।
दिव्योक्तविधिना कार्यं पूजनं प्रतिमासु च [प्रतिमासु चेति क ख ग च
झ] ॥
स्वयंव्यक्तं तथा दिव्यमुत्कृष्टफलदं यतः ।
तस्मादुर्कृष्टशास्त्रोक्तमार्गेण सुपूजयेत् ॥
इति तन्त्रतन्त्रान्तराभ्यां पुज्ज्यमानेऽपि तद्विधानं परित्यज्य
उत्कृष्टफलदत्वेन उत्कृष्टेन स्वयंव्यक्तेन दिव्येन च शास्त्रेण पूजनं
युक्तमिति ।
उत्कृष्टसिद्धन्तस्वीकार-वचनानां स्वयंव्यक्त-स्थान-विषयत्वम्
तदिदं सर्वस्थानविषयं प्रतिनियतस्थानविषयं वेति विचारणीयम् । यदि
[सर्वविषयं ङ् छ ज] सर्वस्थानविषयं तदा
परिगृहीततमसात्त्वताद्यनेकसंहिताग्रन्थसङ्कोचः प्रसज्येत् । अपिच
अस्मिन्नेवोत्तरत्र स्वयंव्यक्तादिस्थानलक्षणनिरूपणाध्याये
तत्तत्स्थानलक्षणमुक्त्वा पश्चात् चतुर्विधपूजानिर्णयाध्याये
चतुर्विधपूजनस्य यथाक्रमं वैदिकं तान्त्रिकं श्रौतं मिश्रं चेति
चतुर्विधम् इति प्रकम्य
मूलश्रुतिदिव्यमन्त्रप्रवृत्तश्रुतितत्सम्भेदनिमित्तनामधेयानि
प्रतिपाध्यानन्तरमुच्यते -
वैदिकैस्तान्त्रिकैर्वापि श्रौतैर्वा दिजसत्तम ।
स्वयंव्यक्ते तु भवने मिश्रैर्वा देवमर्चयेत् ॥
ऋष्यादिपूजिते स्थाने पारम्पर्यक्रमं विना ।
विशेषं नाचरेत् किञ्चिद्राजराष्ट्रसमृद्धये ॥
इति । अत्र स्वयंव्यक्तस्थाने चरुर्णां पूजाविशेषाणां यथारुचि विकल्पेन
परिग्रहं प्रतिपाद्यं ऋष्यादिपूजितेषु स्थानान्तरेषु
पारम्पर्यक्रममन्तरेण मात्रयापि विशेषं नाचरेदित्युक्तत्वात् यत्र
[यत्र क ख ग कोशेषु नास्ति] स्वयंव्यक्ते विकल्पेन कर्मणां
प्रवृत्तिः सम्भवति [सम्भवतीति क ग]
तत्रैवापकृष्टफलशास्त्रपरित्यागेन उत्कृष्टफलशस्त्रपरिग्रहवचनं
लिङ्गवशान्नेतव्यम् । पवित्रं दक्षिणे कर्णे इति लिङ्गात् दिवा सन्ध्यासु
कर्णस्थब्रह्मसूत्रः इत्यस्य स्थाननियमवत् प्रतिनियतस्वयंव्यक्तेषु
स्थानेष्विति व्यक्तमवसीयते । अस्मिन्नेवोत्तरत्र प्रायश्चित्तध्यायेऽपि
वैदिकैस्तान्त्रिकर्वापि इत्यादि श्लोकद्वयं पुनः पठितम् । मानुषे भवने
देवं तन्त्रमार्गेण पूजयेत् इति चोक्तम् । पुनश्च -
यद्बिम्बं येन शास्त्रेण समारब्धं पुरा द्विज ।
प्रासादो वा ततस्तेन शास्त्रैणैव तदर्चयेत् ॥
तच्छास्त्रमन्तरेणैव यो यजेदन्यवर्त्मना ।
राज्ञो राष्ट्रस्य कर्तुश्च स नाशं कर्तुमिच्छति ॥
न कदाचिदपि प्राज्ञः प्रकुर्याच्छास्त्रसङ्करम् ।
शास्त्रसङ्करदोषेण महान् दोषो भवेद् ध्रुवम् ॥
इत्युक्तम् । अतोऽप्यत्रापकृष्टशास्त्रपरित्यागेनोत्कृष्टशास्त्रपरिग्रहवचनं
स्वेनैव नानाशास्त्रार्थविकल्पयोग्यत्वेन प्रतिपादिते स्वयंव्यक्ते स्थाने
स्थापनीयमिति सिद्धम् ।
स्थानविशेषमधिकृत्य शास्त्राधिकारिणोः नियमपराणां वचनानाम् अर्थविचारः
यदपि चात्र स्थानविशेषमधिकृत्य [शास्त्राधिकारिणः क ख ग च]
शास्त्राधिकारिणोर्नियमः क्रियते-
स्वयंव्यक्ते तथा दिव्ये दिव्यशास्त्रोक्तवर्त्मना ।
मूलागमसमेतेन मुखैर्भागवतैः सदा ॥
पूजनं प्रयतैः कार्यं पञ्चकालपरायणैः ।
वैष्णवायतने कार्यं केवलैः पाञ्चरात्रिकैः ॥
सान्तानिकैः प्रविष्टैर्वा मुनिवाक्योक्तर्वर्त्मना ।
अनुक्तान्यर्थजालानि सिद्धन्तेष्वागमादिषु ।
अन्योन्यापेक्षया ग्राह्यं शास्त्रोष्वन्यन्न चाहरेत् ॥
इति एतदपि प्रकृष्टस्थाने प्रकृष्टाधिकारिणां
[प्रकृष्टशास्त्रपरिग्रह क ख ग च झ]
प्रकृष्टशास्त्रादिपरिग्रहौचित्यमपकृष्टस्थानेऽपकृष्टाधिकारिणामपक्
ऋष्टशास्त्रादियोग्यत्वं च स्थापयति अन्यथा वैष्णवायतने क्वचिदपि
दिव्यशास्त्रानवतारप्रसङ्गात् मानुषेऽपि भवने मुख्याधिकारिभिः प्रतिष्ठिते
दिव्यशास्त्रेण पूजनादिकर्तव्यत्वस्य पारमेश्वरनिरूपणे
दर्शवि।यमाणत्वाच्च । अत्रापि सिद्धन्तसङ्करपरिहार एव अनुक्तान्यर्थजालानि
इत्यादिना स्थापितः ।
दिव्यशास्त्रेण पूजनस्य सर्वत्र सम्भवः
यत् पुनः पारमेश्वरे स्वयंव्यक्तनिर्णयाध्याये -
स्वयंव्यक्तं तथा सिद्धं विबुधैश्च [सिद्धविबुधैश्च क ख ग
च] प्रतिष्ठितम् ।
मुनिमुखैश्च [मुखैस्तु ख च छ ज झ]
गन्धर्वैक्षैर्विद्याधरैरपि ॥
रक्षोभिरधमैर्मुखैः स्थापितं मन्त्रविग्रहम् ।
दिव्यशास्त्रोक्तविधिना पूजयेच्छास्त्रकोविदः ॥
इति इदमपि दिव्यशास्त्रस्य सर्वस्थानेषु सम्भवं [समभावं ख ग;
सद्भावं घ ङ् च छ ज] दर्शयति न तु शास्त्रान्तरपरित्यागेन
दिव्यप्रवेशम् ।
[यत्त्वनन्तर क ख ग च] यच्चनन्तरमुक्तम् -
स्थापितं मनुजैर्देवं मुनिवाक्येन यत्र तु ।
पूजयेद् द्विज तत्रापि ज्ञानिभिस्तत्त्वदर्शिभिः ।
वासुदेवैकनिष्ठैस्तु देवतान्तरवर्जितैः ॥
इति इदं च व्यामिश्रमुनिवाक्यस्थापितेऽपि [अपि क ख ग ङ् च कोशेषु
नास्ति] स्थाने व्यामिश्रयागमुक्तैर्वासुदेर्वैकनिष्ठैः पूजनमात्रं
प्रशस्तमित्याह न पुनर्मनुवाक्यपरित्यागेना[परित्यागेन
स्वाधिकारानुगुण घ ङ् च छ ज] स्याधिकाराननुगुणोत्कृष्टशास्त्रेण
पूजनं विदधाति प्राक्प्रवृत्तशास्त्रानुसारेण तैरपि तत्र पूजनस्य युक्तत्वात्
उत्कृष्टशास्त्रनिष्ठानामप्यपकृष्टशास्त्रधर्मेषु लोकानुग्रहार्थं
[अनुग्रहाद्यर्थं घ ज] प्रवृत्तेः संहितान्तरादिसिद्धत्वस्य प्रागेव
दर्शितत्वात् ।
यच्चेदमनन्तरमभिधीयते -
व्यामिश्रयागमुक्तैस्तु तीव्रभक्तिसमन्वितैः ।
स्थापितं मनुजैन्द्रैस्तु निषद्वाकादिकोविदैः ।
अर्चयेद् देवदेवेशं दिव्यशास्त्रोक्तवर्त्मना ॥
इति इदमपि दिव्यशास्त्रेण स्थापितस्थानविषयमनुसन्धेयम् ।
मुनिवाक्यपरित्यागपूर्वकदिव्यमार्गपरिग्रहवचनस्य
दिव्यमार्गप्रशंसापरत्वम्
इतं त्ववशिष्यते । यदुक्तम् -
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ॥
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ।
भवेत् सन्निधिमाहात्म्यं कालं कल्पक्षयावधि ॥
दिव्यमार्गेण पूजाद्यं वर्तते यत्र नित्यशः ।
तत्र दिव्यं परित्यज्य कदाचिच्च महामते ॥
मुनिवाक्योक्तमार्गेण न कुर्यात् पूजनादिकम् ।
कुर्याद्वा यति वा मोहाद्विप्रः सम्मूढचेतनः* ॥
समन्त्रं कर्म तन्त्रं च सिद्धयश्च पराङ्मुखाः ।
इहैव शीघ्रं विप्रेन्द्र देहान्ते गतसन्ततिः ॥
इति क च ज झ पुल्स्तकेषु अधिकः पाठः ।]
घोरं प्रयाति नरकं राजा राष्ट्रं च नश्यति ।
तस्मात् सर्वप्रयत्नेन दिव्यमार्गं च न त्यजेत् ॥
इति [अस्यापि इत्यारभ्य न त्यजेदिति इति पर्यन्तं घ ङ् कोशयोः न
दृश्यते] अस्यापि प्रागुक्तन्यायेन दिव्यमार्गप्रशंसापरत्वं सुव्यक्तम्
तत्रापि इति अपिशब्दादिलिङ्गात् दिव्यमार्गं तु न त्यजेत् इति निगमनेन तत्रैव
तात्पर्यविश्रमाच्च ।
दिव्यमार्गपरिग्रहवचनानां मुनिवाक्यपूजितस्वयंव्यक्तस्थानविषयत्वम्
यद्वा कालोत्तरोक्तन्यायेन विकल्पतश्चतुर्विधपूजायोग्यं स्वयंव्यक्तं
स्थानम् मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते इत्यनूद्य तत्रापि
दिव्यमार्गेण पूजनेच्छायां मुनिवाक्यपरित्यागेन दिव्यमार्गेण
पूजनमविरुद्धमित्युच्यते । न ह्यत्र मुनिवाक्यस्थापितस्थाने क्वचिदपि
दिव्यमार्गप्रवेशः प्रस्तूयते अपि तु मुनिवाक्यपूजित एव । सा च मुनिवाक्येन
पूजा स्वयंव्यक्तेऽपि यति [यद्यपि ख ग] पूर्वं वर्तेत तत्र कुतश्चित्
प्रमाणात् स्वयंव्यक्तक्षेत्रत्वे अवसिने सति मुनिवाक्यपरित्यागेनापि
दिव्यशास्त्रोक्तविधिना दिव्यशास्त्राधिकारि पूजयेदित्युक्तं भवति ।
शास्त्रस्य दिव्यादिनाम्ना विभागः
एतेन दिव्याद्यायतननिर्णयाध्यायोक्तः प्रपञ्चोऽपि प्रत्युक्तः । तथा हि -
दिव्याद्यायतनानां च पूजाद्यं यत् त्वयोदितम् ।
शास्त्रं दिव्यादिभेदेन यथाद्वक्तुमर्हसि ॥
इति सनकेन पृष्टः शाण्डिल्यः [इति पृष्ठः सनकः क ख ग]
वासुदेवेन यत् प्रोक्तं शास्त्रं भगवता स्वयम् इत्यादिना
साक्षाद्भगवत्प्रणीतं ब्रह्मरुद्रेन्द्रप्रमुखैः प्रवर्तितं शास्त्रं
दिव्यमित्युक्त्वा
ब्रह्मरुद्रमुखैर्देवैः ऋषिभिश्च तपोधनैः ।
स्वयं प्रणीतं यच्छास्त्रं तद्विद्धि मुनिभाषितम् ॥
इति [ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति क ख ग झ कोशेषु न
दृश्यते] ब्रह्मादिभिर्निर्मितं शास्त्रं मुनिभाषितमिति विभज्य एतत्तु
त्रिविधं विद्धि सात्त्विकादिविभेदतः इति मुनिभाषितस्य त्रैविध्यं प्रस्तुत्य
साक्षाद्भगवतः श्रुतार्थमात्रनिबन्धनरूपं शास्त्रं सात्त्विकम्
भगवतः श्रुतमेकदेशं स्वयोगमहिमसिद्धं च शेषं [अशेषं
सङ्कलय्य ब्रह्मादिभिस्तच्छिष्यैश्च स्वयं प्रणीतं शास्त्रं राजसम्
[केवलसत्त्वयोग क ख ग झ] केवलस्वयोगविकल्पोत्यैरर्थैः कृतं
शास्त्रं तामसम् इति मुनिभाषितस्य त्रैविध्यमुक्त्वा देवलं मनुजैर्यत्तु
कृतं तत् पौरुषं भवेत् इति दिव्यात् मुनिभाषिताच्च
[व्यक्तीभवदप्रामाण्यं ख ग] व्यतिरिक्तं
सम्भवप्रामाण्यमयोगिभिः मनुजमात्रिअः प्रणीतं पौरुषं वाक्यं
प्रतिपाद्य पुनर्दिव्यसात्त्विकराजसतामससञ्ज्ञितानि प्रमाणभूतान्येव
शास्त्राणि संहिताविशेषनियमेनापि विभज्य सात्त्वतपौष्करजयाख्यादीनि
शास्त्राणि दिव्यानि
ईश्वरभारद्वाजसौमन्तवपारमेश्वरवैहायसचित्रशिखण्डिसंहिताजयोत्तर्
आदीनि सात्त्विकानि सनत्कुमारपद्मोद्भव[पाद्मोद्भव क ख
च]शातातपतेजोद्रविणमायावैभविकादीनि राजसानि
पञ्चप्रश्नशुक्रप्रश्नतत्त्वसागरादीनि तामसानीति
संहिताविभागनिर्देशानन्तरमुच्यते -
संहितानां दिव्यसात्त्विकदिभेदेन विभागः
अपकृष्टशास्त्रस्थाने उत्कृष्तशास्त्रपरिग्रहवचनस्य
स्वयंव्यक्तस्थानपरत्वम्
तामसेन तु मार्गेण पूजाद्यं यत्र वर्तते ।
तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत् ॥
राजसेन तु पूजाद्यं वर्तते यत्र नित्यशः ।
तत्रापि सात्त्विकेनैव पूजद्यं शुभदं सदा ॥
सात्तिविकेन तु पूजाद्यं वर्तते यत्र चान्वहम् [नित्यशः क ख ग च झ]
।
तत्र राजसमार्गेण न कुर्यात् पूजनादिकम् ॥
यत्र राजसामर्गेण न प्रवृत्तं त्वर्चनादिकम् ।
तत्र तामसमार्गेण न कुर्यादर्चनादिकम् ॥
विविधानां राजसामन्योन्यं स्यान्न सङ्करः ॥
इति ।
मुनिभाषितेषु त्रिषु शास्त्रेषु उत्कृष्टमध्यमाधमगुण[गुण क ख झ
ग कोशेषु नास्ति] सञ्ज्ञानिर्दिष्ठेषु
अपकृष्टगुणसञ्ज्ञितशास्त्रप्रवृत्तिस्थाने तत्परित्यागेनापि
उत्कृष्टगुणसञ्ज्ञितशास्त्रेण पूजाद्यं सिद्धिदम् ।
उत्कृष्टगुणसञ्ज्ञितशास्त्रप्रवृत्तिस्थाने तद्विपरीतेन शास्त्रेण
पूजनादिकं न कर्तव्यम् । [ननु समानगुणसञ्ज्ञितानां ग; ननु
गुणसञ्ज्ञितानां ख च] समगुणसञ्ज्ञितानां चान्योन्यं न सङ्करः
कार्य इत्युक्तम् । इहापि यत्र इति सामान्येन निर्दिष्टेऽपि प्रागुक्तन्यायेन
प्रभुतानुभावतया सर्वसहस्वयंव्यक्तक्षेत्रविशेषविषयत्वं मन्तव्यम् न
तु सार्वत्रिकत्वम् ।
प्राक्प्रवृत्ताकृष्ट-शास्त्र-प्रत्यभिज्ञानेऽपि दिव्यस्यापरित्याज्यत्वं वा
यद्वा चिरकालरष्टरक्षोभादिना विच्छिन्नपारम्पर्यप्रत्यभिज्ञानेषु
स्थानेषु किङ्कर्तव्यतामूढान् प्रति पूर्वमप्रकृष्टशास्त्रप्रवृत्तावपि
तदज्ञानदशाया मुपप्ल्वाभिसन्ध्यभावात् स्र्वाधिकारिणां
मुख्यानामुत्कृष्टशास्त्रपरिग्रौचित्यभिहोच्यते तत्र पुनः कुतश्चित
प्रमाणात् प्राक्प्रवृत्तशास्त्रपरिज्ञाने दिव्यस्यापरित्याज्यवं च । इदं च
तत्रापि इत्यतिवादलिङ्गात् अपिशब्दात् सुच्यते । अपिशब्दस्यातिवादलिङ्गत्वं
चण्डालमपि वृत्तस्थं तं देवा ब्राह्मणं विदुः इत्यादिप्रयोगेषु
प्रसिद्धम् । अत एव ह्यत्रैव पुनः सङ्करप्रिहारे सरम्भः क्रियते-
भेदं दिव्यादिकं सम्यग्ज्ञात्वा सर्वं समाचरेत् ।
यो न ज्ञात्वा तु साङ्कर्यान् पूजाद्यमनुतिष्ठति ॥
स हि सर्वस्य जगतः साङ्कर्यं कुरुते सदा ।
विशेषात् स्वस्य वंशस्य तस्मादापद्यपि द्विजः ॥
न कुर्याच्छास्त्रसाङ्कर्यं हितैषी शास्त्रकोविदः ॥
इति । अतो यथोक्त एवार्थः ।
उत्कृष्टशास्त्रपरिग्रहस्य अधिकारिविशेषविषयत्वं वा
किचित्तु
मुनिवाक्योक्तमार्गेण पूजनं यत्र वर्तते ।
तत्रापि दिव्यमार्गाच्चेत् पूजनं कर्तुमिच्छति ।
मुनिवाक्यं परित्यज्य दिव्यमार्गेण पूजयेत् ॥
इत्यादीनां वचनानामधिकारिविशेषविषयतया व्यवस्थामिछन्ति
व्यामिश्रयामुक्तैस्तु तीव्रभक्तिसमन्वितैः इति प्रक्रमात्
ऐतिकामुष्मिकसांसारिकफलविरक्तानाम् अपवर्गासन्नतमशास्त्रपरिग्रहस्य
युक्तत्वाच्च । तत्तत्तन्त्रोक्तसांसारिकफलसक्त्तनां तु यथापूर्वं परिग्रह इति ।
सात्त्विकादिशास्त्रत्रयमपि प्रमाणमेव
स्यान्नागरद्राविडवेसरं [द्रावलवैशसं ग “अ] च क्रमेण वै
सत्त्वरजस्तमांसि ।
महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आदिदेवः ॥
इति विमानक्रियादिविषयोत्तममध्यमत्वादिविवक्षया [सत्त्वादिगुणोक्तिवत्
इहापि तद्विवक्षया क ख ग ङ् च छ ज कोशेषु नास्ति] सत्त्वादिगुणोक्तिवत्
इहापि तद्विवक्षया तद्गुणोक्तेः प्रमाणभूतशास्त्रविषयेष्वेव
सात्त्विकराजसतामसविभागस्य यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः
इत्यादिभिर्गवद्गीतायामपि प्रतिपादितत्वात् । अप्रमाणभूतस्य
[अप्रामाण्यस्य क ख ग छ ज झ] पौरुषस्य तु वाक्यस्य केवलं
मनुजैर्यत्तु क्र्टं तत् पौरुषम् भवेत् इति पृथङ् निर्देशात् ।
सर्वत्र पौरुषे वाक्ये तद् ग्रह्यमविरोधि यत् ।
केवलं तद्विधानेन न कुर्यात् स्थापनदिकम् ॥
इति हि पौरुषसञ्ज्ञिते वक्ये [विरुद्धंशसद्भावः क ख ग च झ]
विरुद्धविरुद्धंशसद्भावोऽत्र दर्शितः । अतः
सात्तिवकराजसतामसञ्ज्ञानिवेशोऽत्र
सत्त्वरजस्तमःप्रौरतत्तत्फलसिद्धिविशेषतारतम्याभिप्रायेणेति मन्तव्यम् ।
कृत्स्नं पञ्चरात्रं प्रमाणं
कात्स्न्य्रेन हि भगवच्छास्त्रस्य प्रामाण्यं प्रागेव पर्तिपादितम् । न चात्र
भगवद्व्यतिरिक्तब्रह्मादिपुरुषक्र्टांशेषु कारणदोषः सम्भवति
पञ्चरात्रस्य कृट्ष्न्यस्य वक्ता नारायणः स्वयम् इति स्ववक्तृके शास्त्रे
भगवतैव तेषामृषीणां तत्तत्पुण्यविशेषानुसारेण नित्येऽपि वेदे
सुत्रकाण्डमन्त्रकृत्त्ववत् संहिताकर्तृत्वस्याधिकारतया समर्पितत्वात् ।
यथा च व्यासोक्ते महाभारते वैशम्पायनसंहिताभेदः
[संहिताभेदः घ ङ् छ ज] एवमत्रापीति न सङ्कटं किञ्चित् । अतः
कृत्स्नं पञ्चरात्रं प्रमाणम् । तस्यावान्तरसंहिताभेदः
ऋगादिवच्चतुर्धावस्थितः । तद्वदेव यथाधिकारं व्यवस्थितानुष्ठानतया
सिद्धन्तादिसङ्करपरिहारेणैव सर्वदनुवर्तनीयम् । तथानुवर्तनं
[तथानुवर्तमानानां ग घ “अ छ ज; तथानुर्वर्तने क झ]
यथाधिकारं साक्षात् परम्परया वा
सद्ब्रह्मवासुदेवाख्यपरमपुरुषार्थप्राप्तिसाधनमिति [प्राप्तिसूचनमिति
क ख] सिद्धम् ।
पञ्चकालव्यवस्थित्यै वेङ्कटेशविपश्चिता ।
श्रीपञ्चरात्रसिद्धन्तव्यवस्थेयं समर्थिता ॥
अहितविहतिदीक्षै [दक्षैः क ग “अ च छ झ ञ्]र्बाहुभिर्व्यूहभेदै##-
र्निगमनिजमतैश्च [निजनिगमशतैश्च क ग; निजनिगममतैश्च ख
झ] व्यक्तभूमा चर्तुभिः ।
प्रथमयुगसमग्रम् धर्ममभ्यस्यमानान्
प्रशमितकलुषान् [कलुषो वः घ ङ् छ ज] नः पातु वैकुण्ठनाथः
॥
इति श्रिकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रिमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु श्रीपाञ्चरात्ररक्षायां
सिद्धन्तव्यवस्थापनाख्यः [व्यवस्थाख्यः घ ङ् ज; व्यवस्थानाख्य
छ]
प्रथमोऽधिकारः